सञ्जय़ उवाच:
अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् ||
५० ख
सञ्जय़ उवाच:
नीलोत्पलसवर्णास्तु तपनीय़विभूषिताः |
५१ क
सञ्जय़ उवाच:
शैव्यं चित्ररथं युद्धे चित्रमाल्यावहन्हय़ाः ||
५१ ख
सञ्जय़ उवाच:
कलाय़पुष्पवर्णास्तु श्वेतलोहितराजय़ः |
५२ क
सञ्जय़ उवाच:
रथसेनं हय़श्रेष्ठाः समूहुर्युद्धदुर्मदम् ||
५२ ख
सञ्जय़ उवाच:
यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् |
५३ क
सञ्जय़ उवाच:
तं पटच्चरहन्तारं शुकवर्णावहन्हय़ाः ||
५३ ख
सञ्जय़ उवाच:
चित्राय़ुधं चित्रमाल्यं चित्रवर्माय़ुधध्वजम् |
५४ क
सञ्जय़ उवाच:
ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हय़ोत्तमाः ||
५४ ख
सञ्जय़ उवाच:
एकवर्णेन सर्वेण ध्वजेन कवचेन च |
५५ क
सञ्जय़ उवाच:
धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत ||
५५ ख
सञ्जय़ उवाच:
नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः |
५६ क
सञ्जय़ उवाच:
वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत ||
५६ ख
सञ्जय़ उवाच:
ये तु पुष्करपत्रस्य तुल्यवर्णा हय़ोत्तमाः |
५७ क
सञ्जय़ उवाच:
ते रोचमानस्य सुतं हेमवर्णमुदावहन् ||
५७ ख
सञ्जय़ उवाच:
योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः |
५८ क
सञ्जय़ उवाच:
श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् ||
५८ ख
सञ्जय़ उवाच:
आटरूषकपुष्पाभा हय़ाः पाण्ड्यानुय़ाय़िनाम् |
५९ क
सञ्जय़ उवाच:
अवहन्रथमुख्यानामय़ुतानि चतुर्दश ||
५९ ख
सञ्जय़ उवाच:
नानारूपेण वर्णेन नानाकृतिमुखा हय़ाः |
६० क
सञ्जय़ उवाच:
रथचक्रध्वजं वीरं घटोत्कचमुदावहन् ||
६० ख
सञ्जय़ उवाच:
सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् |
६१ क
सञ्जय़ उवाच:
राजश्रेष्ठं हय़श्रेष्ठाः सर्वतः पृष्ठतोऽन्वय़ुः |
६१ ख
सञ्जय़ उवाच:
वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः ||
६१ ग
सञ्जय़ उवाच:
ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः |
६२ क
सञ्जय़ उवाच:
प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः ||
६२ ख
सञ्जय़ उवाच:
अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् |
६३ क
सञ्जय़ उवाच:
सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत ||
६३ ख