भीष्म उवाच:
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
१ क
भीष्म उवाच:
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर ||
१ ख
भीष्म उवाच:
श्रिय़ा विहीनमासीनमक्षोभ्यमिव सागरम् |
२ क
भीष्म उवाच:
भवाभवज्ञं भूतानामित्युवाच पुरन्दरः ||
२ ख
भीष्म उवाच:
वद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः |
३ क
भीष्म उवाच:
श्रिय़ा विहीनो नमुचे शोचस्याहो न शोचसि ||
३ ख
नमुचिरु उवाच:
अनवाप्यं च शोकेन शरीरं चोपतप्यते |
४ क
नमुचिरु उवाच:
अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहाय़ता ||
४ ख
नमुचिरु उवाच:
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् |
५ क
नमुचिरु उवाच:
सन्तापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर ||
५ ख
नमुचिरु उवाच:
विनीय़ खलु तद्दुःखमागतं वैमनस्यजम् |
६ क
नमुचिरु उवाच:
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता ||
६ ख
नमुचिरु उवाच:
यथा यथा हि पुरुषः कल्याणे कुरुते मनः |
७ क
नमुचिरु उवाच:
तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशय़ः ||
७ ख
नमुचिरु उवाच:
एकः शास्ता न द्वितीय़ोऽस्ति शास्ता; गर्भे शय़ानं पुरुषं शास्ति शास्ता |
८ क
नमुचिरु उवाच:
तेनानुशिष्टः प्रवणादिवोदकं; यथा निय़ुक्तोऽस्मि तथा वहामि ||
८ ख
नमुचिरु उवाच:
भावाभावावभिजानन्गरीय़ो; जानामि श्रेय़ो न तु तत्करोमि |
९ क
नमुचिरु उवाच:
आशाः सुशर्म्याः सुहृदां सुकुर्व; न्यथा निय़ुक्तोऽस्मि तथा वहामि ||
९ ख
नमुचिरु उवाच:
यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा |
१० क
नमुचिरु उवाच:
भवितव्यं यथा यच्च भवत्येव तथा तथा ||
१० ख
नमुचिरु उवाच:
यत्र यत्रैव संय़ुङ्क्ते धाता गर्भं पुनः पुनः |
११ क
नमुचिरु उवाच:
तत्र तत्रैव वसति न यत्र स्वय़मिच्छति ||
११ ख
नमुचिरु उवाच:
भावो योऽय़मनुप्राप्तो भवितव्यमिदं मम |
१२ क
नमुचिरु उवाच:
इति यस्य सदा भावो न स मुह्येत्कदाचन ||
१२ ख
नमुचिरु उवाच:
पर्याय़ैर्हन्यमानानामभिय़ोक्ता न विद्यते |
१३ क
नमुचिरु उवाच:
दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते ||
१३ ख
नमुचिरु उवाच:
ऋषींश्च देवांश्च महासुरांश्च; त्रैविद्यवृद्धांश्च वने मुनींश्च |
१४ क
नमुचिरु उवाच:
कान्नापदो नोपनमन्ति लोके; परावरज्ञास्तु न सम्भ्रमन्ति ||
१४ ख
नमुचिरु उवाच:
न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति |
१५ क
नमुचिरु उवाच:
न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवानिवाचलः ||
१५ ख
नमुचिरु उवाच:
यमर्थसिद्धिः परमा न हर्षय़े; त्तथैव काले व्यसनं न मोहय़ेत् |
१६ क
नमुचिरु उवाच:
सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरन्धरो नरः ||
१६ ख
नमुचिरु उवाच:
यां यामवस्थां पुरुषोऽधिगच्छे; त्तस्यां रमेतापरितप्यमानः |
१७ क
नमुचिरु उवाच:
एवं प्रवृद्धं प्रणुदेन्मनोजं; सन्तापमाय़ासकरं शरीरात् ||
१७ ख
नमुचिरु उवाच:
तत्सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभय़म् |
१८ क
नमुचिरु उवाच:
धर्मतत्त्वमवगाह्य वुद्धिमा; न्योऽभ्युपैति स पुमान्धुरन्धरः ||
१८ ख
नमुचिरु उवाच:
प्राज्ञस्य कर्माणि दुरन्वय़ानि; न वै प्राज्ञो मुह्यति मोहकाले |
१९ क
नमुचिरु उवाच:
स्थानाच्च्युतश्चेन्न मुमोह गौतम; स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः ||
१९ ख
नमुचिरु उवाच:
न मन्त्रवलवीर्येण प्रज्ञय़ा पौरुषेण वा |
२० क
नमुचिरु उवाच:
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ||
२० ख
नमुचिरु उवाच:
यदेवमनुजातस्य धातारो विदधुः पुरा |
२१ क
नमुचिरु उवाच:
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति ||
२१ ख
नमुचिरु उवाच:
लव्धव्यान्येव लभते गन्तव्यान्येव गच्छति |
२२ क
नमुचिरु उवाच:
प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च ||
२२ ख
नमुचिरु उवाच:
एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः |
२३ क
नमुचिरु उवाच:
कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः ||
२३ ख