वैशम्पाय़न उवाच:
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णय़ः |
१ क
वैशम्पाय़न उवाच:
ततोऽव्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ||
१ ख
वैशम्पाय़न उवाच:
नावमानं कुलस्यास्य गुडाकेशः प्रय़ुक्तवान् |
२ क
वैशम्पाय़न उवाच:
संमानोऽभ्यधिकस्तेन प्रय़ुक्तोऽय़मसंशय़म् ||
२ ख
वैशम्पाय़न उवाच:
अर्थलुव्धान्न वः पार्थो मन्यते सात्वतान्सदा |
३ क
वैशम्पाय़न उवाच:
स्वय़ंवरमनाधृष्यं मन्यते चापि पाण्डवः ||
३ ख
वैशम्पाय़न उवाच:
प्रदानमपि कन्याय़ाः पशुवत्कोऽनुमंस्यते |
४ क
वैशम्पाय़न उवाच:
विक्रय़ं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ||
४ ख
वैशम्पाय़न उवाच:
एतान्दोषांश्च कौन्तेय़ो दृष्टवानिति मे मतिः |
५ क
वैशम्पाय़न उवाच:
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ||
५ ख
वैशम्पाय़न उवाच:
उचितश्चैव सम्वन्धः सुभद्रा च यशस्विनी |
६ क
वैशम्पाय़न उवाच:
एष चापीदृशः पार्थः प्रसह्य हृतवानिति ||
६ ख
वैशम्पाय़न उवाच:
भरतस्यान्वय़े जातं शन्तनोश्च महात्मनः |
७ क
वैशम्पाय़न उवाच:
कुन्तिभोजात्मजापुत्रं को वुभूषेत नार्जुनम् ||
७ ख
वैशम्पाय़न उवाच:
न च पश्यामि यः पार्थं विक्रमेण पराजय़ेत् |
८ क
वैशम्पाय़न उवाच:
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ||
८ ख
वैशम्पाय़न उवाच:
स च नाम रथस्तादृङ्मदीय़ास्ते च वाजिनः |
९ क
वैशम्पाय़न उवाच:
योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ||
९ ख
वैशम्पाय़न उवाच:
तमनुद्रुत्य सान्त्वेन परमेण धनञ्जय़म् |
१० क
वैशम्पाय़न उवाच:
निवर्तय़ध्वं संहृष्टा ममैषा परमा मतिः ||
१० ख
वैशम्पाय़न उवाच:
यदि निर्जित्य वः पार्थो वलाद्गच्छेत्स्वकं पुरम् |
११ क
वैशम्पाय़न उवाच:
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजय़ः ||
११ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप |
१२ क
वैशम्पाय़न उवाच:
निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ||
१२ ख
वैशम्पाय़न उवाच:
उषित्वा तत्र कौन्तेय़ः संवत्सरपराः क्षपाः |
१३ क
वैशम्पाय़न उवाच:
पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः |
१३ ख
वैशम्पाय़न उवाच:
पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ||
१३ ग
वैशम्पाय़न उवाच:
अभिगम्य स राजानं विनय़ेन समाहितः |
१४ क
वैशम्पाय़न उवाच:
अभ्यर्च्य व्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ||
१४ ख
वैशम्पाय़न उवाच:
तं द्रौपदी प्रत्युवाच प्रणय़ात्कुरुनन्दनम् |
१५ क
वैशम्पाय़न उवाच:
तत्रैव गच्छ कौन्तेय़ यत्र सा सात्वतात्मजा |
१५ ख
वैशम्पाय़न उवाच:
सुवद्धस्यापि भारस्य पूर्ववन्धः श्लथाय़ते ||
१५ ग
वैशम्पाय़न उवाच:
तथा वहुविधं कृष्णां विलपन्तीं धनञ्जय़ः |
१६ क
वैशम्पाय़न उवाच:
सान्त्वय़ामास भूय़श्च क्षमय़ामास चासकृत् ||
१६ ख
वैशम्पाय़न उवाच:
सुभद्रां त्वरमाणश्च रक्तकौशेय़वाससम् |
१७ क
वैशम्पाय़न उवाच:
पार्थः प्रस्थापय़ामास कृत्वा गोपालिकावपुः ||
१७ ख
वैशम्पाय़न उवाच:
साधिकं तेन रूपेण शोभमाना यशस्विनी |
१८ क
वैशम्पाय़न उवाच:
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना |
१८ ख
वैशम्पाय़न उवाच:
ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ||
१८ ग
वैशम्पाय़न उवाच:
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना |
१९ क
वैशम्पाय़न उवाच:
ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाव्रवीत् ||
१९ ख
वैशम्पाय़न उवाच:
प्रत्युत्थाय़ च तां कृष्णा स्वसारं माधवस्य ताम् |
२० क
वैशम्पाय़न उवाच:
सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः |
२० ख
वैशम्पाय़न उवाच:
तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ||
२० ग
वैशम्पाय़न उवाच:
ततस्ते हृष्टमनसः पाण्डवेय़ा महारथाः |
२१ क
वैशम्पाय़न उवाच:
कुन्ती च परमप्रीता वभूव जनमेजय़ ||
२१ ख
वैशम्पाय़न उवाच:
श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् |
२२ क
वैशम्पाय़न उवाच:
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ||
२२ ख
वैशम्पाय़न उवाच:
आजगाम विशुद्धात्मा सह रामेण केशवः |
२३ क
वैशम्पाय़न उवाच:
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ||
२३ ख
वैशम्पाय़न उवाच:
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः |
२४ क
वैशम्पाय़न उवाच:
सैन्येन महता शौरिरभिगुप्तः परन्तपः ||
२४ ख
वैशम्पाय़न उवाच:
तत्र दानपतिर्धीमानाजगाम महाय़शाः |
२५ क
वैशम्पाय़न उवाच:
अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः ||
२५ ख
वैशम्पाय़न उवाच:
अनाधृष्टिर्महातेजा उद्धवश्च महाय़शाः |
२६ क
वैशम्पाय़न उवाच:
साक्षाद्वृहस्पतेः शिष्यो महावुद्धिर्महाय़शाः ||
२६ ख
वैशम्पाय़न उवाच:
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः |
२७ क
वैशम्पाय़न उवाच:
प्रद्युम्नश्चैव साम्वश्च निशठः शङ्कुरेव च ||
२७ ख
वैशम्पाय़न उवाच:
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च |
२८ क
वैशम्पाय़न उवाच:
सारणश्च महावाहुर्गदश्च विदुषां वरः ||
२८ ख
वैशम्पाय़न उवाच:
एते चान्ये च वहवो वृष्णिभोजान्धकास्तथा |
२९ क
वैशम्पाय़न उवाच:
आजग्मुः खाण्डवप्रस्थमादाय़ हरणं वहु ||
२९ ख
वैशम्पाय़न उवाच:
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् |
३० क
वैशम्पाय़न उवाच:
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापय़त्तदा ||
३० ख
वैशम्पाय़न उवाच:
ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् |
३१ क
वैशम्पाय़न उवाच:
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ||
३१ ख
वैशम्पाय़न उवाच:
सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् |
३२ क
वैशम्पाय़न उवाच:
चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ||
३२ ख
वैशम्पाय़न उवाच:
दह्यतागुरुणा चैव देशे देशे सुगन्धिना |
३३ क
वैशम्पाय़न उवाच:
सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ||
३३ ख
वैशम्पाय़न उवाच:
प्रतिपेदे महावाहुः सह रामेण केशवः |
३४ क
वैशम्पाय़न उवाच:
वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ||
३४ ख
वैशम्पाय़न उवाच:
सम्पूज्यमानः पौरैश्च व्राह्मणैश्च सहस्रशः |
३५ क
वैशम्पाय़न उवाच:
विवेश भवनं राज्ञः पुरन्दरगृहोपमम् ||
३५ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि |
३६ क
वैशम्पाय़न उवाच:
मूर्ध्नि केशवमाघ्राय़ पर्यष्वजत वाहुना ||
३६ ख
वैशम्पाय़न उवाच:
तं प्रीय़माणं कृष्णस्तु विनय़ेनाभ्यपूजय़त् |
३७ क
वैशम्पाय़न उवाच:
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजय़त् ||
३७ ख
वैशम्पाय़न उवाच:
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः |
३८ क
वैशम्पाय़न उवाच:
प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ||
३८ ख
वैशम्पाय़न उवाच:
गुरुवत्पूजय़ामास कांश्चित्कांश्चिद्वय़स्यवत् |
३९ क
वैशम्पाय़न उवाच:
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ||
३९ ख
वैशम्पाय़न उवाच:
ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् |
४० क
वैशम्पाय़न उवाच:
हरणं वै सुभद्राय़ा ज्ञातिदेय़ं महाय़शाः ||
४० ख
वैशम्पाय़न उवाच:
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् |
४१ क
वैशम्पाय़न उवाच:
चतुर्युजामुपेतानां सूतैः कुशलसंमतैः |
४१ ख
वैशम्पाय़न उवाच:
सहस्रं प्रददौ कृष्णो गवामय़ुतमेव च ||
४१ ग
वैशम्पाय़न उवाच:
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् |
४२ क
वैशम्पाय़न उवाच:
वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् |
४२ ख
वैशम्पाय़न उवाच:
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ||
४२ ग
वैशम्पाय़न उवाच:
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् |
४३ क
वैशम्पाय़न उवाच:
शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ||
४३ ख
वैशम्पाय़न उवाच:
स्नापनोत्सादने चैव सुय़ुक्तं वय़सान्वितम् |
४४ क
वैशम्पाय़न उवाच:
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ||
४४ ख
वैशम्पाय़न उवाच:
सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् |
४५ क
वैशम्पाय़न उवाच:
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ||
४५ ख
वैशम्पाय़न उवाच:
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः |
४६ क
वैशम्पाय़न उवाच:
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ||
४६ ख
वैशम्पाय़न उवाच:
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् |
४७ क
वैशम्पाय़न उवाच:
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ||
४७ ख