chevron_left स्त्री पर्व अध्याय २२
गान्धार्यु उवाच:
आवन्त्यं भीमसेनेन भक्षय़न्ति निपातितम् |
१ क
गान्धार्यु उवाच:
गृध्रगोमाय़वः शूरं वहुवन्धुमवन्धुवत् ||
१ ख
गान्धार्यु उवाच:
तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन |
२ क
गान्धार्यु उवाच:
शय़ानं वीरशय़ने रुधिरेण समुक्षितम् ||
२ ख
गान्धार्यु उवाच:
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः |
३ क
गान्धार्यु उवाच:
तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम् ||
३ ख
गान्धार्यु उवाच:
शय़ानं वीरशय़ने वीरमाक्रन्दसारिणम् |
४ क
गान्धार्यु उवाच:
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते ||
४ ख
गान्धार्यु उवाच:
प्रातिपीय़ं महेष्वासं हतं भल्लेन वाह्लिकम् |
५ क
गान्धार्यु उवाच:
प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम् ||
५ ख
गान्धार्यु उवाच:
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते |
६ क
गान्धार्यु उवाच:
सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ||
६ ख
गान्धार्यु उवाच:
पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता |
७ क
गान्धार्यु उवाच:
पाकशासनिना सङ्ख्ये वार्द्धक्षत्रिर्निपातितः ||
७ ख
गान्धार्यु उवाच:
एकादश चमूर्जित्वा रक्ष्यमाणं महात्मना |
८ क
गान्धार्यु उवाच:
सत्यं चिकीर्षता पश्य हतमेनं जय़द्रथम् ||
८ ख
गान्धार्यु उवाच:
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् |
९ क
गान्धार्यु उवाच:
भक्षय़न्ति शिवा गृध्रा जनार्दन जय़द्रथम् ||
९ ख
गान्धार्यु उवाच:
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत |
१० क
गान्धार्यु उवाच:
भषन्तो व्यपकर्षन्ति गहनं निम्नमन्तिकात् ||
१० ख
गान्धार्यु उवाच:
तमेताः पर्युपासन्ते रक्षमाणा महाभुजम् |
११ क
गान्धार्यु उवाच:
सिन्धुसौवीरगान्धारकाम्वोजय़वनस्त्रिय़ः ||
११ ख
गान्धार्यु उवाच:
यदा कृष्णामुपादाय़ प्राद्रवत्केकय़ैः सह |
१२ क
गान्धार्यु उवाच:
तदैव वध्यः पाण्डूनां जनार्दन जय़द्रथः ||
१२ ख
गान्धार्यु उवाच:
दुःशलां मानय़द्भिस्तु यदा मुक्तो जय़द्रथः |
१३ क
गान्धार्यु उवाच:
कथमद्य न तां कृष्ण मानय़न्ति स्म ते पुनः ||
१३ ख
गान्धार्यु उवाच:
सैषा मम सुता वाला विलपन्ती सुदुःखिता |
१४ क
गान्धार्यु उवाच:
प्रमापय़ति चात्मानमाक्रोशति च पाण्डवान् ||
१४ ख
गान्धार्यु उवाच:
किं नु दुःखतरं कृष्ण परं मम भविष्यति |
१५ क
गान्धार्यु उवाच:
यत्सुता विधवा वाला स्नुषाश्च निहतेश्वराः ||
१५ ख
गान्धार्यु उवाच:
अहो धिग्दुःशलां पश्य वीतशोकभय़ामिव |
१६ क
गान्धार्यु उवाच:
शिरो भर्तुरनासाद्य धावमानामितस्ततः ||
१६ ख
गान्धार्यु उवाच:
वारय़ामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः |
१७ क
गान्धार्यु उवाच:
स हत्वा विपुलाः सेनाः स्वय़ं मृत्युवशं गतः ||
१७ ख
गान्धार्यु उवाच:
तं मत्तमिव मातङ्गं वीरं परमदुर्जय़म् |
१८ क
गान्धार्यु उवाच:
परिवार्य रुदन्त्येताः स्त्रिय़श्चन्द्रोपमाननाः ||
१८ ख