भीमसेन उवाच:
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे |
१ क
भीमसेन उवाच:
अद्य तं सूदय़िष्यामि कीचकं सहवान्धवम् ||
१ ख
भीमसेन उवाच:
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन सङ्गमम् |
२ क
भीमसेन उवाच:
दुःखं शोकं च निर्धूय़ याज्ञसेनि शुचिस्मिते ||
२ ख
भीमसेन उवाच:
यैषा नर्तनशाला वै मत्स्यराजेन कारिता |
३ क
भीमसेन उवाच:
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ||
३ ख
भीमसेन उवाच:
तत्रास्ति शय़नं भीरु दृढाङ्गं सुप्रतिष्ठितम् |
४ क
भीमसेन उवाच:
तत्रास्य दर्शय़िष्यामि पूर्वप्रेतान्पितामहान् ||
४ ख
भीमसेन उवाच:
यथा च त्वां न पश्येय़ुः कुर्वाणां तेन संविदम् |
५ क
भीमसेन उवाच:
कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत् ||
५ ख
वैशम्पाय़न उवाच:
तथा तौ कथय़ित्वा तु वाष्पमुत्सृज्य दुःखितौ |
६ क
वैशम्पाय़न उवाच:
रात्रिशेषं तदत्युग्रं धारय़ामासतुर्हृदा ||
६ ख
वैशम्पाय़न उवाच:
तस्यां रात्र्यां व्यतीताय़ां प्रातरुत्थाय़ कीचकः |
७ क
वैशम्पाय़न उवाच:
गत्वा राजकुलाय़ैव द्रौपदीमिदमव्रवीत् ||
७ ख
वैशम्पाय़न उवाच:
सभाय़ां पश्यतो राज्ञः पातय़ित्वा पदाहनम् |
८ क
वैशम्पाय़न उवाच:
न चैवालभथास्त्राणमभिपन्ना वलीय़सा ||
८ ख
वैशम्पाय़न उवाच:
प्रवादेन हि मत्स्यानां राजा नाम्नाय़मुच्यते |
९ क
वैशम्पाय़न उवाच:
अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ||
९ ख
वैशम्पाय़न उवाच:
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते |
१० क
वैशम्पाय़न उवाच:
अह्नाय़ तव सुश्रोणि शतं निष्कान्ददाम्यहम् ||
१० ख
वैशम्पाय़न उवाच:
दासीशतं च ते दद्यां दासानामपि चापरम् |
११ क
वैशम्पाय़न उवाच:
रथं चाश्वतरीय़ुक्तमस्तु नौ भीरु सङ्गमः ||
११ ख
द्रौपद्यु उवाच:
एकं मे समय़ं त्वद्य प्रतिपद्यस्व कीचक |
१२ क
द्रौपद्यु उवाच:
न त्वां सखा वा भ्राता वा जानीय़ात्सङ्गतं मय़ा ||
१२ ख
द्रौपद्यु उवाच:
अववोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम् |
१३ क
द्रौपद्यु उवाच:
एवं मे प्रतिजानीहि ततोऽहं वशगा तव ||
१३ ख
कीचक उवाच:
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे |
१४ क
कीचक उवाच:
एको भद्रे गमिष्यामि शून्यमावसथं तव ||
१४ ख
कीचक उवाच:
समागमार्थं रम्भोरु त्वय़ा मदनमोहितः |
१५ क
कीचक उवाच:
यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः ||
१५ ख
द्रौपद्यु उवाच:
यदिदं नर्तनागारं मत्स्यराजेन कारितम् |
१६ क
द्रौपद्यु उवाच:
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ||
१६ ख
द्रौपद्यु उवाच:
तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते |
१७ क
द्रौपद्यु उवाच:
तत्र दोषः परिहृतो भविष्यति न संशय़ः ||
१७ ख
वैशम्पाय़न उवाच:
तमर्थं प्रतिजल्पन्त्याः कृष्णाय़ाः कीचकेन ह |
१८ क
वैशम्पाय़न उवाच:
दिवसार्धं समभवन्मासेनैव समं नृप ||
१८ ख
वैशम्पाय़न उवाच:
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः |
१९ क
वैशम्पाय़न उवाच:
सैरन्ध्रीरूपिणं मूढो मृत्युं तं नाववुद्धवान् ||
१९ ख
वैशम्पाय़न उवाच:
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः |
२० क
वैशम्पाय़न उवाच:
अलञ्चकार सोऽऽत्मानं सत्वरः काममोहितः ||
२० ख
वैशम्पाय़न उवाच:
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् |
२१ क
वैशम्पाय़न उवाच:
अनुचिन्तय़तश्चापि तामेवाय़तलोचनाम् ||
२१ ख
वैशम्पाय़न उवाच:
आसीदभ्यधिका चास्य श्रीः श्रिय़ं प्रमुमुक्षतः |
२२ क
वैशम्पाय़न उवाच:
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ||
२२ ख
वैशम्पाय़न उवाच:
कृतसम्प्रत्ययस्तत्र कीचकः काममोहितः |
२३ क
वैशम्पाय़न उवाच:
नाजानाद्दिवसं यान्तं चिन्तय़ानः समागमम् ||
२३ ख
वैशम्पाय़न उवाच:
ततस्तु द्रौपदी गत्वा तदा भीमं महानसे |
२४ क
वैशम्पाय़न उवाच:
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ||
२४ ख
वैशम्पाय़न उवाच:
तमुवाच सुकेशान्ता कीचकस्य मय़ा कृतः |
२५ क
वैशम्पाय़न उवाच:
सङ्गमो नर्तनागारे यथावोचः परन्तप ||
२५ ख
वैशम्पाय़न उवाच:
शून्यं स नर्तनागारमागमिष्यति कीचकः |
२६ क
वैशम्पाय़न उवाच:
एको निशि महावाहो कीचकं तं निषूदय़ ||
२६ ख
वैशम्पाय़न उवाच:
तं सूतपुत्रं कौन्तेय़ कीचकं मददर्पितम् |
२७ क
वैशम्पाय़न उवाच:
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ||
२७ ख
वैशम्पाय़न उवाच:
दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते |
२८ क
वैशम्पाय़न उवाच:
तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर ||
२८ ख
वैशम्पाय़न उवाच:
अश्रु दुःखाभिभूताय़ा मम मार्जस्व भारत |
२९ क
वैशम्पाय़न उवाच:
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ||
२९ ख
भीमसेन उवाच:
स्वागतं ते वरारोहे यन्मा वेदय़से प्रिय़म् |
३० क
भीमसेन उवाच:
न ह्यस्य कञ्चिदिच्छामि सहाय़ं वरवर्णिनि ||
३० ख
भीमसेन उवाच:
या मे प्रीतिस्त्वय़ाख्याता कीचकस्य समागमे |
३१ क
भीमसेन उवाच:
हत्वा हिडिम्वं सा प्रीतिर्ममासीद्वरवर्णिनि ||
३१ ख
भीमसेन उवाच:
सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य व्रवीमि ते |
३२ क
भीमसेन उवाच:
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ||
३२ ख
भीमसेन उवाच:
तं गह्वरे प्रकाशे वा पोथय़िष्यामि कीचकम् |
३३ क
भीमसेन उवाच:
अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् ||
३३ ख
भीमसेन उवाच:
ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुन्धराम् |
३४ क
भीमसेन उवाच:
कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः ||
३४ ख
द्रौपद्यु उवाच:
यथा न सन्त्यजेथास्त्वं सत्यं वै मत्कृते विभो |
३५ क
द्रौपद्यु उवाच:
निगूढस्त्वं तथा वीर कीचकं विनिपातय़ ||
३५ ख
भीमसेन उवाच:
एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे |
३६ क
भीमसेन उवाच:
अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते ||
३६ ख
भीमसेन उवाच:
नागो विल्वमिवाक्रम्य पोथय़िष्याम्यहं शिरः |
३७ क
भीमसेन उवाच:
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ||
३७ ख
वैशम्पाय़न उवाच:
भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् |
३८ क
वैशम्पाय़न उवाच:
मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ||
३८ ख
वैशम्पाय़न उवाच:
कीचकश्चाप्यलङ्कृत्य यथाकाममुपाव्रजत् |
३९ क
वैशम्पाय़न उवाच:
तां वेलां नर्तनागारे पाञ्चालीसङ्गमाशय़ा ||
३९ ख
वैशम्पाय़न उवाच:
मन्यमानः स सङ्केतमागारं प्राविशच्च तम् |
४० क
वैशम्पाय़न उवाच:
प्रविश्य च स तद्वेश्म तमसा संवृतं महत् ||
४० ख
वैशम्पाय़न उवाच:
पूर्वागतं ततस्तत्र भीममप्रतिमौजसम् |
४१ क
वैशम्पाय़न उवाच:
एकान्तमास्थितं चैनमाससाद सुदुर्मतिः ||
४१ ख
वैशम्पाय़न उवाच:
शय़ानं शय़ने तत्र मृत्युं सूतः परामृशत् |
४२ क
वैशम्पाय़न उवाच:
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह ||
४२ ख
वैशम्पाय़न उवाच:
उपसङ्गम्य चैवैनं कीचकः काममोहितः |
४३ क
वैशम्पाय़न उवाच:
हर्षोन्मथितचित्तात्मा स्मय़मानोऽभ्यभाषत ||
४३ ख
वैशम्पाय़न उवाच:
प्रापितं ते मय़ा वित्तं वहुरूपमनन्तकम् |
४४ क
वैशम्पाय़न उवाच:
तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः ||
४४ ख
वैशम्पाय़न उवाच:
नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रिय़ः |
४५ क
वैशम्पाय़न उवाच:
सुवासा दर्शनीय़श्च नान्योऽस्ति त्वादृशः पुमान् ||
४५ ख
भीमसेन उवाच:
दिष्ट्या त्वं दर्शनीय़ोऽसि दिष्ट्यात्मानं प्रशंससि |
४६ क
भीमसेन उवाच:
ईदृशस्तु त्वय़ा स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ||
४६ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा तं महावाहुर्भीमो भीमपराक्रमः |
४७ क
वैशम्पाय़न उवाच:
समुत्पत्य च कौन्तेय़ः प्रहस्य च नराधमम् |
४७ ख
वैशम्पाय़न उवाच:
भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ||
४७ ग
वैशम्पाय़न उवाच:
स केशेषु परामृष्टो वलेन वलिनां वरः |
४८ क
वैशम्पाय़न उवाच:
आक्षिप्य केशान्वेगेन वाह्वोर्जग्राह पाण्डवम् ||
४८ ख
वैशम्पाय़न उवाच:
वाहुय़ुद्धं तय़ोरासीत्क्रुद्धय़ोर्नरसिंहय़ोः |
४९ क
वैशम्पाय़न उवाच:
वसन्ते वाशिताहेतोर्वलवद्गजय़ोरिव ||
४९ ख
वैशम्पाय़न उवाच:
ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् |
५० क