वैशम्पाय़न उवाच:
इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् |
१ क
वैशम्पाय़न उवाच:
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ||
१ ख
वैशम्पाय़न उवाच:
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् |
२ क
वैशम्पाय़न उवाच:
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ||
२ ख
वैशम्पाय़न उवाच:
स समं धर्मकामार्थान्सिषेवे भरतर्षभः |
३ क
वैशम्पाय़न उवाच:
त्रीनिवात्मसमान्वन्धून्वन्धुमानिव मानय़न् ||
३ ख
वैशम्पाय़न उवाच:
तेषां समविभक्तानां क्षितौ देहवतामिव |
४ क
वैशम्पाय़न उवाच:
वभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ||
४ ख
वैशम्पाय़न उवाच:
अध्येतारं परं वेदाः प्रय़ोक्तारं महाध्वराः |
५ क
वैशम्पाय़न उवाच:
रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ||
५ ख
वैशम्पाय़न उवाच:
अधिष्ठानवती लक्ष्मीः पराय़णवती मतिः |
६ क
वैशम्पाय़न उवाच:
वन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ||
६ ख
वैशम्पाय़न उवाच:
भ्रातृभिः सहितो राजा चतुर्भिरधिकं वभौ |
७ क
वैशम्पाय़न उवाच:
प्रय़ुज्यमानैर्विततो वेदैरिव महाध्वरः ||
७ ख
वैशम्पाय़न उवाच:
तं तु धौम्यादय़ो विप्राः परिवार्योपतस्थिरे |
८ क
वैशम्पाय़न उवाच:
वृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ||
८ ख
वैशम्पाय़न उवाच:
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले |
९ क
वैशम्पाय़न उवाच:
प्रजानां रेमिरे तुल्यं नेत्राणि हृदय़ानि च ||
९ ख
वैशम्पाय़न उवाच:
न तु केवलदैवेन प्रजा भावेन रेमिरे |
१० क
वैशम्पाय़न उवाच:
यद्वभूव मनःकान्तं कर्मणा स चकार तत् ||
१० ख
वैशम्पाय़न उवाच:
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रिय़म् |
११ क
वैशम्पाय़न उवाच:
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ||
११ ख
वैशम्पाय़न उवाच:
स हि सर्वस्य लोकस्य हितमात्मन एव च |
१२ क
वैशम्पाय़न उवाच:
चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ||
१२ ख
वैशम्पाय़न उवाच:
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः |
१३ क
वैशम्पाय़न उवाच:
अवसन्पृथिवीपालांस्त्रासय़न्तः स्वतेजसा ||
१३ ख
वैशम्पाय़न उवाच:
ततः कतिपय़ाहस्य वीभत्सुः कृष्णमव्रवीत् |
१४ क
वैशम्पाय़न उवाच:
उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ||
१४ ख
वैशम्पाय़न उवाच:
सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन |
१५ क
वैशम्पाय़न उवाच:
साय़ाह्ने पुनरेष्यामो रोचतां ते जनार्दन ||
१५ ख
वासुदेव उवाच:
कुन्तीमातर्ममाप्येतद्रोचते यद्वय़ं जले |
१६ क
वासुदेव उवाच:
सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ||
१६ ख
वैशम्पाय़न उवाच:
आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत |
१७ क
वैशम्पाय़न उवाच:
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ||
१७ ख
वैशम्पाय़न उवाच:
विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् |
१८ क
वैशम्पाय़न उवाच:
गृहैरुच्चावचैर्युक्तं पुरन्दरगृहोपमम् ||
१८ ख
वैशम्पाय़न उवाच:
भक्ष्यैर्भोज्यैश्च पेय़ैश्च रसवद्भिर्महाधनैः |
१९ क
वैशम्पाय़न उवाच:
माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेय़पार्थय़ोः ||
१९ ख
वैशम्पाय़न उवाच:
आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः |
२० क
वैशम्पाय़न उवाच:
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ||
२० ख
वैशम्पाय़न उवाच:
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः |
२१ क
वैशम्पाय़न उवाच:
यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थय़ोः ||
२१ ख
वैशम्पाय़न उवाच:
द्रौपदी च सुभद्रा च वासांस्याभरणानि च |
२२ क
वैशम्पाय़न उवाच:
प्रय़च्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ||
२२ ख
वैशम्पाय़न उवाच:
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः |
२३ क
वैशम्पाय़न उवाच:
जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ||
२३ ख
वैशम्पाय़न उवाच:
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् |
२४ क
वैशम्पाय़न उवाच:
मन्त्रय़ामासुरन्याश्च रहस्यानि परस्परम् ||
२४ ख
वैशम्पाय़न उवाच:
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः |
२५ क
वैशम्पाय़न उवाच:
शव्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ||
२५ ख
वैशम्पाय़न उवाच:
तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ |
२६ क
वैशम्पाय़न उवाच:
समीपे जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ||
२६ ख
वैशम्पाय़न उवाच:
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जय़ौ |
२७ क
वैशम्पाय़न उवाच:
महार्हासनय़ो राजंस्ततस्तौ संनिषीदतुः ||
२७ ख
वैशम्पाय़न उवाच:
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च |
२८ क
वैशम्पाय़न उवाच:
वहूनि कथय़ित्वा तौ रेमाते पार्थमाधवौ ||
२८ ख
वैशम्पाय़न उवाच:
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव |
२९ क
वैशम्पाय़न उवाच:
अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जय़ौ ||
२९ ख
वैशम्पाय़न उवाच:
वृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः |
३० क
वैशम्पाय़न उवाच:
हरिपिङ्गो हरिश्मश्रुः प्रमाणाय़ामतः समः ||
३० ख
वैशम्पाय़न उवाच:
तरुणादित्यसङ्काशः कृष्णवासा जटाधरः |
३१ क
वैशम्पाय़न उवाच:
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ||
३१ ख
वैशम्पाय़न उवाच:
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् |
३२ क
वैशम्पाय़न उवाच:
अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ||
३२ ख