chevron_left शान्ति पर्व अध्याय २१६
युधिष्ठिर उवाच:
यय़ा वुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् |
१ क
युधिष्ठिर उवाच:
कालदण्डविनिष्पिष्टस्तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
वासवस्य च संवादं वलेर्वैरोचनस्य च ||
२ ख
भीष्म उवाच:
पितामहमुपागत्य प्रणिपत्य कृताञ्जलिः |
३ क
भीष्म उवाच:
सर्वानेवासुराञ्जित्वा वलिं पप्रच्छ वासवः ||
३ ख
भीष्म उवाच:
यस्य स्म ददतो वित्तं न कदाचन हीय़ते |
४ क
भीष्म उवाच:
तं वलिं नाधिगच्छामि व्रह्मन्नाचक्ष्व मे वलिम् ||
४ ख
भीष्म उवाच:
स एव ह्यस्तमय़ते स स्म विद्योतते दिशः |
५ क
भीष्म उवाच:
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः |
५ ख
भीष्म उवाच:
तं वलिं नाधिगच्छामि व्रह्मन्नाचक्ष्व मे वलिम् ||
५ ग
भीष्म उवाच:
स वाय़ुर्वरुणश्चैव स रविः स च चन्द्रमाः |
६ क
भीष्म उवाच:
सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत |
६ ख
भीष्म उवाच:
तं वलिं नाधिगच्छामि व्रह्मन्नाचक्ष्व मे वलिम् ||
६ ग
व्रह्मो उवाच:
नैतत्ते साधु मघवन्यदेतदनुपृच्छसि |
७ क
व्रह्मो उवाच:
पृष्टस्तु नानृतं व्रूय़ात्तस्माद्वक्ष्यामि ते वलिम् ||
७ ख
व्रह्मो उवाच:
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः |
८ क
व्रह्मो उवाच:
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते ||
८ ख
शक्र उवाच:
यदि स्म वलिना व्रह्मञ्शून्यागारे समेय़िवान् |
९ क
शक्र उवाच:
हन्यामेनं न वा हन्यां तद्व्रह्मन्ननुशाधि माम् ||
९ ख
व्रह्मो उवाच:
मा स्म शक्र वलिं हिंसीर्न वलिर्वधमर्हति |
१० क
व्रह्मो उवाच:
न्याय़ांस्तु शक्र प्रष्टव्यस्त्वय़ा वासव काम्यया ||
१० ख
भीष्म उवाच:
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा |
११ क
भीष्म उवाच:
चचारैरावतस्कन्धमधिरुह्य श्रिय़ा वृतः ||
११ ख
भीष्म उवाच:
ततो ददर्श स वलिं खरवेषेण संवृतम् |
१२ क
भीष्म उवाच:
यथाख्यातं भगवता शून्यागारकृतालय़म् ||
१२ ख
शक्र उवाच:
खरय़ोनिमनुप्राप्तस्तुषभक्षोऽसि दानव |
१३ क
शक्र उवाच:
इय़ं ते योनिरधमा शोचस्याहो न शोचसि ||
१३ ख
शक्र उवाच:
अदृष्टं वत पश्यामि द्विषतां वशमागतम् |
१४ क
शक्र उवाच:
श्रिय़ा विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम् ||
१४ ख
शक्र उवाच:
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः |
१५ क
शक्र उवाच:
लोकान्प्रतापय़न्सर्वान्यास्यस्मानवितर्कय़न् ||
१५ ख
शक्र उवाच:
त्वन्मुखाश्चैव दैतेय़ा व्यतिष्ठंस्तव शासने |
१६ क
शक्र उवाच:
अकृष्टपच्या पृथिवी तवैश्वर्ये वभूव ह |
१६ ख
शक्र उवाच:
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि ||
१६ ग
शक्र उवाच:
यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन् |
१७ क
शक्र उवाच:
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् ||
१७ ख
शक्र उवाच:
यत्ते सहस्रसमिता ननृतुर्देवय़ोषितः |
१८ क
शक्र उवाच:
वहूनि वर्षपूगानि विहारे दीप्यतः श्रिय़ा ||
१८ ख
शक्र उवाच:
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः |
१९ क
शक्र उवाच:
कथमद्य तदा चैव मनस्ते दानवेश्वर ||
१९ ख
शक्र उवाच:
छत्रं तवासीत्सुमहत्सौवर्णं मणिभूषितम् |
२० क
शक्र उवाच:
ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा ||
२० ख
शक्र उवाच:
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः |
२१ क
शक्र उवाच:
यत्राददः सहस्राणामय़ुतानि गवां दश ||
२१ ख
शक्र उवाच:
यदा तु पृथिवीं सर्वां यजमानोऽनुपर्ययाः |
२२ क
शक्र उवाच:
शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि ||
२२ ख
शक्र उवाच:
न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च |
२३ क
शक्र उवाच:
व्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप ||
२३ ख
वलिरु उवाच:
न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च |
२४ क
वलिरु उवाच:
व्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव ||
२४ ख
वलिरु उवाच:
गुहाय़ां निहितानि त्वं मम रत्नानि पृच्छसि |
२५ क
वलिरु उवाच:
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि ||
२५ ख
वलिरु उवाच:
न त्वेतदनुरूपं ते यशसो वा कुलस्य वा |
२६ क
वलिरु उवाच:
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि ||
२६ ख
वलिरु उवाच:
न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु |
२७ क
वलिरु उवाच:
कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः ||
२७ ख
वलिरु उवाच:
त्वं तु प्राकृतय़ा वुद्ध्या पुरन्दर विकत्थसे |
२८ क
वलिरु उवाच:
यदाहमिव भावी त्वं तदा नैवं वदिष्यसि ||
२८ ख