chevron_left आदि पर्व अध्याय २१५
वैशम्पाय़न उवाच:
सोऽव्रवीदर्जुनं चैव वासुदेवं च सात्वतम् |
१ क
वैशम्पाय़न उवाच:
लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ||
१ ख
वैशम्पाय़न उवाच:
व्राह्मणो वहुभोक्तास्मि भुञ्जेऽपरिमितं सदा |
२ क
वैशम्पाय़न उवाच:
भिक्षे वार्ष्णेय़पार्थौ वामेकां तृप्तिं प्रय़च्छताम् ||
२ ख
वैशम्पाय़न उवाच:
एवमुक्तौ तमव्रूतां ततस्तौ कृष्णपाण्डवौ |
३ क
वैशम्पाय़न उवाच:
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ||
३ ख
वैशम्पाय़न उवाच:
एवमुक्तः स भगवानव्रवीत्तावुभौ ततः |
४ क
वैशम्पाय़न उवाच:
भाषमाणौ तदा वीरौ किमन्नं क्रिय़तामिति ||
४ ख
वैशम्पाय़न उवाच:
नाहमन्नं वुभुक्षे वै पावकं मां निवोधतम् |
५ क
वैशम्पाय़न उवाच:
यदन्नमनुरूपं मे तद्युवां सम्प्रय़च्छतम् ||
५ ख
वैशम्पाय़न उवाच:
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति |
६ क
वैशम्पाय़न उवाच:
तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ||
६ ख
वैशम्पाय़न उवाच:
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा |
७ क
वैशम्पाय़न उवाच:
सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ||
७ ख
वैशम्पाय़न उवाच:
तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः |
८ क
वैशम्पाय़न उवाच:
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ||
८ ख
वैशम्पाय़न उवाच:
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति |
९ क
वैशम्पाय़न उवाच:
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ||
९ ख
वैशम्पाय़न उवाच:
स युवाभ्यां सहाय़ाभ्यामस्त्रविद्भ्यां समागतः |
१० क
वैशम्पाय़न उवाच:
दहेय़ं खाण्डवं दावमेतदन्नं वृतं मय़ा ||
१० ख
वैशम्पाय़न उवाच:
युवां ह्युदकधारास्ता भूतानि च समन्ततः |
११ क
वैशम्पाय़न उवाच:
उत्तमास्त्रविदो सम्यक्सर्वतो वारय़िष्यथः ||
११ ख
वैशम्पाय़न उवाच:
एवमुक्ते प्रत्युवाच वीभत्सुर्जातवेदसम् |
१२ क
वैशम्पाय़न उवाच:
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ||
१२ ख
वैशम्पाय़न उवाच:
उत्तमास्त्राणि मे सन्ति दिव्यानि च वहूनि च |
१३ क
वैशम्पाय़न उवाच:
यैरहं शक्नुय़ां योद्धुमपि वज्रधरान्वहून् ||
१३ ख
वैशम्पाय़न उवाच:
धनुर्मे नास्ति भगवन्वाहुवीर्येण संमितम् |
१४ क
वैशम्पाय़न उवाच:
कुर्वतः समरे यत्नं वेगं यद्विषहेत मे ||
१४ ख
वैशम्पाय़न उवाच:
शरैश्च मेऽर्थो वहुभिरक्षय़ैः क्षिप्रमस्यतः |
१५ क
वैशम्पाय़न उवाच:
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ||
१५ ख
वैशम्पाय़न उवाच:
अश्वांश्च दिव्यानिच्छेय़ं पाण्डुरान्वातरंहसः |
१६ क
वैशम्पाय़न उवाच:
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ||
१६ ख
वैशम्पाय़न उवाच:
तथा कृष्णस्य वीर्येण नाय़ुधं विद्यते समम् |
१७ क
वैशम्पाय़न उवाच:
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ||
१७ ख
वैशम्पाय़न उवाच:
उपाय़ं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि |
१८ क
वैशम्पाय़न उवाच:
निवारय़ेय़ं येनेन्द्रं वर्षमाणं महावने ||
१८ ख
वैशम्पाय़न उवाच:
पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक |
१९ क
वैशम्पाय़न उवाच:
करणानि समर्थानि भगवन्दातुमर्हसि ||
१९ ख