chevron_left शान्ति पर्व अध्याय २१७
वलिरु उवाच:
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि |
५१ क
वलिरु उवाच:
यो धावता न हातव्यस्तिष्ठन्नपि न हीय़ते |
५१ ख
वलिरु उवाच:
तमिन्द्रिय़ाणि सर्वाणि नानुपश्यन्ति पञ्चधा ||
५१ ग
वलिरु उवाच:
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् |
५२ क
वलिरु उवाच:
ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा ||
५२ ख
वलिरु उवाच:
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे |
५३ क
वलिरु उवाच:
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा |
५३ ख
वलिरु उवाच:
तं कालमवजानीहि यस्य सर्वमिदं वशे ||
५३ ग
वलिरु उवाच:
वहूनीन्द्रसहस्राणि समतीतानि वासव |
५४ क
वलिरु उवाच:
वलवीर्योपपन्नानि यथैव त्वं शचीपते ||
५४ ख
वलिरु उवाच:
त्वामप्यतिवलं शक्रं देवराजं वलोत्कटम् |
५५ क
वलिरु उवाच:
प्राप्ते काले महावीर्यः कालः संशमय़िष्यति ||
५५ ख
वलिरु उवाच:
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव |
५६ क
वलिरु उवाच:
मय़ा त्वय़ा च पूर्वैश्च न स शक्योऽतिवर्तितुम् ||
५६ ख
वलिरु उवाच:
यामेतां प्राप्य जानीषे राजश्रिय़मनुत्तमाम् |
५७ क
वलिरु उवाच:
स्थिता मय़ीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ||
५७ ख
वलिरु उवाच:
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्विय़म् |
५८ क
वलिरु उवाच:
मां च लोला परित्यज्य त्वामगाद्विवुधाधिप ||
५८ ख
वलिरु उवाच:
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि |
५९ क
वलिरु उवाच:
त्वामप्येवङ्गतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति ||
५९ ख