chevron_left आदि पर्व अध्याय २१९
वैशम्पाय़न उवाच:
तथा शैलनिपातेन भीषिताः खाण्डवालय़ाः |
१ क
वैशम्पाय़न उवाच:
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः |
१ ख
वैशम्पाय़न उवाच:
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ||
१ ग
वैशम्पाय़न उवाच:
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा |
२ क
वैशम्पाय़न उवाच:
समुद्विग्ना विससृपुस्तथान्या भूतजातय़ः ||
२ ख
वैशम्पाय़न उवाच:
तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यताय़ुधौ |
३ क
वैशम्पाय़न उवाच:
उत्पातनादशव्देन सन्त्रासित इवाभवन् ||
३ ख
वैशम्पाय़न उवाच:
स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः |
४ क
वैशम्पाय़न उवाच:
तेन ता जातय़ः क्षुद्राः सदानवनिशाचराः |
४ ख
वैशम्पाय़न उवाच:
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ||
४ ग
वैशम्पाय़न उवाच:
अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः |
५ क
वैशम्पाय़न उवाच:
वसारुधिरसम्पृक्ताः सन्ध्याय़ामिव तोय़दाः ||
५ ख
वैशम्पाय़न उवाच:
पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः |
६ क
वैशम्पाय़न उवाच:
निघ्नंश्चरति वार्ष्णेय़ः कालवत्तत्र भारत ||
६ ख
वैशम्पाय़न उवाच:
क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः |
७ क
वैशम्पाय़न उवाच:
हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ||
७ ख
वैशम्पाय़न उवाच:
तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत |
८ क
वैशम्पाय़न उवाच:
वभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ||
८ ख
वैशम्पाय़न उवाच:
समेतानां च देवानां दानवानां च सर्वशः |
९ क
वैशम्पाय़न उवाच:
विजेता नाभवत्कश्चित्कृष्णपाण्डवय़ोर्मृधे ||
९ ख
वैशम्पाय़न उवाच:
तय़ोर्वलात्परित्रातुं तं दावं तु यदा सुराः |
१० क
वैशम्पाय़न उवाच:
नाशक्नुवञ्शमय़ितुं तदाभूवन्पराङ्मुखाः ||
१० ख
वैशम्पाय़न उवाच:
शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान् |
११ क
वैशम्पाय़न उवाच:
वभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ||
११ ख
वैशम्पाय़न उवाच:
निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी |
१२ क
वैशम्पाय़न उवाच:
शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ||
१२ ख
वैशम्पाय़न उवाच:
न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः |
१३ क
वैशम्पाय़न उवाच:
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ||
१३ ख
वैशम्पाय़न उवाच:
न च शक्यौ त्वय़ा जेतुं युद्धेऽस्मिन्समवस्थितौ |
१४ क
वैशम्पाय़न उवाच:
वासुदेवार्जुनौ शक्र निवोधेदं वचो मम ||
१४ ख
वैशम्पाय़न उवाच:
नरनाराय़णौ देवौ तावेतौ विश्रुतौ दिवि |
१५ क
वैशम्पाय़न उवाच:
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ||
१५ ख
वैशम्पाय़न उवाच:
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि |
१६ क
वैशम्पाय़न उवाच:
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ||
१६ ख
वैशम्पाय़न उवाच:
पूजनीय़तमावेतावपि सर्वैः सुरासुरैः |
१७ क
वैशम्पाय़न उवाच:
सय़क्षरक्षोगन्धर्वनरकिंनरपन्नगैः ||
१७ ख
वैशम्पाय़न उवाच:
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव |
१८ क
वैशम्पाय़न उवाच:
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ||
१८ ख
वैशम्पाय़न उवाच:
इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः |
१९ क
वैशम्पाय़न उवाच:
कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ||
१९ ख
वैशम्पाय़न उवाच:
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः |
२० क
वैशम्पाय़न उवाच:
त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ||
२० ख
वैशम्पाय़न उवाच:
देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु |
२१ क
वैशम्पाय़न उवाच:
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ||
२१ ख
वैशम्पाय़न उवाच:
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ |
२२ क
वैशम्पाय़न उवाच:
निर्विशङ्कं पुनर्दावं दाहय़ामासतुस्तदा ||
२२ ख
वैशम्पाय़न उवाच:
स मारुत इवाभ्राणि नाशय़ित्वार्जुनः सुरान् |
२३ क
वैशम्पाय़न उवाच:
व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालय़ान् ||
२३ ख
वैशम्पाय़न उवाच:
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः |
२४ क
वैशम्पाय़न उवाच:
सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना ||
२४ ख
वैशम्पाय़न उवाच:
नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् |
२५ क
वैशम्पाय़न उवाच:
निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ||
२५ ख
वैशम्पाय़न उवाच:
शतेनैकं च विव्याध शतं चैकेन पत्रिणा |
२६ क
वैशम्पाय़न उवाच:
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ||
२६ ख
वैशम्पाय़न उवाच:
न चालभन्त ते शर्म रोधःसु विषमेषु च |
२७ क
वैशम्पाय़न उवाच:
पितृदेवनिवासेषु सन्तापश्चाप्यजाय़त ||
२७ ख
वैशम्पाय़न उवाच:
भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम् |
२८ क
वैशम्पाय़न उवाच:
रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः |
२८ ख
वैशम्पाय़न उवाच:
तेन शव्देन वित्रेसुर्गङ्गोदधिचरा झषाः ||
२८ ग
वैशम्पाय़न उवाच:
न ह्यर्जुनं महावाहुं नापि कृष्णं महावलम् |
२९ क
वैशम्पाय़न उवाच:
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ||
२९ ख
वैशम्पाय़न उवाच:
एकाय़नगता येऽपि निष्पतन्त्यत्र केचन |
३० क
वैशम्पाय़न उवाच:
राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ||
३० ख
वैशम्पाय़न उवाच:
ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः |
३१ क
वैशम्पाय़न उवाच:
पेतुरास्ये महाकाय़ा दीप्तस्य वसुरेतसः ||
३१ ख
वैशम्पाय़न उवाच:
स मांसरुधिरौघैश्च मेदौघैश्च समीरितः |
३२ क
वैशम्पाय़न उवाच:
उपर्याकाशगो वह्निर्विधूमः समदृश्यत ||
३२ ख
वैशम्पाय़न उवाच:
दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः |
३३ क
वैशम्पाय़न उवाच:
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिवन्प्राणभृतां वसाम् ||
३३ ख
वैशम्पाय़न उवाच:
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः |
३४ क
वैशम्पाय़न उवाच:
वभूव मुदितस्तृप्तः परां निर्वृतिमागतः ||
३४ ख
वैशम्पाय़न उवाच:
अथासुरं मय़ं नाम तक्षकस्य निवेशनात् |
३५ क
वैशम्पाय़न उवाच:
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ||
३५ ख
वैशम्पाय़न उवाच:
तमग्निः प्रार्थय़ामास दिधक्षुर्वातसारथिः |
३६ क
वैशम्पाय़न उवाच:
देहवान्वै जटी भूत्वा नदंश्च जलदो यथा |
३६ ख
वैशम्पाय़न उवाच:
जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ||
३६ ग
वैशम्पाय़न उवाच:
स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् |
३७ क
वैशम्पाय़न उवाच:
अभिधावार्जुनेत्येवं मय़श्चुक्रोश भारत ||
३७ ख
वैशम्पाय़न उवाच:
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जय़ः |
३८ क
वैशम्पाय़न उवाच:
प्रत्युवाच मय़ं पार्थो जीवय़न्निव भारत ||
३८ ख
वैशम्पाय़न उवाच:
तं पार्थेनाभय़े दत्ते नमुचेर्भ्रातरं मय़म् |
३९ क
वैशम्पाय़न उवाच:
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ||
३९ ख
वैशम्पाय़न उवाच:
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च |
४० क
वैशम्पाय़न उवाच:
अश्वसेनं मय़ं चापि चतुरः शार्ङ्गकानिति ||
४० ख