धृतराष्ट्र उवाच:
सर्वेषामेव मे व्रूहि रथचिह्नानि सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः ||
१ ख
सञ्जय़ उवाच:
ऋश्यवर्णैर्हय़ैर्दृष्ट्वा व्याय़च्छन्तं वृकोदरम् |
२ क
सञ्जय़ उवाच:
रजताश्वस्ततः शूरः शैनेय़ः संन्यवर्तत ||
२ ख
सञ्जय़ उवाच:
दर्शनीय़ास्तु काम्वोजाः शुकपत्रपरिच्छदाः |
३ क
सञ्जय़ उवाच:
वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः ||
३ ख
सञ्जय़ उवाच:
कृष्णास्तु मेघसङ्काशाः सहदेवमुदाय़ुधम् |
४ क
सञ्जय़ उवाच:
भीमवेगा नरव्याघ्रमवहन्वातरंहसः ||
४ ख
सञ्जय़ उवाच:
हेमोत्तमप्रतिच्छन्नैर्हय़ैर्वातसमैर्जवे |
५ क
सञ्जय़ उवाच:
अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् ||
५ ख
सञ्जय़ उवाच:
राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् |
६ क
सञ्जय़ उवाच:
जातरूपमय़च्छत्रः सर्वैः स्वैरभिरक्षितः ||
६ ख
सञ्जय़ उवाच:
ललामैर्हरिभिर्युक्तैः सर्वशव्दक्षमैर्युधि |
७ क
सञ्जय़ उवाच:
राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत ||
७ ख
सञ्जय़ उवाच:
तं विराटोऽन्वय़ात्पश्चात्सह शूरैर्महारथैः |
८ क
सञ्जय़ उवाच:
केकय़ाश्च शिखण्डी च धृष्टकेतुस्तथैव च |
८ ख
सञ्जय़ उवाच:
स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वय़ुः ||
८ ग
सञ्जय़ उवाच:
ते तु पाटलपुष्पाणां समवर्णा हय़ोत्तमाः |
९ क
सञ्जय़ उवाच:
वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः ||
९ ख
सञ्जय़ उवाच:
हारिद्रसमवर्णास्तु जवना हेममालिनः |
१० क
सञ्जय़ उवाच:
पुत्रं विराटराजस्य सत्वराः समुदावहन् ||
१० ख
सञ्जय़ उवाच:
इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकय़ाः |
११ क
सञ्जय़ उवाच:
जातरूपसमाभासः सर्वे लोहितकध्वजाः ||
११ ख
सञ्जय़ उवाच:
ते हेममालिनः शूराः सर्वे युद्धविशारदाः |
१२ क
सञ्जय़ उवाच:
वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः ||
१२ ख
सञ्जय़ उवाच:
आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम् |
१३ क
सञ्जय़ उवाच:
दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् ||
१३ ख
सञ्जय़ उवाच:
तथा द्वादशसाहस्राः पाञ्चालानां महारथाः |
१४ क
सञ्जय़ उवाच:
तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वय़ुः ||
१४ ख
सञ्जय़ उवाच:
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष |
१५ क
सञ्जय़ उवाच:
आक्रीडन्तो वहन्ति स्म सारङ्गशवला हय़ाः ||
१५ ख
सञ्जय़ उवाच:
धृष्टकेतुश्च चेदीनामृषभोऽतिवलोदितः |
१६ क
सञ्जय़ उवाच:
काम्वोजैः शवलैरश्वैरभ्यवर्तत दुर्जय़ः ||
१६ ख
सञ्जय़ उवाच:
वृहत्क्षत्रं तु कैकेय़ं सुकुमारं हय़ोत्तमाः |
१७ क
सञ्जय़ उवाच:
पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् ||
१७ ख
सञ्जय़ उवाच:
मल्लिकाक्षाः पद्मवर्णा वाह्लिजाताः स्वलङ्कृताः |
१८ क
सञ्जय़ उवाच:
शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् ||
१८ ख
सञ्जय़ उवाच:
युवानमवहन्युद्धे क्रौञ्चवर्णा हय़ोत्तमाः |
१९ क
सञ्जय़ उवाच:
काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् ||
१९ ख
सञ्जय़ उवाच:
श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः |
२० क
सञ्जय़ उवाच:
यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् ||
२० ख
सञ्जय़ उवाच:
सुतसोमं तु यं धौम्यात्पार्थः पुत्रमय़ाचत |
२१ क
सञ्जय़ उवाच:
माषपुष्पसवर्णास्तमवहन्वाजिनो रणे ||
२१ ख
सञ्जय़ उवाच:
सहस्रसोमप्रतिमा वभूवुः; पुरे कुरूणामुदय़ेन्दुनाम्नि |
२२ क
सञ्जय़ उवाच:
तस्मिञ्जातः सोमसङ्क्रन्दमध्ये; यस्मात्तस्मात्सुतसोमोऽभवत्सः ||
२२ ख
सञ्जय़ उवाच:
नाकुलिं तु शतानीकं शालपुष्पनिभा हय़ाः |
२३ क
सञ्जय़ उवाच:
आदित्यतरुणप्रख्याः श्लाघनीय़मुदावहन् ||
२३ ख
सञ्जय़ उवाच:
काञ्चनप्रतिमैर्योक्त्रैर्मय़ूरग्रीवसंनिभाः |
२४ क
सञ्जय़ उवाच:
द्रौपदेय़ं नरव्याघ्रं श्रुतकर्माणमावहन् ||
२४ ख
सञ्जय़ उवाच:
श्रुतकीर्तिं श्रुतनिधिं द्रौपदेय़ं हय़ोत्तमाः |
२५ क
सञ्जय़ उवाच:
ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हय़ाः ||
२५ ख
सञ्जय़ उवाच:
यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संय़ुगे |
२६ क
सञ्जय़ उवाच:
अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे ||
२६ ख
सञ्जय़ उवाच:
एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः |
२७ क
सञ्जय़ उवाच:
तं वृहन्तो महाकाय़ा युय़ुत्सुमवहन्रणे ||
२७ ख
सञ्जय़ उवाच:
पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् |
२८ क
सञ्जय़ उवाच:
ऊहुः सुतुमुले युद्धे हय़ा हृष्टाः स्वलङ्कृताः ||
२८ ख
सञ्जय़ उवाच:
कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः |
२९ क
सञ्जय़ उवाच:
सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हय़ाः ||
२९ ख
सञ्जय़ उवाच:
रुक्मपृष्ठावकीर्णास्तु कौशेय़सदृशा हय़ाः |
३० क
सञ्जय़ उवाच:
सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् ||
३० ख
सञ्जय़ उवाच:
रुक्ममालाधराः शूरा हेमवर्णाः स्वलङ्कृताः |
३१ क
सञ्जय़ उवाच:
काशिराजं हय़श्रेष्ठाः श्लाघनीय़मुदावहन् ||
३१ ख
सञ्जय़ उवाच:
अस्त्राणां च धनुर्वेदे व्राह्मे वेदे च पारगम् |
३२ क
सञ्जय़ उवाच:
तं सत्यधृतिमाय़ान्तमरुणाः समुदावहन् ||
३२ ख
सञ्जय़ उवाच:
यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पय़त् |
३३ क
सञ्जय़ उवाच:
पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् ||
३३ ख
सञ्जय़ उवाच:
तमन्वय़ात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः |
३४ क
सञ्जय़ उवाच:
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो ||
३४ ख
सञ्जय़ उवाच:
युक्तैः परमकाम्वोजैर्जवनैर्हेममालिभिः |
३५ क
सञ्जय़ उवाच:
भीषय़न्तो द्विषत्सैन्यं यमवैश्रवणोपमाः ||
३५ ख
सञ्जय़ उवाच:
प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदाय़ुधाः |
३६ क
सञ्जय़ उवाच:
नानावर्णैर्हय़श्रेष्ठैर्हेमचित्ररथध्वजाः ||
३६ ख
सञ्जय़ उवाच:
शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः |
३७ क
सञ्जय़ उवाच:
समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वय़ुः ||
३७ ख
सञ्जय़ उवाच:
वभ्रुकौशेय़वर्णास्तु सुवर्णवरमालिनः |
३८ क
सञ्जय़ उवाच:
ऊहुरग्लानमनसश्चेकितानं हय़ोत्तमाः ||
३८ ख
सञ्जय़ उवाच:
इन्द्राय़ुधसवर्णैस्तु कुन्तिभोजो हय़ोत्तमैः |
३९ क
सञ्जय़ उवाच:
आय़ात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः ||
३९ ख
सञ्जय़ उवाच:
अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव |
४० क
सञ्जय़ उवाच:
राजानं रोचमानं ते हय़ाः सङ्ख्ये समावहन् ||
४० ख
सञ्जय़ उवाच:
कर्वुराः शितिपादास्तु स्वर्णजालपरिच्छदाः |
४१ क
सञ्जय़ उवाच:
जारासन्धिं हय़श्रेष्ठाः सहदेवमुदावहन् ||
४१ ख
सञ्जय़ उवाच:
ये तु पुष्करनालस्य समवर्णा हय़ोत्तमाः |
४२ क
सञ्जय़ उवाच:
जवे श्येनसमाश्चित्राः सुदामानमुदावहन् ||
४२ ख
सञ्जय़ उवाच:
शशलोहितवर्णास्तु पाण्डुरोद्गतराजय़ः |
४३ क
सञ्जय़ उवाच:
पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् ||
४३ ख
सञ्जय़ उवाच:
पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजय़ः |
४४ क
सञ्जय़ उवाच:
तस्य सर्षपपुष्पाणां तुल्यवर्णा हय़ोत्तमाः ||
४४ ख
सञ्जय़ उवाच:
माषवर्णास्तु जवना वृहन्तो हेममालिनः |
४५ क
सञ्जय़ उवाच:
दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् ||
४५ ख
सञ्जय़ उवाच:
शूराश्च भद्रकाश्चैव शरकाण्डनिभा हय़ाः |
४६ क
सञ्जय़ उवाच:
पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् ||
४६ ख
सञ्जय़ उवाच:
विभ्रतो हेममालाश्च चक्रवाकोदरा हय़ाः |
४७ क
सञ्जय़ उवाच:
कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् ||
४७ ख
सञ्जय़ उवाच:
शवलास्तु वृहन्तोऽश्वा दान्ता जाम्वूनदस्रजः |
४८ क
सञ्जय़ उवाच:
युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः ||
४८ ख
सञ्जय़ उवाच:
एकवर्णेन सर्वेण ध्वजेन कवचेन च |
४९ क
सञ्जय़ उवाच:
अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत ||
४९ ख
सञ्जय़ उवाच:
समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् |
५० क