chevron_left कर्ण पर्व अध्याय २२
सञ्जय़ उवाच:
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः |
४८ क
सञ्जय़ उवाच:
अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः |
४८ ख
सञ्जय़ उवाच:
ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मय़ङ्करः ||
४८ ग
सञ्जय़ उवाच:
कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति |
४९ क
सञ्जय़ उवाच:
एभिर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम् ||
४९ ख
सञ्जय़ उवाच:
अय़ं तु सदृशो वीरः शल्यः समितिशोभनः |
५० क
सञ्जय़ उवाच:
सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजय़ो भवेत् ||
५० ख
सञ्जय़ उवाच:
तस्य मे सारथिः शल्यो भवत्वसुकरः परैः |
५१ क
सञ्जय़ उवाच:
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ||
५१ ख
सञ्जय़ उवाच:
रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः |
५२ क
सञ्जय़ उवाच:
आय़ान्तु पश्चात्सततं मामेव भरतर्षभ ||
५२ ख
सञ्जय़ उवाच:
एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् |
५३ क
सञ्जय़ उवाच:
शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम् ||
५३ ख
सञ्जय़ उवाच:
यथाश्वहृदय़ं वेद दाशार्हः परवीरहा |
५४ क
सञ्जय़ उवाच:
तथा शल्योऽपि जानीते हय़ानां वै महारथः ||
५४ ख
सञ्जय़ उवाच:
वाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन |
५५ क
सञ्जय़ उवाच:
तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः ||
५५ ख
सञ्जय़ उवाच:
तथा शल्यसमो नास्ति हय़याने ह कश्चन |
५६ क
सञ्जय़ उवाच:
सोऽय़मभ्यधिकः पार्थाद्भविष्यति रथो मम ||
५६ ख
सञ्जय़ उवाच:
एतत्कृतं महाराज त्वय़ेच्छामि परन्तप |
५७ क
सञ्जय़ उवाच:
एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति ||
५७ ख
सञ्जय़ उवाच:
ततो द्रष्टासि समरे यत्करिष्यामि भारत |
५८ क
सञ्जय़ उवाच:
सर्वथा पाण्डवान्सर्वाञ्जेष्याम्यद्य समागतान् ||
५८ ख
दुर्योधन उवाच:
सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे |
५९ क
दुर्योधन उवाच:
सोपासङ्गा रथाः साश्वा अनुय़ास्यन्ति सूतज ||
५९ ख
दुर्योधन उवाच:
नाराचान्गार्ध्रपक्षांश्च शकटानि वहन्तु ते |
६० क
दुर्योधन उवाच:
अनुय़ास्याम कर्ण त्वां वय़ं सर्वे च पार्थिवाः ||
६० ख
सञ्जय़ उवाच:
एवमुक्त्वा महाराज तव पुत्राः प्रतापवान् |
६१ क
सञ्जय़ उवाच:
अभिगम्याव्रवीद्राजा मद्रराजमिदं वचः ||
६१ ख