युधिष्ठिर उवाच:
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः |
१ क
युधिष्ठिर उवाच:
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ||
१ ख
लोमश उवाच:
अद्रिराजं महाशैलं मरुं कनकपर्वतम् |
२ क
लोमश उवाच:
उदय़ास्तमय़े भानुः प्रदक्षिणमवर्तत ||
२ ख
लोमश उवाच:
तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाव्रवीत् |
३ क
लोमश उवाच:
यथा हि मेरुर्भवता नित्यशः परिगम्यते |
३ ख
लोमश उवाच:
प्रदक्षिणं च क्रिय़ते मामेवं कुरु भास्कर ||
३ ग
लोमश उवाच:
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत |
४ क
लोमश उवाच:
नाहमात्मेच्छय़ा शैल करोम्येनं प्रदक्षिणम् |
४ ख
लोमश उवाच:
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ||
४ ग
लोमश उवाच:
एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः |
५ क
लोमश उवाच:
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परन्तप ||
५ ख
लोमश उवाच:
ततो देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम् |
६ क
लोमश उवाच:
निवारय़ामासुरुपाय़तस्तं; न च स्म तेषां वचनं चकार ||
६ ख
लोमश उवाच:
अथाभिजग्मुर्मुनिमाश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम् |
७ क
लोमश उवाच:
अगस्त्यमत्यद्भुतवीर्यदीप्तं; तं चार्थमूचुः सहिताः सुरास्ते ||
७ ख
देवा ऊचुः:
सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा |
८ क
देवा ऊचुः:
शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः ||
८ ख
देवा ऊचुः:
तं निवारय़ितुं शक्तो नान्यः कश्चिद्द्विजोत्तम |
९ क
देवा ऊचुः:
ऋते त्वां हि महाभाग तस्मादेनं निवारय़ ||
९ ख
लोमश उवाच:
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् |
१० क
लोमश उवाच:
सोऽभिगम्याव्रवीद्विन्ध्यं सदारः समुपस्थितः ||
१० ख
लोमश उवाच:
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम |
११ क
लोमश उवाच:
दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् ||
११ ख
लोमश उवाच:
यावदागमनं मह्यं तावत्त्वं प्रतिपालय़ |
१२ क
लोमश उवाच:
निवृत्ते मय़ि शैलेन्द्र ततो वर्धस्व कामतः ||
१२ ख
लोमश उवाच:
एवं स समय़ं कृत्वा विन्ध्येनामित्रकर्शन |
१३ क
लोमश उवाच:
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ||
१३ ख
लोमश उवाच:
एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते |
१४ क
लोमश उवाच:
अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि ||
१४ ख
लोमश उवाच:
कालेय़ास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः |
१५ क
लोमश उवाच:
अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ||
१५ ख
लोमश उवाच:
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरव्रवीत् |
१६ क
लोमश उवाच:
किमर्थमभिय़ाताः स्थ वरं मत्तः किमिच्छथ |
१६ ख
लोमश उवाच:
एवमुक्तास्ततस्तेन देवास्तं मुनिमव्रुवन् ||
१६ ग
लोमश उवाच:
एवं त्वय़ेच्छाम कृतं महर्षे; महार्णवं पीय़मानं महात्मन् |
१७ क
लोमश उवाच:
ततो वधिष्याम सहानुवन्धा; न्कालेय़सञ्ज्ञान्सुरविद्विषस्तान् ||
१७ ख
लोमश उवाच:
त्रिदशानां वचः श्रुत्वा तथेति मुनिरव्रवीत् |
१८ क
लोमश उवाच:
करिष्ये भवतां कामं लोकानां च महत्सुखम् ||
१८ ख
लोमश उवाच:
एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम् |
१९ क
लोमश उवाच:
ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः ||
१९ ख
लोमश उवाच:
मनुष्योरगगन्धर्वय़क्षकिम्पुरुषास्तथा |
२० क
लोमश उवाच:
अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् ||
२० ख
लोमश उवाच:
ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम् |
२१ क
लोमश उवाच:
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वाय़ुना ||
२१ ख
लोमश उवाच:
हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च |
२२ क
लोमश उवाच:
नानाग्राहसमाकीर्णं नानाद्विजगणाय़ुतम् ||
२२ ख
लोमश उवाच:
अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः |
२३ क
लोमश उवाच:
ऋषय़श्च महाभागाः समासेदुर्महोदधिम् ||
२३ ख