भीष्म उवाच:
पुनरेव तु तं शक्रः प्रहसन्निदमव्रवीत् |
१ क
भीष्म उवाच:
निःश्वसन्तं यथा नागं प्रव्याहाराय़ भारत ||
१ ख
भीष्म उवाच:
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः |
२ क
भीष्म उवाच:
लोकान्प्रतापय़न्सर्वान्यास्यस्मानवितर्कय़न् ||
२ ख
भीष्म उवाच:
दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो वले |
३ क
भीष्म उवाच:
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ||
३ ख
भीष्म उवाच:
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् |
४ क
भीष्म उवाच:
विनिपातमिमं चाद्य शोचस्याहो न शोचसि ||
४ ख
वलिरु उवाच:
अनित्यमुपलक्ष्येदं कालपर्याय़मात्मनः |
५ क
वलिरु उवाच:
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ||
५ ख
वलिरु उवाच:
अन्तवन्त इमे देहा भूतानाममराधिप |
६ क
वलिरु उवाच:
तेन शक्र न शोचामि नापराधादिदं मम ||
६ ख
वलिरु उवाच:
जीवितं च शरीरं च प्रेत्य वै सह जाय़ते |
७ क
वलिरु उवाच:
उभे सह विवर्धेते उभे सह विनश्यतः ||
७ ख
वलिरु उवाच:
तदीदृशमिदं भावमवशः प्राप्य केवलम् |
८ क
वलिरु उवाच:
यद्येवमभिजानामि का व्यथा मे विजानतः ||
८ ख
वलिरु उवाच:
भूतानां निधनं निष्ठा स्रोतसामिव सागरः |
९ क
वलिरु उवाच:
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत् ||
९ ख
वलिरु उवाच:
ये त्वेवं नाभिजानन्ति रजोमोहपराय़णाः |
१० क
वलिरु उवाच:
ते कृच्छ्रं प्राप्य सीदन्ति वुद्धिर्येषां प्रणश्यति ||
१० ख
वलिरु उवाच:
वुद्धिलाभे हि पुरुषः सर्वं नुदति किल्विषम् |
११ क
वलिरु उवाच:
विपाप्मा लभते सत्त्वं सत्त्वस्थः सम्प्रसीदति ||
११ ख
वलिरु उवाच:
ततस्तु ये निवर्तन्ते जाय़न्ते वा पुनः पुनः |
१२ क
वलिरु उवाच:
कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः ||
१२ ख
वलिरु उवाच:
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा |
१३ क
वलिरु उवाच:
सुखदुःखफलं चैव न द्वेष्मि न च कामय़े ||
१३ ख
वलिरु उवाच:
हतं हन्ति हतो ह्येव यो नरो हन्ति कञ्चन |
१४ क
वलिरु उवाच:
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ||
१४ ख
वलिरु उवाच:
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषाय़ते |
१५ क
वलिरु उवाच:
अकर्ता ह्येव भवति कर्ता त्वेव करोति तत् ||
१५ ख
वलिरु उवाच:
को हि लोकस्य कुरुते विनाशप्रभवावुभौ |
१६ क
वलिरु उवाच:
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ||
१६ ख
वलिरु उवाच:
पृथिवी वाय़ुराकाशमापो ज्योतिश्च पञ्चमम् |
१७ क
वलिरु उवाच:
एतद्योनीनि भूतानि तत्र का परिदेवना ||
१७ ख
वलिरु उवाच:
महाविद्योऽल्पविद्यश्च वलवान्दुर्वलश्च यः |
१८ क
वलिरु उवाच:
दर्शनीय़ो विरूपश्च सुभगो दुर्भगश्च यः ||
१८ ख
वलिरु उवाच:
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा |
१९ क
वलिरु उवाच:
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ||
१९ ख
वलिरु उवाच:
दग्धमेवानुदहति हतमेवानुहन्ति च |
२० क
वलिरु उवाच:
नश्यते नष्टमेवाग्रे लव्धव्यं लभते नरः ||
२० ख
वलिरु उवाच:
नास्य द्वीपः कुतः पारं नावारः सम्प्रदृश्यते |
२१ क
वलिरु उवाच:
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तय़न् ||
२१ ख
वलिरु उवाच:
यदि मे पश्यतः कालो भूतानि न विनाशय़ेत् |
२२ क
वलिरु उवाच:
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ||
२२ ख
वलिरु उवाच:
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे |
२३ क
वलिरु उवाच:
विभ्रतं गार्दभं रूपमादिश्य परिगर्हसे ||
२३ ख
वलिरु उवाच:
इच्छन्नहं विकुर्यां हि रूपाणि वहुधात्मनः |
२४ क
वलिरु उवाच:
विभीषणानि यानीक्ष्य पलाय़ेथास्त्वमेव मे ||
२४ ख
वलिरु उवाच:
कालः सर्वं समादत्ते कालः सर्वं प्रय़च्छति |
२५ क
वलिरु उवाच:
कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् ||
२५ ख
वलिरु उवाच:
पुरा सर्वं प्रव्यथते मय़ि क्रुद्धे पुरन्दर |
२६ क
वलिरु उवाच:
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् ||
२६ ख
वलिरु उवाच:
त्वमप्येवमपेक्षस्व मात्मना विस्मय़ं गमः |
२७ क
वलिरु उवाच:
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन ||
२७ ख
वलिरु उवाच:
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा |
२८ क
वलिरु उवाच:
समवेक्षस्व मघवन्वुद्धिं विन्दस्व नैष्ठिकीम् ||
२८ ख
वलिरु उवाच:
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः |
२९ क
वलिरु उवाच:
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ||
२९ ख
वलिरु उवाच:
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो वलिः |
३० क
वलिरु उवाच:
इति मामभ्यपद्यन्त वुद्धिमात्सर्यमोहिताः ||
३० ख
वलिरु उवाच:
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते |
३१ क
वलिरु उवाच:
एवं मे निश्चिता वुद्धिः शास्तुस्तिष्ठाम्यहं वशे ||
३१ ख
वलिरु उवाच:
दृश्यते हि कुले जातो दर्शनीय़ः प्रतापवान् |
३२ क
वलिरु उवाच:
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ||
३२ ख
वलिरु उवाच:
दौष्कुलेय़स्तथा मूढो दुर्जातः शक्र दृश्यते |
३३ क
वलिरु उवाच:
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ||
३३ ख
वलिरु उवाच:
कल्याणी रूपसम्पन्ना दुर्भगा शक्र दृश्यते |
३४ क
वलिरु उवाच:
अलक्षणा विरूपा च सुभगा शक्र दृश्यते ||
३४ ख
वलिरु उवाच:
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वय़ा कृतम् |
३५ क
वलिरु उवाच:
यत्त्वमेवङ्गतो वज्रिन्यद्वाप्येवङ्गता वय़म् ||
३५ ख
वलिरु उवाच:
न कर्म तव नान्येषां कुतो मम शतक्रतो |
३६ क
वलिरु उवाच:
ऋद्धिर्वाप्यथ वा नर्द्धिः पर्याय़कृतमेव तत् ||
३६ ख
वलिरु उवाच:
पश्यामि त्वा विराजन्तं देवराजमवस्थितम् |
३७ क
वलिरु उवाच:
श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि ||
३७ ख
वलिरु उवाच:
एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत् |
३८ क
वलिरु उवाच:
पातय़ेय़महं त्वाद्य सवज्रमपि मुष्टिना ||
३८ ख
वलिरु उवाच:
न तु विक्रमकालोऽय़ं क्षमाकालोऽय़मागतः |
३९ क
वलिरु उवाच:
कालः स्थापय़ते सर्वं कालः पचति वै तथा ||
३९ ख
वलिरु उवाच:
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् |
४० क
वलिरु उवाच:
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ||
४० ख
वलिरु उवाच:
द्वादशानां हि भवतामादित्यानां महात्मनाम् |
४१ क
वलिरु उवाच:
तेजांस्येकेन सर्वेषां देवराज हृतानि मे ||
४१ ख
वलिरु उवाच:
अहमेवोद्वहाम्यापो विसृजामि च वासव |
४२ क
वलिरु उवाच:
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ||
४२ ख
वलिरु उवाच:
संरक्षामि विलुम्पामि ददाम्यहमथाददे |
४३ क
वलिरु उवाच:
संय़च्छामि निय़च्छामि लोकेषु प्रभुरीश्वरः ||
४३ ख
वलिरु उवाच:
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप |
४४ क
वलिरु उवाच:
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ||
४४ ख
वलिरु उवाच:
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते |
४५ क
वलिरु उवाच:
पर्याय़ेण हि भुज्यन्ते लोकाः शक्र यदृच्छय़ा ||
४५ ख
वलिरु उवाच:
मासार्धमासवेश्मानमहोरात्राभिसंवृतम् |
४६ क
वलिरु उवाच:
ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः ||
४६ ख
वलिरु उवाच:
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषय़ा |
४७ क
वलिरु उवाच:
अस्याः पञ्चैव चिन्ताय़ाः पर्येष्यामि च पञ्चधा ||
४७ ख
वलिरु उवाच:
गन्भीरं गहनं व्रह्म महत्तोय़ार्णवं यथा |
४८ क
वलिरु उवाच:
अनादिनिधनं चाहुरक्षरं परमेव च ||
४८ ख
वलिरु उवाच:
सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वय़म् |
४९ क
वलिरु उवाच:
मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः ||
४९ ख
वलिरु उवाच:
भूतानां तु विपर्यासं मन्यते गतवानिति |
५० क
वलिरु उवाच:
न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः ||
५० ख