chevron_left आदि पर्व अध्याय २१७
वैशम्पाय़न उवाच:
तौ रथाभ्यां नरव्याघ्रौ दावस्योभय़तः स्थितौ |
१ क
वैशम्पाय़न उवाच:
दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ||
१ ख
वैशम्पाय़न उवाच:
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालय़ाः |
२ क
वैशम्पाय़न उवाच:
पलाय़न्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ||
२ ख
वैशम्पाय़न उवाच:
छिद्रं हि न प्रपश्यन्ति रथय़ोराशुविक्रमात् |
३ क
वैशम्पाय़न उवाच:
आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ||
३ ख
वैशम्पाय़न उवाच:
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः |
४ क
वैशम्पाय़न उवाच:
उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ||
४ ख
वैशम्पाय़न उवाच:
दग्धैकदेशा वहवो निष्टप्ताश्च तथापरे |
५ क
वैशम्पाय़न उवाच:
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ||
५ ख
वैशम्पाय़न उवाच:
समालिङ्ग्य सुतानन्ये पितृन्मातृंस्तथापरे |
६ क
वैशम्पाय़न उवाच:
त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ||
६ ख
वैशम्पाय़न उवाच:
विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः |
७ क
वैशम्पाय़न उवाच:
तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ||
७ ख
वैशम्पाय़न उवाच:
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले |
८ क
वैशम्पाय़न उवाच:
तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ||
८ ख
वैशम्पाय़न उवाच:
जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत |
९ क
वैशम्पाय़न उवाच:
गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ||
९ ख
वैशम्पाय़न उवाच:
शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नय़ः |
१० क
वैशम्पाय़न उवाच:
अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षय़े ||
१० ख
वैशम्पाय़न उवाच:
तांस्तथोत्पततः पार्थः शरैः सञ्छिद्य खण्डशः |
११ क
वैशम्पाय़न उवाच:
दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ||
११ ख
वैशम्पाय़न उवाच:
ते शराचितसर्वाङ्गा विनदन्तो महारवान् |
१२ क
वैशम्पाय़न उवाच:
ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ||
१२ ख
वैशम्पाय़न उवाच:
शरैरभ्याहतानां च दह्यतां च वनौकसाम् |
१३ क
वैशम्पाय़न उवाच:
विरावः श्रूय़ते ह स्म समुद्रस्येव मथ्यतः ||
१३ ख
वैशम्पाय़न उवाच:
वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः |
१४ क
वैशम्पाय़न उवाच:
जनय़ामासुरुद्वेगं सुमहान्तं दिवौकसाम् ||
१४ ख
वैशम्पाय़न उवाच:
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः |
१५ क
वैशम्पाय़न उवाच:
शरणं देवराजानं सहस्राक्षं पुरन्दरम् ||
१५ ख
देवा ऊचुः:
किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना |
१६ क
देवा ऊचुः:
कच्चिन्न सङ्क्षय़ः प्राप्तो लोकानाममरेश्वर ||
१६ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वय़मेवान्ववेक्ष्य च |
१७ क
वैशम्पाय़न उवाच:
खाण्डवस्य विमोक्षार्थं प्रय़यौ हरिवाहनः ||
१७ ख
वैशम्पाय़न उवाच:
महता मेघजालेन नानारूपेण वज्रभृत् |
१८ क
वैशम्पाय़न उवाच:
आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ||
१८ ख
वैशम्पाय़न उवाच:
ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः |
१९ क
वैशम्पाय़न उवाच:
अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ||
१९ ख
वैशम्पाय़न उवाच:
असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः |
२० क
वैशम्पाय़न उवाच:
ख एव समशुष्यन्त न काश्चित्पावकं गताः ||
२० ख
वैशम्पाय़न उवाच:
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा |
२१ क
वैशम्पाय़न उवाच:
पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्वहु ||
२१ ख
वैशम्पाय़न उवाच:
अर्चिर्धाराभिसम्वद्धं धूमविद्युत्समाकुलम् |
२२ क
वैशम्पाय़न उवाच:
वभूव तद्वनं घोरं स्तनय़ित्नुसघोषवत् ||
२२ ख