chevron_left आदि पर्व अध्याय २११
वैशम्पाय़न उवाच:
ततः कतिपय़ाहस्य तस्मिन्रैवतके गिरौ |
१ क
वैशम्पाय़न उवाच:
वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ||
१ ख
वैशम्पाय़न उवाच:
तत्र दानं ददुर्वीरा व्राह्मणानां सहस्रशः |
२ क
वैशम्पाय़न उवाच:
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ||
२ ख
वैशम्पाय़न उवाच:
प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः |
३ क
वैशम्पाय़न उवाच:
स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ||
३ ख
वैशम्पाय़न उवाच:
वादित्राणि च तत्र स्म वादकाः समवादय़न् |
४ क
वैशम्पाय़न उवाच:
ननृतुर्नर्तकाश्चैव जगुर्गानानि गाय़नाः ||
४ ख
वैशम्पाय़न उवाच:
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः |
५ क
वैशम्पाय़न उवाच:
यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ||
५ ख
वैशम्पाय़न उवाच:
पौराश्च पादचारेण यानैरुच्चावचैस्तथा |
६ क
वैशम्पाय़न उवाच:
सदाराः सानुय़ात्राश्च शतशोऽथ सहस्रशः ||
६ ख
वैशम्पाय़न उवाच:
ततो हलधरः क्षीवो रेवतीसहितः प्रभुः |
७ क
वैशम्पाय़न उवाच:
अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ||
७ ख
वैशम्पाय़न उवाच:
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् |
८ क
वैशम्पाय़न उवाच:
उपगीय़मानो गन्धर्वैः स्त्रीसहस्रसहाय़वान् ||
८ ख
वैशम्पाय़न उवाच:
रौक्मिणेय़श्च साम्वश्च क्षीवौ समरदुर्मदौ |
९ क
वैशम्पाय़न उवाच:
दिव्यमाल्याम्वरधरौ विजह्रातेऽमराविव ||
९ ख
वैशम्पाय़न उवाच:
अक्रूरः सारणश्चैव गदो भानुर्विडूरथः |
१० क
वैशम्पाय़न उवाच:
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ||
१० ख
वैशम्पाय़न उवाच:
सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ |
११ क
वैशम्पाय़न उवाच:
हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ||
११ ख
वैशम्पाय़न उवाच:
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् |
१२ क
वैशम्पाय़न उवाच:
तमुत्सवं रैवतके शोभय़ां चक्रिरे तदा ||
१२ ख
वैशम्पाय़न उवाच:
तदा कोलाहले तस्मिन्वर्तमाने महाशुभे |
१३ क
वैशम्पाय़न उवाच:
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ||
१३ ख
वैशम्पाय़न उवाच:
तत्र चङ्क्रम्यमाणौ तौ वासुदेवसुतां शुभाम् |
१४ क
वैशम्पाय़न उवाच:
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ||
१४ ख
वैशम्पाय़न उवाच:
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजाय़त |
१५ क
वैशम्पाय़न उवाच:
तं तथैकाग्रमनसं कृष्णः पार्थमलक्षय़त् ||
१५ ख
वैशम्पाय़न उवाच:
अथाव्रवीत्पुष्कराक्षः प्रहसन्निव भारत |
१६ क
वैशम्पाय़न उवाच:
वनेचरस्य किमिदं कामेनालोड्यते मनः ||
१६ ख
वैशम्पाय़न उवाच:
ममैषा भगिनी पार्थ सारणस्य सहोदरा |
१७ क
वैशम्पाय़न उवाच:
यदि ते वर्तते वुद्धिर्वक्ष्यामि पितरं स्वय़म् ||
१७ ख
अर्जुन उवाच:
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा |
१८ क
अर्जुन उवाच:
रूपेण चैव सम्पन्ना कमिवैषा न मोहय़ेत् ||
१८ ख
अर्जुन उवाच:
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् |
१९ क
अर्जुन उवाच:
यदि स्यान्मम वार्ष्णेय़ी महिषीय़ं स्वसा तव ||
१९ ख
अर्जुन उवाच:
प्राप्तौ तु क उपाय़ः स्यात्तद्व्रवीहि जनार्दन |
२० क
अर्जुन उवाच:
आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ||
२० ख
वासुदेव उवाच:
स्वय़ंवरः क्षत्रिय़ाणां विवाहः पुरुषर्षभ |
२१ क
वासुदेव उवाच:
स च संशय़ितः पार्थ स्वभावस्यानिमित्ततः ||
२१ ख
वासुदेव उवाच:
प्रसह्य हरणं चापि क्षत्रिय़ाणां प्रशस्यते |
२२ क
वासुदेव उवाच:
विवाहहेतोः शूराणामिति धर्मविदो विदुः ||
२२ ख
वासुदेव उवाच:
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम |
२३ क
वासुदेव उवाच:
हर स्वय़ंवरे ह्यस्याः को वै वेद चिकीर्षितम् ||
२३ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् |
२४ क
वैशम्पाय़न उवाच:
शीघ्रगान्पुरुषान्राजन्प्रेषय़ामासतुस्तदा ||
२४ ख
वैशम्पाय़न उवाच:
धर्मराजाय़ तत्सर्वमिन्द्रप्रस्थगताय़ वै |
२५ क
वैशम्पाय़न उवाच:
श्रुत्वैव च महावाहुरनुजज्ञे स पाण्डवः ||
२५ ख