chevron_left कर्ण पर्व अध्याय २२
धृतराष्ट्र उवाच:
स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः |
१ क
धृतराष्ट्र उवाच:
न ह्यस्य समरे मुच्येतान्तकोऽप्यातताय़िनः ||
१ ख
धृतराष्ट्र उवाच:
पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पय़त् |
२ क
धृतराष्ट्र उवाच:
एकश्चेमां महीं जित्वा चक्रे वलिभृतो नृपान् ||
२ ख
धृतराष्ट्र उवाच:
एको निवातकवचानवधीद्दिव्यकार्मुकः |
३ क
धृतराष्ट्र उवाच:
एकः किरातरूपेण स्थितं शर्वमय़ोधय़त् ||
३ ख
धृतराष्ट्र उवाच:
एकोऽभ्यरक्षद्भरतानेको भवमतोषय़त् |
४ क
धृतराष्ट्र उवाच:
तेनैकेन जिताः सर्वे मदीय़ा उग्रतेजसः |
४ ख
धृतराष्ट्र उवाच:
ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्व्रवीहि तत् ||
४ ग
सञ्जय़ उवाच:
हतप्रहतविध्वस्ता विवर्माय़ुधवाहनाः |
५ क
सञ्जय़ उवाच:
दीनस्वरा दूय़माना मानिनः शत्रुभिर्जिताः ||
५ ख
सञ्जय़ उवाच:
शिविरस्थाः पुनर्मन्त्रं मन्त्रय़न्ति स्म कौरवाः |
६ क
सञ्जय़ उवाच:
भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः ||
६ ख
सञ्जय़ उवाच:
तानव्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् |
७ क
सञ्जय़ उवाच:
करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम् ||
७ ख
सञ्जय़ उवाच:
यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा |
८ क
सञ्जय़ उवाच:
स वोधय़ति चाप्येनं प्राप्तकालमधोक्षजः ||
८ ख
सञ्जय़ उवाच:
सहसास्त्रविसर्गेण वय़ं तेनाद्य वञ्चिताः |
९ क
सञ्जय़ उवाच:
श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते ||
९ ख
सञ्जय़ उवाच:
एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् |
१० क
सञ्जय़ उवाच:
सुखोषितास्ते रजनीं हृष्टा युद्धाय़ निर्ययुः ||
१० ख
सञ्जय़ उवाच:
तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जय़म् |
११ क
सञ्जय़ उवाच:
प्रय़त्नात्कुरुमुख्येन वृहस्पत्युशनोमतात् ||
११ ख
सञ्जय़ उवाच:
अथ प्रतीपकर्तारं सततं विजितात्मनाम् |
१२ क
सञ्जय़ उवाच:
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ||
१२ ख
सञ्जय़ उवाच:
पुरन्दरसमं युद्धे मरुद्गणसमं वले |
१३ क
सञ्जय़ उवाच:
कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः |
१३ ख
सञ्जय़ उवाच:
सूतपुत्रं महेष्वासं वन्धुमात्ययिकेष्विव ||
१३ ग
धृतराष्ट्र उवाच:
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा |
१४ क
धृतराष्ट्र उवाच:
अप्यद्राक्षत तं यूय़ं शीतार्ता इव भास्करम् ||
१४ ख
धृतराष्ट्र उवाच:
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः |
१५ क
धृतराष्ट्र उवाच:
कथं वैकर्तनः कर्णस्तत्राय़ुध्यत सञ्जय़ |
१५ ख
धृतराष्ट्र उवाच:
कथं च पाण्डवाः सर्वे युय़ुधुस्तत्र सूतजम् ||
१५ ग
धृतराष्ट्र उवाच:
कर्णो ह्येको महावाहुर्हन्यात्पार्थान्ससोमकान् |
१६ क
धृतराष्ट्र उवाच:
कर्णस्य भुजय़ोर्वीर्यं शक्रविष्णुसमं मतम् |
१६ ख
धृतराष्ट्र उवाच:
तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः ||
१६ ग
धृतराष्ट्र उवाच:
दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम् |
१७ क
धृतराष्ट्र उवाच:
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे ||
१७ ख
धृतराष्ट्र उवाच:
कर्णमाश्रित्य सङ्ग्रामे दर्पो दुर्योधने पुनः |
१८ क
धृतराष्ट्र उवाच:
जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् ||
१८ ख
धृतराष्ट्र उवाच:
अहो वत महद्दुःखं यत्र पाण्डुसुतान्रणे |
१९ क
धृतराष्ट्र उवाच:
नातरद्रभसः कर्णो दैवं नूनं पराय़णम् |
१९ ख
धृतराष्ट्र उवाच:
अहो द्यूतस्य निष्ठेय़ं घोरा सम्प्रति वर्तते ||
१९ ग
धृतराष्ट्र उवाच:
अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम् |
२० क
धृतराष्ट्र उवाच:
सहिष्यामि सुघोराणि शल्यभूतानि सञ्जय़ ||
२० ख
धृतराष्ट्र उवाच:
सौवलं च तथा तात नीतिमानिति मन्यते |
२२ क
धृतराष्ट्र उवाच:
युद्धेषु नाम दिव्येषु वर्तमानेषु सञ्जय़ |
२२ ख
धृतराष्ट्र उवाच:
अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान् ||
२२ ग
धृतराष्ट्र उवाच:
न पाण्डवानां समरे कश्चिदस्ति निवारकः |
२३ क
धृतराष्ट्र उवाच:
स्त्रीमध्यमिव गाहन्ति दैवं हि वलवत्तरम् ||
२३ ख
सञ्जय़ उवाच:
अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तय़तीति च |
२४ क
सञ्जय़ उवाच:
तच्चास्य न भवेत्कार्यं चिन्तय़ा च विनश्यति ||
२४ ख
सञ्जय़ उवाच:
तदिदं तव कार्यं तु दूरप्राप्तं विजानता |
२५ क
सञ्जय़ उवाच:
न कृतं यत्त्वय़ा पूर्वं प्राप्ताप्राप्तविचारणे ||
२५ ख
सञ्जय़ उवाच:
उक्तोऽसि वहुधा राजन्मा युध्यस्वेति पाण्डवैः |
२६ क
सञ्जय़ उवाच:
गृह्णीषे न च तन्मोहात्पाण्डवेषु विशां पते ||
२६ ख
सञ्जय़ उवाच:
त्वय़ा पापानि घोराणि समाचीर्णानि पाण्डुषु |
२७ क
सञ्जय़ उवाच:
त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षय़ः ||
२७ ख
सञ्जय़ उवाच:
तत्त्विदानीमतिक्रम्य मा शुचो भरतर्षभ |
२८ क
सञ्जय़ उवाच:
शृणु सर्वं यथावृत्तं घोरं वैशसमच्युत ||
२८ ख
सञ्जय़ उवाच:
प्रभाताय़ां रजन्यां तु कर्णो राजानमभ्ययात् |
२९ क
सञ्जय़ उवाच:
समेत्य च महावाहुर्दुर्योधनमभाषत ||
२९ ख
सञ्जय़ उवाच:
अद्य राजन्समेष्यामि पाण्डवेन यशस्विना |
३० क
सञ्जय़ उवाच:
हनिष्यामि च तं वीरं स वा मां निहनिष्यति ||
३० ख
सञ्जय़ उवाच:
वहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव |
३१ क
सञ्जय़ उवाच:
नाभूत्समागमो राजन्मम चैवार्जुनस्य च ||
३१ ख
सञ्जय़ उवाच:
इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशां पते |
३२ क
सञ्जय़ उवाच:
अनिहत्य रणे पार्थं नाहमेष्यामि भारत ||
३२ ख
सञ्जय़ उवाच:
हतप्रवीरे सैन्येऽस्मिन्मय़ि चैव स्थिते युधि |
३३ क
सञ्जय़ उवाच:
अभिय़ास्यति मां पार्थः शक्रशक्त्या विनाकृतम् ||
३३ ख
सञ्जय़ उवाच:
ततः श्रेय़स्करं यत्ते तन्निवोध जनेश्वर |
३४ क
सञ्जय़ उवाच:
आय़ुधानां च यद्वीर्यं द्रव्याणामर्जुनस्य च ||
३४ ख
सञ्जय़ उवाच:
काय़स्य महतो भेदे लाघवे दूरपातने |
३५ क
सञ्जय़ उवाच:
सौष्ठवे चास्त्रय़ोगे च सव्यसाची न मत्समः ||
३५ ख
सञ्जय़ उवाच:
सर्वाय़ुधमहामात्रं विजय़ं नाम तद्धनुः |
३६ क
सञ्जय़ उवाच:
इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा ||
३६ ख
सञ्जय़ उवाच:
येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः |
३७ क
सञ्जय़ उवाच:
यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश |
३७ ख
सञ्जय़ उवाच:
तद्भार्गवाय़ प्राय़च्छच्छक्रः परमसंमतम् ||
३७ ग
सञ्जय़ उवाच:
तद्दिव्यं भार्गवो मह्यमददाद्धनुरुत्तमम् |
३८ क
सञ्जय़ उवाच:
येन योत्स्ये महावाहुमर्जुनं जय़तां वरम् |
३८ ख
सञ्जय़ उवाच:
यथेन्द्रः समरे सर्वान्दैतेय़ान्वै समागतान् ||
३८ ग
सञ्जय़ उवाच:
धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते |
३९ क
सञ्जय़ उवाच:
त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता ||
३९ ख
सञ्जय़ उवाच:
धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः |
४० क
सञ्जय़ उवाच:
तद्रामो ह्यददान्मह्यं येन योत्स्यामि पाण्डवम् ||
४० ख
सञ्जय़ उवाच:
अद्य दुर्योधनाहं त्वां नन्दय़िष्ये सवान्धवम् |
४१ क
सञ्जय़ उवाच:
निहत्य समरे वीरमर्जुनं जय़तां वरम् ||
४१ ख
सञ्जय़ उवाच:
सपर्वतवनद्वीपा हतद्विड्भूः ससागरा |
४२ क
सञ्जय़ उवाच:
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ||
४२ ख
सञ्जय़ उवाच:
नासाध्यं विद्यते मेऽद्य त्वत्प्रिय़ार्थं विशेषतः |
४३ क
सञ्जय़ उवाच:
सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा ||
४३ ख
सञ्जय़ उवाच:
न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा |
४४ क
सञ्जय़ उवाच:
अवश्यं तु मय़ा वाच्यं येन हीनोऽस्मि फल्गुनात् ||
४४ ख
सञ्जय़ उवाच:
ज्या तस्य धनुषो दिव्या तथाक्षय़्यौ महेषुधी |
४५ क
सञ्जय़ उवाच:
तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि ||
४५ ख
सञ्जय़ उवाच:
विजय़ं च महद्दिव्यं ममापि धनुरुत्तमम् |
४६ क
सञ्जय़ उवाच:
तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव ||
४६ ख
सञ्जय़ उवाच:
मय़ा चाभ्यधिको वीरः पाण्डवस्तन्निवोध मे |
४७ क
सञ्जय़ उवाच:
रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ||
४७ ख