chevron_left शल्य पर्व अध्याय २२
सञ्जय़ उवाच:
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं वहु |
४९ क
सञ्जय़ उवाच:
केशाकेशिसमालग्ना न शेकुश्चेष्टितुं जनाः ||
४९ ख
सञ्जय़ उवाच:
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महावलाः |
५० क
सञ्जय़ उवाच:
मल्ला इव समासाद्य निजघ्नुरितरेतरम् |
५० ख
सञ्जय़ उवाच:
अश्वैश्च व्यपकृष्यन्त वहवोऽत्र गतासवः ||
५० ग
सञ्जय़ उवाच:
भूमौ निपतिताश्चान्ये वहवो विजय़ैषिणः |
५१ क
सञ्जय़ उवाच:
तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः ||
५१ ख
सञ्जय़ उवाच:
रक्तोक्षितैश्छिन्नभुजैरपकृष्टशिरोरुहैः |
५२ क
सञ्जय़ उवाच:
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः ||
५२ ख
सञ्जय़ उवाच:
दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् |
५३ क
सञ्जय़ उवाच:
साश्वारोहैर्हतैरश्वैरावृते वसुधातले ||
५३ ख
सञ्जय़ उवाच:
रुधिरोक्षितसंनाहैरात्तशस्त्रैरुदाय़ुधैः |
५४ क
सञ्जय़ उवाच:
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः |
५४ ख
सञ्जय़ उवाच:
सुसंनिकृष्टैः सङ्ग्रामे हतभूय़िष्ठसैनिकैः ||
५४ ग
सञ्जय़ उवाच:
स मुहूर्तं ततो युद्ध्वा सौवलोऽथ विशां पते |
५५ क
सञ्जय़ उवाच:
षट्सहस्रैर्हय़ैः शिष्टैरपाय़ाच्छकुनिस्ततः ||
५५ ख
सञ्जय़ उवाच:
तथैव पाण्डवानीकं रुधिरेण समुक्षितम् |
५६ क
सञ्जय़ उवाच:
षट्सहस्रैर्हय़ैः शिष्टैरपाय़ाच्छ्रान्तवाहनम् ||
५६ ख
सञ्जय़ उवाच:
अश्वारोहास्तु पाण्डूनामव्रुवन्रुधिरोक्षिताः |
५७ क
सञ्जय़ उवाच:
सुसंनिकृष्टाः सङ्ग्रामे भूय़िष्ठं त्यक्तजीविताः ||
५७ ख
सञ्जय़ उवाच:
नेह शक्यं रथैर्योद्धुं कुत एव महागजैः |
५८ क
सञ्जय़ उवाच:
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि ||
५८ ख
सञ्जय़ उवाच:
प्रतिय़ातो हि शकुनिः स्वमनीकमवस्थितः |
५९ क
सञ्जय़ उवाच:
न पुनः सौवलो राजा युद्धमभ्यागमिष्यति ||
५९ ख
सञ्जय़ उवाच:
ततस्तु द्रौपदेय़ाश्च ते च मत्ता महाद्विपाः |
६० क
सञ्जय़ उवाच:
प्रय़युर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः ||
६० ख
सञ्जय़ उवाच:
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते |
६१ क
सञ्जय़ उवाच:
एकाकी प्रय़यौ तत्र यत्र राजा युधिष्ठिरः ||
६१ ख
सञ्जय़ उवाच:
ततस्तेषु प्रय़ातेषु शकुनिः सौवलः पुनः |
६२ क
सञ्जय़ उवाच:
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् ||
६२ ख
सञ्जय़ उवाच:
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत |
६३ क
सञ्जय़ उवाच:
तावकानां परेषां च परस्परवधैषिणाम् ||
६३ ख
सञ्जय़ उवाच:
ते ह्यन्योन्यमवेक्षन्त तस्मिन्वीरसमागमे |
६४ क
सञ्जय़ उवाच:
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः ||
६४ ख
सञ्जय़ उवाच:
असिभिश्छिद्यमानानां शिरसां लोकसङ्क्षय़े |
६५ क
सञ्जय़ उवाच:
प्रादुरासीन्महाशव्दस्तालानां पततामिव ||
६५ ख
सञ्जय़ उवाच:
विमुक्तानां शरीराणां भिन्नानां पततां भुवि |
६६ क
सञ्जय़ उवाच:
साय़ुधानां च वाहूनामुरूणां च विशां पते |
६६ ख
सञ्जय़ उवाच:
आसीत्कटकटाशव्दः सुमहान्रोमहर्षणः ||
६६ ग
सञ्जय़ उवाच:
निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि |
६७ क
सञ्जय़ उवाच:
योधाः परिपतन्ति स्म यथामिषकृते खगाः ||
६७ ख
सञ्जय़ उवाच:
अन्योन्यं प्रतिसंरव्धाः समासाद्य परस्परम् |
६८ क
सञ्जय़ उवाच:
अहं पूर्वमहं पूर्वमिति न्यघ्नन्सहस्रशः ||
६८ ख
सञ्जय़ उवाच:
सङ्घातैरासनभ्रष्टैरश्वारोहैर्गतासुभिः |
६९ क
सञ्जय़ उवाच:
हय़ाः परिपतन्ति स्म शतशोऽथ सहस्रशः ||
६९ ख
सञ्जय़ उवाच:
स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रसारिणाम् |
७० क
सञ्जय़ उवाच:
स्तनतां च मनुष्याणां संनद्धानां विशां पते ||
७० ख
सञ्जय़ उवाच:
शक्त्यृष्टिप्रासशव्दश्च तुमुलः समजाय़त |
७१ क
सञ्जय़ उवाच:
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव ||
७१ ख
सञ्जय़ उवाच:
श्रमाभिभूताः संरव्धाः श्रान्तवाहाः पिपासिताः |
७२ क
सञ्जय़ उवाच:
विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः ||
७२ ख
सञ्जय़ उवाच:
मत्ता रुधिरगन्धेन वहवोऽत्र विचेतसः |
७३ क
सञ्जय़ उवाच:
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् ||
७३ ख
सञ्जय़ उवाच:
वहवश्च गतप्राणाः क्षत्रिय़ा जय़गृद्धिनः |
७४ क
सञ्जय़ उवाच:
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः ||
७४ ख
सञ्जय़ उवाच:
वृकगृध्रशृगालानां तुमुले मोदनेऽहनि |
७५ क
सञ्जय़ उवाच:
आसीद्वलक्षय़ो घोरस्तव पुत्रस्य पश्यतः ||
७५ ख
सञ्जय़ उवाच:
नराश्वकाय़सञ्छन्ना भूमिरासीद्विशां पते |
७६ क
सञ्जय़ उवाच:
रुधिरोदकचित्रा च भीरूणां भय़वर्धिनी ||
७६ ख
सञ्जय़ उवाच:
असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः |
७७ क
सञ्जय़ उवाच:
तावकाः पाण्डवाश्चैव नाभ्यवर्तन्त भारत ||
७७ ख
सञ्जय़ उवाच:
प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् |
७८ क
सञ्जय़ उवाच:
योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः ||
७८ ख
सञ्जय़ उवाच:
शिरो गृहीत्वा केशेषु कवन्धः समदृश्यत |
७९ क
सञ्जय़ उवाच:
उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम् ||
७९ ख
सञ्जय़ उवाच:
अथोत्थितेषु वहुषु कवन्धेषु जनाधिप |
८० क
सञ्जय़ उवाच:
तथा रुधिरगन्धेन योधाः कश्मलमाविशन् ||
८० ख
सञ्जय़ उवाच:
मन्दीभूते ततः शव्दे पाण्डवानां महद्वलम् |
८१ क
सञ्जय़ उवाच:
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौवलः ||
८१ ख
सञ्जय़ उवाच:
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जय़गृद्धिनः |
८२ क
सञ्जय़ उवाच:
पदातय़श्च नागाश्च सादिनश्चोद्यताय़ुधाः ||
८२ ख
सञ्जय़ उवाच:
कोष्टकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः |
८३ क
सञ्जय़ उवाच:
शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः ||
८३ ख
सञ्जय़ उवाच:
त्वदीय़ास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् |
८४ क
सञ्जय़ उवाच:
साश्वपत्तिद्विपरथाः पाण्डवानभिदुद्रुवुः ||
८४ ख
सञ्जय़ उवाच:
केचित्पदातय़ः पद्भिर्मुष्टिभिश्च परस्परम् |
८५ क
सञ्जय़ उवाच:
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् ||
८५ ख
सञ्जय़ उवाच:
रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः |
८६ क
सञ्जय़ उवाच:
विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षय़ाद्यथा ||
८६ ख
सञ्जय़ उवाच:
एवमन्योन्यमाय़स्ता योधा जघ्नुर्महामृधे |
८७ क
सञ्जय़ उवाच:
पितॄन्भ्रातॄन्वय़स्यांश्च पुत्रानपि तथापरे ||
८७ ख
सञ्जय़ उवाच:
एवमासीदमर्यादं युद्धं भरतसत्तम |
८८ क
सञ्जय़ उवाच:
प्रासासिवाणकलिले वर्तमाने सुदारुणे ||
८८ ख