chevron_left आदि पर्व अध्याय २१०
वैशम्पाय़न उवाच:
सोऽपरान्तेषु तीर्थानि पुण्यान्याय़तनानि च |
१ क
वैशम्पाय़न उवाच:
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ||
१ ख
वैशम्पाय़न उवाच:
समुद्रे पश्चिमे यानि तीर्थान्याय़तनानि च |
२ क
वैशम्पाय़न उवाच:
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ||
२ ख
वैशम्पाय़न उवाच:
प्रभासदेशं सम्प्राप्तं वीभत्सुमपराजितम् |
३ क
वैशम्पाय़न उवाच:
तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ||
३ ख
वैशम्पाय़न उवाच:
ततोऽभ्यगच्छत्कौन्तेय़मज्ञातो नाम माधवः |
४ क
वैशम्पाय़न उवाच:
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ||
४ ख
वैशम्पाय़न उवाच:
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने |
५ क
वैशम्पाय़न उवाच:
आस्तां प्रिय़सखाय़ौ तौ नरनाराय़णावृषी ||
५ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत |
६ क
वैशम्पाय़न उवाच:
किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ||
६ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा |
७ क
वैशम्पाय़न उवाच:
श्रुत्वोवाच च वार्ष्णेय़ एवमेतदिति प्रभुः ||
७ ख
वैशम्पाय़न उवाच:
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ |
८ क
वैशम्पाय़न उवाच:
महीधरं रैवतकं वासाय़ैवाभिजग्मतुः ||
८ ख
वैशम्पाय़न उवाच:
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् |
९ क
वैशम्पाय़न उवाच:
पुरुषाः समलञ्चक्रुरुपजह्रुश्च भोजनम् ||
९ ख
वैशम्पाय़न उवाच:
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः |
१० क
वैशम्पाय़न उवाच:
सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ||
१० ख
वैशम्पाय़न उवाच:
अभ्यनुज्ञाप्य तान्सर्वानर्चय़ित्वा च पाण्डवः |
११ क
वैशम्पाय़न उवाच:
सत्कृतं शय़नं दिव्यमभ्यगच्छन्महाद्युतिः ||
११ ख
वैशम्पाय़न उवाच:
तीर्थानां दर्शनं चैव पर्वतानां च भारत |
१२ क
वैशम्पाय़न उवाच:
आपगानां वनानां च कथय़ामास सात्वते ||
१२ ख
वैशम्पाय़न उवाच:
स कथाः कथय़न्नेव निद्रय़ा जनमेजय़ |
१३ क
वैशम्पाय़न उवाच:
कौन्तेय़ोऽपहृतस्तस्मिञ्शय़ने स्वर्गसंमिते ||
१३ ख
वैशम्पाय़न उवाच:
मधुरेण स गीतेन वीणाशव्देन चानघ |
१४ क
वैशम्पाय़न उवाच:
प्रवोध्यमानो वुवुधे स्तुतिभिर्मङ्गलैस्तथा ||
१४ ख
वैशम्पाय़न उवाच:
स कृत्वावश्यकार्याणि वार्ष्णेय़ेनाभिनन्दितः |
१५ क
वैशम्पाय़न उवाच:
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ||
१५ ख
वैशम्पाय़न उवाच:
अलङ्कृता द्वारका तु वभूव जनमेजय़ |
१६ क
वैशम्पाय़न उवाच:
कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ||
१६ ख
वैशम्पाय़न उवाच:
दिदृक्षवश्च कौन्तेय़ं द्वारकावासिनो जनाः |
१७ क
वैशम्पाय़न उवाच:
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ||
१७ ख
वैशम्पाय़न उवाच:
अवलोकेषु नारीणां सहस्राणि शतानि च |
१८ क
वैशम्पाय़न उवाच:
भोजवृष्ण्यन्धकानां च समवाय़ो महानभूत् ||
१८ ख
वैशम्पाय़न उवाच:
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः |
१९ क
वैशम्पाय़न उवाच:
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ||
१९ ख
वैशम्पाय़न उवाच:
कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः |
२० क
वैशम्पाय़न उवाच:
समानवय़सः सर्वानाश्लिष्य स पुनः पुनः ||
२० ख
वैशम्पाय़न उवाच:
कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते |
२१ क
वैशम्पाय़न उवाच:
उवास सह कृष्णेन वहुलास्तत्र शर्वरीः ||
२१ ख