सञ्जय़ उवाच:
पुत्रस्तु ते महाराज रथस्थो रथिनां वरः |
१ क
सञ्जय़ उवाच:
दुरुत्सहो वभौ युद्धे यथा रुद्रः प्रतापवान् ||
१ ख
सञ्जय़ उवाच:
तस्य वाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही |
२ क
सञ्जय़ उवाच:
परांश्च सिषिचे वाणैर्धाराभिरिव पर्वतान् ||
२ ख
सञ्जय़ उवाच:
न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे |
३ क
सञ्जय़ उवाच:
हय़ो गजो रथो वापि योऽस्य वाणैरविक्षतः ||
३ ख
सञ्जय़ उवाच:
यं यं हि समरे योधं प्रपश्यामि विशां पते |
४ क
सञ्जय़ उवाच:
स स वाणैश्चितोऽभूद्वै पुत्रेण तव भारत ||
४ ख
सञ्जय़ उवाच:
यथा सैन्येन रजसा समुद्धूतेन वाहिनी |
५ क
सञ्जय़ उवाच:
प्रत्यदृश्यत सञ्छन्ना तथा वाणैर्महात्मनः ||
५ ख
सञ्जय़ उवाच:
वाणभूतामपश्याम पृथिवीं पृथिवीपते |
६ क
सञ्जय़ उवाच:
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना ||
६ ख
सञ्जय़ उवाच:
तेषु योधसहस्रेषु तावकेषु परेषु च |
७ क
सञ्जय़ उवाच:
एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम ||
७ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् |
८ क
सञ्जय़ उवाच:
यदेकं सहिताः पार्था नात्यवर्तन्त भारत ||
८ ख
सञ्जय़ उवाच:
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ |
९ क
सञ्जय़ उवाच:
भीमसेनं च सप्तत्या सहदेवं च सप्तभिः ||
९ ख
सञ्जय़ उवाच:
नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः |
१० क
सञ्जय़ उवाच:
सप्तभिर्द्रौपदेय़ांश्च त्रिभिर्विव्याध सात्यकिम् |
१० ख
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष ||
१० ग
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् |
११ क
सञ्जय़ उवाच:
अभ्यधावत राजानं प्रगृह्यान्यन्महद्धनुः |
११ ख
सञ्जय़ उवाच:
ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः ||
११ ग
सञ्जय़ उवाच:
नकुलश्च ततो वीरो राजानं नवभिः शरैः |
१२ क
सञ्जय़ उवाच:
घोररूपैर्महेष्वासो विव्याध च ननाद च ||
१२ ख
सञ्जय़ उवाच:
सात्यकिश्चापि राजानं शरेणानतपर्वणा |
१३ क
सञ्जय़ उवाच:
द्रौपदेय़ास्त्रिसप्तत्या धर्मराजश्च सप्तभिः |
१३ ख
सञ्जय़ उवाच:
अशीत्या भीमसेनश्च शरै राजानमार्दय़त् ||
१३ ग
सञ्जय़ उवाच:
समन्तात्कीर्यमाणस्तु वाणसङ्घैर्महात्मभिः |
१४ क
सञ्जय़ उवाच:
न चचाल महाराज सर्वसैन्यस्य पश्यतः ||
१४ ख
सञ्जय़ उवाच:
लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः |
१५ क
सञ्जय़ उवाच:
अति सर्वाणि भूतानि ददृशुः सर्वमानवाः ||
१५ ख
सञ्जय़ उवाच:
धार्तराष्ट्रास्तु राजेन्द्र यात्वा तु स्वल्पमन्तरम् |
१६ क
सञ्जय़ उवाच:
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः ||
१६ ख
सञ्जय़ उवाच:
तेषामापततां घोरस्तुमुलः समजाय़त |
१७ क
सञ्जय़ उवाच:
क्षुव्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि ||
१७ ख
सञ्जय़ उवाच:
समासाद्य रणे ते तु राजानमपराजितम् |
१८ क
सञ्जय़ उवाच:
प्रत्युद्ययुर्महेष्वासाः पाण्डवानातताय़िनः ||
१८ ख
सञ्जय़ उवाच:
भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारय़त् |
१९ क
सञ्जय़ उवाच:
ततो वाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् |
१९ ख
सञ्जय़ उवाच:
नाज्ञाय़न्त रणे वीरा न दिशः प्रदिशस्तथा ||
१९ ग
सञ्जय़ उवाच:
तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ |
२० क
सञ्जय़ उवाच:
घोररूपमय़ुध्येतां कृतप्रतिकृतैषिणौ |
२० ख
सञ्जय़ उवाच:
त्रासय़न्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ ||
२० ग
सञ्जय़ उवाच:
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडय़त् |
२१ क
सञ्जय़ उवाच:
तस्याश्वांश्चतुरो हत्वा सुवलस्य सुतो विभुः |
२१ ख
सञ्जय़ उवाच:
नादं चकार वलवान्सर्वसैन्यानि कम्पय़न् ||
२१ ग
सञ्जय़ उवाच:
एतस्मिन्नन्तरे वीरं राजानमपराजितम् |
२२ क
सञ्जय़ उवाच:
अपोवाह रथेनाजौ सहदेवः प्रतापवान् ||
२२ ख
सञ्जय़ उवाच:
अथान्यं रथमास्थाय़ धर्मराजो युधिष्ठिरः |
२३ क
सञ्जय़ उवाच:
शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः |
२३ ख
सञ्जय़ उवाच:
ननाद च महानादं प्रवरः सर्वधन्विनाम् ||
२३ ग
सञ्जय़ उवाच:
तद्युद्धमभवच्चित्रं घोररूपं च मारिष |
२४ क
सञ्जय़ उवाच:
ईक्षितृप्रीतिजननं सिद्धचारणसेवितम् ||
२४ ख
सञ्जय़ उवाच:
उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् |
२५ क
सञ्जय़ उवाच:
अभ्यद्रवदमेय़ात्मा शरवर्षैः समन्ततः ||
२५ ख
सञ्जय़ उवाच:
तथैव नकुलः शूरः सौवलस्य सुतं रणे |
२६ क
सञ्जय़ उवाच:
शरवर्षेण महता समन्तात्पर्यवारय़त् ||
२६ ख
सञ्जय़ उवाच:
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ |
२७ क
सञ्जय़ उवाच:
योधय़न्तावपश्येतां परस्परकृतागसौ ||
२७ ख
सञ्जय़ उवाच:
तथैव कृतवर्मा तु शैनेय़ं शत्रुतापनम् |
२८ क
सञ्जय़ उवाच:
योधय़ञ्शुशुभे राजन्वलं शक्र इवाहवे ||
२८ ख
सञ्जय़ उवाच:
दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संय़ुगे |
२९ क
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः ||
२९ ख
सञ्जय़ उवाच:
धृष्टद्युम्नोऽपि समरे प्रगृह्य परमाय़ुधम् |
३० क
सञ्जय़ उवाच:
राजानं योधय़ामास पश्यतां सर्वधन्विनाम् ||
३० ख
सञ्जय़ उवाच:
तय़ोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ |
३१ क
सञ्जय़ उवाच:
प्रभिन्नय़ोर्यथा सक्तं मत्तय़ोर्वरहस्तिनोः ||
३१ ख
सञ्जय़ उवाच:
गौतमस्तु रणे क्रुद्धो द्रौपदेय़ान्महावलान् |
३२ क
सञ्जय़ उवाच:
विव्याध वहुभिः शूरः शरैः संनतपर्वभिः ||
३२ ख
सञ्जय़ उवाच:
तस्य तैरभवद्युद्धमिन्द्रिय़ैरिव देहिनः |
३३ क
सञ्जय़ उवाच:
घोररूपमसंवार्यं निर्मर्यादमतीव च ||
३३ ख
सञ्जय़ उवाच:
ते च तं पीडय़ामासुरिन्द्रिय़ाणीव वालिशम् |
३४ क
सञ्जय़ उवाच:
स च तान्प्रतिसंरव्धः प्रत्ययोधय़दाहवे ||
३४ ख
सञ्जय़ उवाच:
एवं चित्रमभूद्युद्धं तस्य तैः सह भारत |
३५ क
सञ्जय़ उवाच:
उत्थाय़ोत्थाय़ हि यथा देहिनामिन्द्रिय़ैर्विभो ||
३५ ख
सञ्जय़ उवाच:
नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा |
३६ क
सञ्जय़ उवाच:
हय़ा हय़ैः समासक्ता रथिनो रथिभिस्तथा |
३६ ख
सञ्जय़ उवाच:
सङ्कुलं चाभवद्भूय़ो घोररूपं विशां पते ||
३६ ग
सञ्जय़ उवाच:
इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो |
३७ क
सञ्जय़ उवाच:
युद्धान्यासन्महाराज घोराणि च वहूनि च ||
३७ ख
सञ्जय़ उवाच:
ते समासाद्य समरे परस्परमरिन्दमाः |
३८ क
सञ्जय़ उवाच:
विव्यधुश्चैव जघ्नुश्च समासाद्य महाहवे ||
३८ ख
सञ्जय़ उवाच:
तेषां शस्त्रसमुद्भूतं रजस्तीव्रमदृश्यत |
३९ क
सञ्जय़ उवाच:
प्रवातेनोद्धतं राजन्धावद्भिश्चाश्वसादिभिः ||
३९ ख
सञ्जय़ उवाच:
रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् |
४० क
सञ्जय़ उवाच:
रजः सन्ध्याभ्रकपिलं दिवाकरपथं यय़ौ ||
४० ख
सञ्जय़ उवाच:
रजसा तेन सम्पृक्ते भास्करे निष्प्रभीकृते |
४१ क
सञ्जय़ उवाच:
सञ्छादिताभवद्भूमिस्ते च शूरा महारथाः ||
४१ ख
सञ्जय़ उवाच:
मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः |
४२ क
सञ्जय़ उवाच:
वीरशोणितसिक्ताय़ां भूमौ भरतसत्तम |
४२ ख
सञ्जय़ उवाच:
उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् ||
४२ ग
सञ्जय़ उवाच:
ततोऽपश्यं महाराज द्वन्द्वय़ुद्धानि भारत |
४३ क
सञ्जय़ उवाच:
यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे |
४३ ख
सञ्जय़ उवाच:
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः ||
४३ ग
सञ्जय़ उवाच:
शव्दः सुतुमुलः सङ्ख्ये शराणां पततामभूत् |
४४ क
सञ्जय़ उवाच:
महावेणुवनस्येव दह्यमानस्य सर्वतः ||
४४ ख