chevron_left उद्योग पर्व अध्याय २१
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः |
१ क
वैशम्पाय़न उवाच:
सम्पूज्यैनं यथाकालं भीष्मो वचनमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह वान्धवैः |
२ क
वैशम्पाय़न उवाच:
दिष्ट्या सहाय़वन्तश्च दिष्ट्या धर्मे च ते रताः ||
२ ख
वैशम्पाय़न उवाच:
दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः |
३ क
वैशम्पाय़न उवाच:
दिष्ट्या न युद्धमनसः सह दामोदरेण ते ||
३ ख
वैशम्पाय़न उवाच:
भवता सत्यमुक्तं च सर्वमेतन्न संशय़ः |
४ क
वैशम्पाय़न उवाच:
अतितीक्ष्णं तु ते वाक्यं व्राह्मण्यादिति मे मतिः ||
४ ख
वैशम्पाय़न उवाच:
असंशय़ं क्लेशितास्ते वने चेह च पाण्डवाः |
५ क
वैशम्पाय़न उवाच:
प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशय़म् ||
५ ख
वैशम्पाय़न उवाच:
किरीटी वलवान्पार्थः कृतास्त्रश्च महावलः |
६ क
वैशम्पाय़न उवाच:
को हि पाण्डुसुतं युद्धे विषहेत धनञ्जय़म् ||
६ ख
वैशम्पाय़न उवाच:
अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः |
७ क
वैशम्पाय़न उवाच:
त्रय़ाणामपि लोकानां समर्थ इति मे मतिः ||
७ ख
वैशम्पाय़न उवाच:
भीष्मे व्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान् |
८ क
वैशम्पाय़न उवाच:
दुर्योधनं समालोक्य कर्णो वचनमव्रवीत् ||
८ ख
वैशम्पाय़न उवाच:
न तन्न विदितं व्रह्मँल्लोके भूतेन केनचित् |
९ क
वैशम्पाय़न उवाच:
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः ||
९ ख
वैशम्पाय़न उवाच:
दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा |
१० क
वैशम्पाय़न उवाच:
समय़ेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ||
१० ख
वैशम्पाय़न उवाच:
न तं समय़मादृत्य राज्यमिच्छति पैतृकम् |
११ क
वैशम्पाय़न उवाच:
वलमाश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः ||
११ ख
वैशम्पाय़न उवाच:
दुर्योधनो भय़ाद्विद्वन्न दद्यात्पदमन्ततः |
१२ क
वैशम्पाय़न उवाच:
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ||
१२ ख
वैशम्पाय़न उवाच:
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः |
१३ क
वैशम्पाय़न उवाच:
यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ||
१३ ख
वैशम्पाय़न उवाच:
ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभय़ाः |
१४ क
वैशम्पाय़न उवाच:
अधार्मिकामिमां वुद्धिं कुर्युर्मौर्ख्याद्धि केवलम् ||
१४ ख
वैशम्पाय़न उवाच:
अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः |
१५ क
वैशम्पाय़न उवाच:
आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम ||
१५ ख
भीष्म उवाच:
किं नु राधेय़ वाचा ते कर्म तत्स्मर्तुमर्हसि |
१६ क
भीष्म उवाच:
एक एव यदा पार्थः षड्रथाञ्जितवान्युधि ||
१६ ख
भीष्म उवाच:
न चेदेवं करिष्यामो यदय़ं व्राह्मणोऽव्रवीत् |
१७ क
भीष्म उवाच:
ध्रुवं युधि हतास्तेन भक्षय़िष्याम पांसुकान् ||
१७ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च |
१८ क
वैशम्पाय़न उवाच:
अवभर्त्स्य च राधेय़मिदं वचनमव्रवीत् ||
१८ ख
वैशम्पाय़न उवाच:
अस्मद्धितमिदं वाक्यं भीष्मः शान्तनवोऽव्रवीत् |
१९ क
वैशम्पाय़न उवाच:
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ||
१९ ख
वैशम्पाय़न उवाच:
चिन्तय़ित्वा तु पार्थेभ्यः प्रेषय़िष्यामि सञ्जय़म् |
२० क
वैशम्पाय़न उवाच:
स भवान्प्रतिय़ात्वद्य पाण्डवानेव माचिरम् ||
२० ख
वैशम्पाय़न उवाच:
स तं सत्कृत्य कौरव्यः प्रेषय़ामास पाण्डवान् |
२१ क
वैशम्पाय़न उवाच:
सभामध्ये समाहूय़ सञ्जय़ं वाक्यमव्रवीत् ||
२१ ख