सञ्जय़ उवाच:
तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे |
१ क
सञ्जय़ उवाच:
हर्षमाहारय़ां चक्रुः कुरवः सर्व एव ते ||
१ ख
सञ्जय़ उवाच:
तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः |
२ क
सञ्जय़ उवाच:
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम् ||
२ ख
सञ्जय़ उवाच:
पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा |
३ क
सञ्जय़ उवाच:
अलाय़ुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजय़न् ||
३ ख
सञ्जय़ उवाच:
तस्मिंस्त्वमानुषे युद्धे वर्तमाने भय़ावहे |
४ क
सञ्जय़ उवाच:
कर्णराक्षसय़ोर्नक्तं दारुणप्रतिदर्शने ||
४ ख
सञ्जय़ उवाच:
उपप्रैक्षन्त पाञ्चालाः स्मय़मानाः सराजकाः |
५ क
सञ्जय़ उवाच:
तथैव तावका राजन्घूर्णमानास्ततस्ततः ||
५ ख
सञ्जय़ उवाच:
चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादय़ः |
६ क
सञ्जय़ उवाच:
तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्वस्य रणाजिरे ||
६ ख
सञ्जय़ उवाच:
सर्वमाविग्नमभवद्धाहाभूतमचेतनम् |
७ क
सञ्जय़ उवाच:
तव सैन्यं महाराज निराशं कर्णजीविते ||
७ ख
सञ्जय़ उवाच:
दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम् |
८ क
सञ्जय़ उवाच:
अलाय़ुधं राक्षसेन्द्रमाहूय़ेदमथाव्रवीत् ||
८ ख
सञ्जय़ उवाच:
एष वैकर्तनः कर्णो हैडिम्वेन समागतः |
९ क
सञ्जय़ उवाच:
कुरुते कर्म सुमहद्यदस्यौपय़िकं मृधे ||
९ ख
सञ्जय़ उवाच:
पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना |
१० क
सञ्जय़ उवाच:
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना ||
१० ख
सञ्जय़ उवाच:
तवैष भागः समरे राजमध्ये मय़ा कृतः |
११ क
सञ्जय़ उवाच:
तवैवानुमते वीर तं विक्रम्य निवर्हय़ ||
११ ख
सञ्जय़ उवाच:
पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः |
१२ क
सञ्जय़ उवाच:
माय़ावलमुपाश्रित्य कर्शय़त्यरिकर्शनः ||
१२ ख
सञ्जय़ उवाच:
एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः |
१३ क
सञ्जय़ उवाच:
तथेत्युक्त्वा महावाहुर्घटोत्कचमुपाद्रवत् ||
१३ ख
सञ्जय़ उवाच:
ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो |
१४ क
सञ्जय़ उवाच:
प्रत्यमित्रमुपाय़ान्तं मर्दय़ामास मार्गणैः ||
१४ ख
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं क्रुद्धय़ो राक्षसेन्द्रय़ोः |
१५ क
सञ्जय़ उवाच:
मत्तय़ोर्वाशिताहेतोर्द्विपय़ोरिव कानने ||
१५ ख
सञ्जय़ उवाच:
रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः |
१६ क
सञ्जय़ उवाच:
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा ||
१६ ख
सञ्जय़ उवाच:
तमाय़ान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् |
१७ क
सञ्जय़ उवाच:
अलाय़ुधेन समरे सिंहेनेव गवां पतिम् ||
१७ ख
सञ्जय़ उवाच:
रथेनादित्यवपुषा भीमः प्रहरतां वरः |
१८ क
सञ्जय़ उवाच:
किरञ्शरौघान्प्रय़यावलाय़ुधरथं प्रति ||
१८ ख
सञ्जय़ उवाच:
तमाय़ान्तमभिप्रेक्ष्य स तदालाय़ुधः प्रभो |
१९ क
सञ्जय़ उवाच:
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वय़त् ||
१९ ख
सञ्जय़ उवाच:
तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो |
२० क
सञ्जय़ उवाच:
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् ||
२० ख
सञ्जय़ उवाच:
तथैवालाय़ुधो राजञ्शिलाधौतैरजिह्मगैः |
२१ क
सञ्जय़ उवाच:
अभ्यवर्षत कौन्तेय़ं पुनः पुनररिन्दमः ||
२१ ख
सञ्जय़ उवाच:
तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् |
२२ क
सञ्जय़ उवाच:
नानाप्रहरणा भीमास्त्वत्सुतानां जय़ैषिणः ||
२२ ख
सञ्जय़ उवाच:
स ताड्यमानो वलिभिर्भीमसेनो महावलः |
२३ क
सञ्जय़ उवाच:
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः ||
२३ ख
सञ्जय़ उवाच:
ते वध्यमाना भीमेन राक्षसाः खरय़ोनय़ः |
२४ क
सञ्जय़ उवाच:
विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश ||
२४ ख
सञ्जय़ उवाच:
तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महावलम् |
२५ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् ||
२५ ख
सञ्जय़ उवाच:
तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः |
२६ क
सञ्जय़ उवाच:
अलाय़ुधस्तु तानस्तान्भीमेन विशिखान्रणे |
२६ ख
सञ्जय़ उवाच:
चिच्छेद कांश्चित्समरे त्वरय़ा कांश्चिदग्रहीत् ||
२६ ग
सञ्जय़ उवाच:
स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः |
२७ क
सञ्जय़ उवाच:
गदां चिक्षेप वेगेन वज्रपातोपमां तदा ||
२७ ख
सञ्जय़ उवाच:
तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः |
२८ क
सञ्जय़ उवाच:
गदय़ा ताडय़ामास सा गदा भीममाव्रजत् ||
२८ ख
सञ्जय़ उवाच:
स राक्षसेन्द्रं कौन्तेय़ः शरवर्षैरवाकिरत् |
२९ क
सञ्जय़ उवाच:
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ||
२९ ख
सञ्जय़ उवाच:
ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः |
३० क
सञ्जय़ उवाच:
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् ||
३० ख
सञ्जय़ उवाच:
पाञ्चालाः सृञ्जय़ाश्चैव वाजिनः परमद्विपाः |
३१ क
सञ्जय़ उवाच:
न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः ||
३१ ख
सञ्जय़ उवाच:
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे |
३२ क
सञ्जय़ उवाच:
अव्रवीत्पुरुषश्रेष्ठो धनञ्जय़मिदं वचः ||
३२ ख
सञ्जय़ उवाच:
पश्य भीमं महावाहो राक्षसेन्द्रवशं गतम् |
३३ क
सञ्जय़ उवाच:
पदवीमस्य गच्छ त्वं मा विचारय़ पाण्डव ||
३३ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ |
३४ क
सञ्जय़ उवाच:
सहिता द्रौपदेय़ाश्च कर्णं यान्तु महारथाः ||
३४ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च युय़ुधानश्च वीर्यवान् |
३५ क
सञ्जय़ उवाच:
इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव ||
३५ ख
सञ्जय़ उवाच:
त्वमपीमां महावाहो चमूं द्रोणपुरस्कृताम् |
३६ क
सञ्जय़ उवाच:
वारय़स्व नरव्याघ्र महद्धि भय़मागतम् ||
३६ ख
सञ्जय़ उवाच:
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः |
३७ क
सञ्जय़ उवाच:
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे ||
३७ ख
सञ्जय़ उवाच:
अथ पूर्णाय़तोत्सृष्टैः शरैराशीविषोपमैः |
३८ क
सञ्जय़ उवाच:
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् ||
३८ ख
सञ्जय़ उवाच:
हय़ांश्चास्य शितैर्वाणैः सारथिं च महावलः |
३९ क
सञ्जय़ उवाच:
जघान मिषतः सङ्ख्ये भीमसेनस्य भारत ||
३९ ख
सञ्जय़ उवाच:
सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः |
४० क
सञ्जय़ उवाच:
तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह ||
४० ख
सञ्जय़ उवाच:
ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् |
४१ क
सञ्जय़ उवाच:
गदय़ा राक्षसो घोरो निजघान ननाद च ||
४१ ख
सञ्जय़ उवाच:
तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भय़ावहम् |
४२ क
सञ्जय़ उवाच:
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ||
४२ ख
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं तुमुलं नररक्षसोः |
४३ क
सञ्जय़ उवाच:
गदानिपातसंह्रादैर्भुवं कम्पय़तोर्भृशम् ||
४३ ख
सञ्जय़ उवाच:
गदाविमुक्तौ तौ भूय़ः समासाद्येतरेतरम् |
४४ क
सञ्जय़ उवाच:
मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः ||
४४ ख
सञ्जय़ उवाच:
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः |
४५ क
सञ्जय़ उवाच:
यथासन्नमुपादाय़ निजघ्नतुरमर्षणौ ||
४५ ख
सञ्जय़ उवाच:
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् |
४६ क
सञ्जय़ उवाच:
मत्ताविव महानागावकृष्येतां पुनः पुनः ||
४६ ख
सञ्जय़ उवाच:
तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः |
४७ क
सञ्जय़ उवाच:
स भीमसेनरक्षार्थं हैडिम्वं प्रत्यचोदय़त् ||
४७ ख