भीष्म उवाच:
शतक्रतुरथापश्यद्वलेर्दीप्तां महात्मनः |
१ क
भीष्म उवाच:
स्वरूपिणीं शरीराद्धि तदा निष्क्रामतीं श्रिय़म् ||
१ ख
भीष्म उवाच:
तां दीप्तां प्रभय़ा दृष्ट्वा भगवान्पाकशासनः |
२ क
भीष्म उवाच:
विस्मय़ोत्फुल्लनय़नो वलिं पप्रच्छ वासवः ||
२ ख
भीष्म उवाच:
वले केय़मपक्रान्ता रोचमाना शिखण्डिनी |
३ क
भीष्म उवाच:
त्वत्तः स्थिता सकेय़ूरा दीप्यमाना स्वतेजसा ||
३ ख
वलिरु उवाच:
न हीमामासुरीं वेद्मि न दैवीं न च मानुषीम् |
४ क
वलिरु उवाच:
त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव ||
४ ख
शक्र उवाच:
का त्वं वलेरपक्रान्ता रोचमाना शिखण्डिनी |
५ क
शक्र उवाच:
अजानतो ममाचक्ष्व नामधेय़ं शुचिस्मिते ||
५ ख
शक्र उवाच:
का त्वं तिष्ठसि माय़ेव दीप्यमाना स्वतेजसा |
६ क
शक्र उवाच:
हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व तत्त्वतः ||
६ ख
श्रीरु उवाच:
न मा विरोचनो वेद न मा वैरोचनो वलिः |
७ क
श्रीरु उवाच:
आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः ||
७ ख
श्रीरु उवाच:
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव |
८ क
श्रीरु उवाच:
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ||
८ ख
शक्र उवाच:
किमिदं त्वं मम कृते उताहो वलिनः कृते |
९ क
शक्र उवाच:
दुःसहे विजहास्येनं चिरसंवासिनी सती ||
९ ख
श्रीरु उवाच:
न धाता न विधाता मां विदधाति कथञ्चन |
१० क
श्रीरु उवाच:
कालस्तु शक्र पर्याय़ान्मैनं शक्रावमन्यथाः ||
१० ख
शक्र उवाच:
कथं त्वय़ा वलिस्त्यक्तः किमर्थं वा शिखण्डिनि |
११ क
शक्र उवाच:
कथं च मां न जह्यास्त्वं तन्मे व्रूहि शुचिस्मिते ||
११ ख
श्रीरु उवाच:
सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि |
१२ क
श्रीरु उवाच:
पराक्रमे च धर्मे च पराचीनस्ततो वलिः ||
१२ ख
श्रीरु उवाच:
व्रह्मण्योऽय़ं सदा भूत्वा सत्यवादी जितेन्द्रिय़ः |
१३ क
श्रीरु उवाच:
अभ्यसूय़द्व्राह्मणान्वै उच्छिष्टश्चास्पृशद्घृतम् ||
१३ ख
श्रीरु उवाच:
यज्ञशीलः पुरा भूत्वा मामेव यजतेत्ययम् |
१४ क
श्रीरु उवाच:
प्रोवाच लोकान्मूढात्मा कालेनोपनिपीडितः ||
१४ ख
श्रीरु उवाच:
अपाकृता ततः शक्र त्वय़ि वत्स्यामि वासव |
१५ क
श्रीरु उवाच:
अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च ||
१५ ख
शक्र उवाच:
अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् |
१६ क
शक्र उवाच:
यस्त्वामेको विषहितुं शक्नुय़ात्कमलालय़े ||
१६ ख
श्रीरु उवाच:
नैव देवो न गन्धर्वो नासुरो न च राक्षसः |
१७ क
श्रीरु उवाच:
यो मामेको विषहितुं शक्तः कश्चित्पुरन्दर ||
१७ ख
शक्र उवाच:
तिष्ठेथा मय़ि नित्यं त्वं यथा तद्व्रूहि मे शुभे |
१८ क
शक्र उवाच:
तत्करिष्यामि ते वाक्यमृतं त्वं वक्तुमर्हसि ||
१८ ख
श्रीरु उवाच:
स्थास्यामि नित्यं देवेन्द्र यथा त्वय़ि निवोध तत् |
१९ क
श्रीरु उवाच:
विधिना वेददृष्टेन चतुर्धा विभजस्व माम् ||
१९ ख
शक्र उवाच:
अहं वै त्वा निधास्यामि यथाशक्ति यथावलम् |
२० क
शक्र उवाच:
न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके ||
२० ख
शक्र उवाच:
भूमिरेव मनुष्येषु धारणी भूतभाविनी |
२१ क
शक्र उवाच:
सा ते पादं तितिक्षेत समर्था हीति मे मतिः ||
२१ ख
श्रीरु उवाच:
एष मे निहितः पादो योऽय़ं भूमौ प्रतिष्ठितः |
२२ क
श्रीरु उवाच:
द्वितीय़ं शक्र पादं मे तस्मात्सुनिहितं कुरु ||
२२ ख
शक्र उवाच:
आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः |
२३ क
शक्र उवाच:
तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् ||
२३ ख
श्रीरु उवाच:
एष मे निहितः पादो योऽय़मप्सु प्रतिष्ठितः |
२४ क
श्रीरु उवाच:
तृतीय़ं शक्र पादं मे तस्मात्सुनिहितं कुरु ||
२४ ख
शक्र उवाच:
यस्मिन्देवाश्च यज्ञाश्च यस्मिन्वेदाः प्रतिष्ठिताः |
२५ क
शक्र उवाच:
तृतीय़ं पादमग्निस्ते सुधृतं धारय़िष्यति ||
२५ ख
श्रीरु उवाच:
एष मे निहितः पादो योऽय़मग्नौ प्रतिष्ठितः |
२६ क
श्रीरु उवाच:
चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु ||
२६ ख
शक्र उवाच:
ये वै सन्तो मनुष्येषु व्रह्मण्याः सत्यवादिनः |
२७ क
शक्र उवाच:
ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् ||
२७ ख
श्रीरु उवाच:
एष मे निहितः पादो योऽय़ं सत्सु प्रतिष्ठितः |
२८ क
श्रीरु उवाच:
एवं विनिहितां शक्र भूतेषु परिधत्स्व माम् ||
२८ ख
शक्र उवाच:
भूतानामिह वै यस्त्वा मय़ा विनिहितां सतीम् |
२९ क
शक्र उवाच:
उपहन्यात्स मे द्विष्यात्तथा शृण्वन्तु मे वचः ||
२९ ख
भीष्म उवाच:
ततस्त्यक्तः श्रिय़ा राजा दैत्यानां वलिरव्रवीत् |
३० क
भीष्म उवाच:
यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् ||
३० ख
भीष्म उवाच:
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः |
३१ क
भीष्म उवाच:
तथा मध्यन्दिने सूर्यो अस्तमेति यदा तदा |
३१ ख
भीष्म उवाच:
पुनर्देवासुरं युद्धं भावि जेतास्मि वस्तदा ||
३१ ग
भीष्म उवाच:
सर्वाँल्लोकान्यदादित्य एकस्थस्तापय़िष्यति |
३२ क
भीष्म उवाच:
तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो ||
३२ ख
शक्र उवाच:
व्रह्मणास्मि समादिष्टो न हन्तव्यो भवानिति |
३३ क
शक्र उवाच:
तेन तेऽहं वले वज्रं न विमुञ्चामि मूर्धनि ||
३३ ख
शक्र उवाच:
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर |
३४ क
शक्र उवाच:
आदित्यो नावतपिता कदाचिन्मध्यतः स्थितः ||
३४ ख
शक्र उवाच:
स्थापितो ह्यस्य समय़ः पूर्वमेव स्वय़म्भुवा |
३५ क
शक्र उवाच:
अजस्रं परिय़ात्येष सत्येनावतपन्प्रजाः ||
३५ ख
शक्र उवाच:
अय़नं तस्य षण्मासा उत्तरं दक्षिणं तथा |
३६ क
शक्र उवाच:
येन संय़ाति लोकेषु शीतोष्णे विसृजन्रविः ||
३६ ख
भीष्म उवाच:
एवमुक्तस्तु दैत्येन्द्रो वलिरिन्द्रेण भारत |
३७ क
भीष्म उवाच:
जगाम दक्षिणामाशामुदीचीं तु पुरन्दरः ||
३७ ख
भीष्म उवाच:
इत्येतद्वलिना गीतमनहङ्कारसञ्ज्ञितम् |
३८ क
भीष्म उवाच:
वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा ||
३८ ख