सञ्जय़ उवाच:
ततः कर्णं पुरस्कृत्य त्वदीय़ा युद्धदुर्मदाः |
१ क
सञ्जय़ उवाच:
पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम् ||
१ ख
सञ्जय़ उवाच:
द्विरदरथनराश्वशङ्खशव्दैः; परिहृषिता विविधैश्च शस्त्रपातैः |
२ क
सञ्जय़ उवाच:
द्विरदरथपदातिसार्थवाहाः; परिपतिताभिमुखाः प्रजह्रिरे ते ||
२ ख
सञ्जय़ उवाच:
शरपरशुवरासिपट्टिशै; रिषुभिरनेकविधैश्च सादिताः |
३ क
सञ्जय़ उवाच:
द्विरदरथहय़ा महाहवे; वरपुरुषैः पुरुषाश्च वाहनैः ||
३ ख
सञ्जय़ उवाच:
कमलदिनकरेन्दुसंनिभैः; सितदशनैः सुमुखाक्षिनासिकैः |
४ क
सञ्जय़ उवाच:
रुचिरमुकुटकुण्डलैर्मही; पुरुषशिरोभिरवस्तृता वभौ ||
४ ख
सञ्जय़ उवाच:
परिघमुसलशक्तितोमरै; र्नखरभुशुण्डिगदाशतैर्द्रुताः |
५ क
सञ्जय़ उवाच:
द्विरदनरहय़ाः सहस्रशो; रुधिरनदीप्रवहास्तदाभवन् ||
५ ख
सञ्जय़ उवाच:
प्रहतनररथाश्वकुञ्जरं; प्रतिभय़दर्शनमुल्वणं तदा |
६ क
सञ्जय़ उवाच:
तदहितनिहतं वभौ वलं; पितृपतिराष्ट्रमिव प्रजाक्षय़े ||
६ ख
सञ्जय़ उवाच:
अथ तव नरदेव सैनिका; स्तव च सुताः सुरसूनुसंनिभाः |
७ क
सञ्जय़ उवाच:
अमितवलपुरःसरा रणे; कुरुवृषभाः शिनिपुत्रमभ्ययुः ||
७ ख
सञ्जय़ उवाच:
तदतिरुचिरभीममावभौ; पुरुषवराश्वरथद्विपाकुलम् |
८ क
सञ्जय़ उवाच:
लवणजलसमुद्धतस्वनं; वलममरासुरसैन्यसंनिभम् ||
८ ख
सञ्जय़ उवाच:
सुरपतिसमविक्रमस्तत; स्त्रिदशवरावरजोपमं युधि |
९ क
सञ्जय़ उवाच:
दिनकरकिरणप्रभैः पृषत्कै; रवितनय़ोऽभ्यहनच्छिनिप्रवीरम् ||
९ ख
सञ्जय़ उवाच:
तमपि सरथवाजिसारथिं; शिनिवृषभो विविधैः शरैस्त्वरन् |
१० क
सञ्जय़ उवाच:
भुजगविषसमप्रभै रणे; पुरुषवरं समवास्तृणोत्तदा ||
१० ख
सञ्जय़ उवाच:
शिनिवृषभशरप्रपीडितं; तव सुहृदो वसुषेणमभ्ययुः |
११ क
सञ्जय़ उवाच:
त्वरितमतिरथा रथर्षभं; द्विरदरथाश्वपदातिभिः सह ||
११ ख
सञ्जय़ उवाच:
तमुदधिनिभमाद्रवद्वली; त्वरिततरैः समभिद्रुतं परैः |
१२ क
सञ्जय़ उवाच:
द्रुपदसुतसखस्तदाकरो; त्पुरुषरथाश्वगजक्षय़ं महत् ||
१२ ख
सञ्जय़ उवाच:
अथ पुरुषवरौ कृताह्निकौ; भवमभिपूज्य यथाविधि प्रभुम् |
१३ क
सञ्जय़ उवाच:
अरिवधकृतनिश्चय़ौ द्रुतं; तव वलमर्जुनकेशवौ सृतौ ||
१३ ख
सञ्जय़ उवाच:
जलदनिनदनिस्वनं रथं; पवनविधूतपताककेतनम् |
१४ क
सञ्जय़ उवाच:
सितहय़मुपय़ान्तमन्तिकं; हृतमनसो ददृशुस्तदारय़ः ||
१४ ख
सञ्जय़ उवाच:
अथ विस्फार्य गाण्डीवं रणे नृत्यन्निवार्जुनः |
१५ क
सञ्जय़ उवाच:
शरसम्वाधमकरोत्खं दिशः प्रदिशस्तथा ||
१५ ख
सञ्जय़ उवाच:
रथान्विमानप्रतिमान्सज्जय़न्त्राय़ुधध्वजान् |
१६ क
सञ्जय़ उवाच:
ससारथींस्तदा वाणैरभ्राणीवानिलोऽवधीत् ||
१६ ख
सञ्जय़ उवाच:
गजान्गजप्रय़न्तॄंश्च वैजय़न्त्याय़ुधध्वजान् |
१७ क
सञ्जय़ उवाच:
सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षय़म् ||
१७ ख
सञ्जय़ उवाच:
तमन्तकमिव क्रुद्धमनिवार्यं महारथम् |
१८ क
सञ्जय़ उवाच:
दुर्योधनोऽभ्ययादेको निघ्नन्वाणैः पृथग्विधैः ||
१८ ख
सञ्जय़ उवाच:
तस्यार्जुनो धनुः सूतं केतुमश्वांश्च साय़कैः |
१९ क
सञ्जय़ उवाच:
हत्वा सप्तभिरेकैकं छत्रं चिच्छेद पत्रिणा ||
१९ ख
सञ्जय़ उवाच:
नवमं च समासाद्य व्यसृजत्प्रतिघातिनम् |
२० क
सञ्जय़ उवाच:
दुर्योधनाय़ेषुवरं तं द्रौणिः सप्तधाच्छिनत् ||
२० ख
सञ्जय़ उवाच:
ततो द्रौणेर्धनुश्छित्त्वा हत्वा चाश्ववराञ्शरैः |
२१ क
सञ्जय़ उवाच:
कृपस्यापि तथात्युग्रं धनुश्चिच्छेद पाण्डवः ||
२१ ख
सञ्जय़ उवाच:
हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वं तथावधीत् |
२२ क
सञ्जय़ उवाच:
दुःशासनस्येषुवरं छित्त्वा राधेय़मभ्ययात् ||
२२ ख
सञ्जय़ उवाच:
अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः |
२३ क
सञ्जय़ उवाच:
विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस्त्रिभिः ||
२३ ख
सञ्जय़ उवाच:
अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः |
२४ क
सञ्जय़ उवाच:
नवत्या नवभिश्चोग्रैः शतेन पुनरार्दय़त् ||
२४ ख
सञ्जय़ उवाच:
ततः प्रवीराः पाण्डूनां सर्वे कर्णमपीडय़न् |
२५ क
सञ्जय़ उवाच:
युधामन्युः शिखण्डी च द्रौपदेय़ाः प्रभद्रकाः ||
२५ ख
सञ्जय़ उवाच:
उत्तमौजा युय़ुत्सुश्च यमौ पार्षत एव च |
२६ क
सञ्जय़ उवाच:
चेदिकारूषमत्स्यानां केकय़ानां च यद्वलम् |
२६ ख
सञ्जय़ उवाच:
चेकितानश्च वलवान्धर्मराजश्च सुव्रतः ||
२६ ग
सञ्जय़ उवाच:
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः |
२७ क
सञ्जय़ उवाच:
परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् |
२७ ख
सञ्जय़ उवाच:
भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे वृताः ||
२७ ग
सञ्जय़ उवाच:
तां शस्त्रवृष्टिं वहुधा छित्त्वा कर्णः शितैः शरैः |
२८ क
सञ्जय़ उवाच:
अपोवाह स्म तान्सर्वान्द्रुमान्भङ्क्त्वेव मारुतः ||
२८ ख
सञ्जय़ उवाच:
रथिनः समहामात्रान्गजानश्वान्ससादिनः |
२९ क
सञ्जय़ उवाच:
शरव्रातांश्च सङ्क्रुद्धो निघ्नन्कर्णो व्यदृश्यत ||
२९ ख
सञ्जय़ उवाच:
तद्वध्यमानं पाण्डूनां वलं कर्णास्त्रतेजसा |
३० क
सञ्जय़ उवाच:
विशस्त्रक्षतदेहं च प्राय़ आसीत्पराङ्मुखम् ||
३० ख
सञ्जय़ उवाच:
अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्वय़म् |
३१ क
सञ्जय़ उवाच:
दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ||
३१ ख
सञ्जय़ उवाच:
मुसलानीव निष्पेतुः परिघा इव चेषवः |
३२ क
सञ्जय़ उवाच:
शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि वापरे ||
३२ ख
सञ्जय़ उवाच:
तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् |
३३ क
सञ्जय़ उवाच:
निमीलिताक्षमत्यर्थमुदभ्राम्यत्समन्ततः ||
३३ ख
सञ्जय़ उवाच:
निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः |
३४ क
सञ्जय़ उवाच:
वध्यमानाः शरैरन्ये तदा भीताः प्रदुद्रुवुः ||
३४ ख
सञ्जय़ उवाच:
एवं तेषां तदा युद्धे संसक्तानां जय़ैषिणाम् |
३५ क
सञ्जय़ उवाच:
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् ||
३५ ख
सञ्जय़ उवाच:
तमसा च महाराज रजसा च विशेषतः |
३६ क
सञ्जय़ उवाच:
न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाशुभम् ||
३६ ख
सञ्जय़ उवाच:
ते त्रसन्तो महेष्वासा रात्रिय़ुद्धस्य भारत |
३७ क
सञ्जय़ उवाच:
अपय़ानं ततश्चक्रुः सहिताः सर्ववाजिभिः ||
३७ ख
सञ्जय़ उवाच:
कौरवेषु च यातेषु तदा राजन्दिनक्षय़े |
३८ क
सञ्जय़ उवाच:
जय़ं सुमनसः प्राप्य पार्थाः स्वशिविरं यय़ुः ||
३८ ख
सञ्जय़ उवाच:
वादित्रशव्दैर्विविधैः सिंहनादैश्च नर्तितैः |
३९ क
सञ्जय़ उवाच:
परानवहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ||
३९ ख
सञ्जय़ उवाच:
कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते |
४० क
सञ्जय़ उवाच:
आशिषः पाण्डवेय़ेषु प्राय़ुज्यन्त नरेश्वराः ||
४० ख
सञ्जय़ उवाच:
ततः कृतेऽवहारे च प्रहृष्टाः कुरुपाण्डवाः |
४१ क
सञ्जय़ उवाच:
निशाय़ां शिविरं गत्वा न्यविशन्त नरेश्वराः ||
४१ ख
सञ्जय़ उवाच:
यक्षरक्षःपिशाचाश्च श्वापदानि च सङ्घशः |
४२ क
सञ्जय़ उवाच:
जग्मुराय़ोधनं घोरं रुद्रस्यानर्तनोपमम् ||
४२ ख