सञ्जय़ उवाच:
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः |
१ क
सञ्जय़ उवाच:
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ||
१ ख
सञ्जय़ उवाच:
तय़ोरासन्महाराज शरधाराः सहस्रशः |
२ क
सञ्जय़ उवाच:
अम्वुदानां यथा काले जलधाराः समन्ततः ||
२ ख
सञ्जय़ उवाच:
राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिराय़सैः |
३ क
सञ्जय़ उवाच:
द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः ||
३ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु समरे वलवान्दृढविक्रमः |
४ क
सञ्जय़ उवाच:
सप्तत्या विशिखानां वै दुर्योधनमपीडय़त् ||
४ ख
सञ्जय़ उवाच:
पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ |
५ क
सञ्जय़ उवाच:
महत्या सेनय़ा सार्धं परिवव्रुः स्म पार्षतम् ||
५ ख
सञ्जय़ उवाच:
स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम् |
६ क
सञ्जय़ उवाच:
व्यचरत्समरे राजन्दर्शय़न्हस्तलाघवम् ||
६ ख
सञ्जय़ उवाच:
शिखण्डी कृतवर्माणं गौतमं च महारथम् |
७ क
सञ्जय़ उवाच:
प्रभद्रकैः समाय़ुक्तो योधय़ामास धन्विनौ ||
७ ख
सञ्जय़ उवाच:
तत्रापि सुमहद्युद्धं घोररूपं विशां पते |
८ क
सञ्जय़ उवाच:
प्राणान्सन्त्यजतां युद्धे प्राणद्यूताभिदेवने ||
८ ख
सञ्जय़ उवाच:
शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम् |
९ क
सञ्जय़ उवाच:
पाण्डवान्पीडय़ामास ससात्यकिवृकोदरान् ||
९ ख
सञ्जय़ उवाच:
तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ |
१० क
सञ्जय़ उवाच:
योधय़ामास राजेन्द्र वीर्येण च वलेन च ||
१० ख
सञ्जय़ उवाच:
शल्यसाय़कनुन्नानां पाण्डवानां महामृधे |
११ क
सञ्जय़ उवाच:
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ||
११ ख
सञ्जय़ उवाच:
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते |
१२ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ||
१२ ख
सञ्जय़ उवाच:
सञ्छाद्य समरे शल्यं नकुलः परवीरहा |
१३ क
सञ्जय़ उवाच:
विव्याध चैनं दशभिः स्मय़मानः स्तनान्तरे ||
१३ ख
सञ्जय़ उवाच:
सर्वपारशवैर्वाणैः कर्मारपरिमार्जितैः |
१४ क
सञ्जय़ उवाच:
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ||
१४ ख
सञ्जय़ उवाच:
शल्यस्तु पीडितस्तेन स्वस्रीय़ेण महात्मना |
१५ क
सञ्जय़ उवाच:
नकुलं पीडय़ामास पत्रिभिर्नतपर्वभिः ||
१५ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः |
१६ क
सञ्जय़ उवाच:
सहदेवश्च माद्रेय़ो मद्रराजमुपाद्रवन् ||
१६ ख
सञ्जय़ उवाच:
तानापतत एवाशु पूरय़ानान्रथस्वनैः |
१७ क
सञ्जय़ उवाच:
दिशश्च प्रदिशश्चैव कम्पय़ानांश्च मेदिनीम् |
१७ ख
सञ्जय़ उवाच:
प्रतिजग्राह समरे सेनापतिरमित्रजित् ||
१७ ग
सञ्जय़ उवाच:
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः |
१८ क
सञ्जय़ उवाच:
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ||
१८ ख
सञ्जय़ उवाच:
ततस्तु सशरं चापं नकुलस्य महात्मनः |
१९ क
सञ्जय़ उवाच:
मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष |
१९ ख
सञ्जय़ उवाच:
तदशीर्यत विच्छिन्नं धनुः शल्यस्य साय़कैः ||
१९ ग
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ माद्रीपुत्रो महारथः |
२० क
सञ्जय़ उवाच:
मद्रराजरथं तूर्णं पूरय़ामास पत्रिभिः ||
२० ख
सञ्जय़ उवाच:
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष |
२१ क
सञ्जय़ उवाच:
दशभिर्दशभिर्वाणैरुरस्येनमविध्यताम् ||
२१ ख
सञ्जय़ उवाच:
भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः |
२२ क
सञ्जय़ उवाच:
मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः ||
२२ ख
सञ्जय़ उवाच:
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः |
२३ क
सञ्जय़ उवाच:
विव्याध भूय़ः सप्तत्या शराणां नतपर्वणाम् ||
२३ ख
सञ्जय़ उवाच:
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष |
२४ क
सञ्जय़ उवाच:
हय़ांश्च चतुरः सङ्ख्ये प्रेषय़ामास मृत्यवे ||
२४ ख
सञ्जय़ उवाच:
विरथं सात्यकिं कृत्वा मद्रराजो महावलः |
२५ क
सञ्जय़ उवाच:
विशिखानां शतेनैनमाजघान समन्ततः ||
२५ ख
सञ्जय़ उवाच:
माद्रीपुत्रौ तु संरव्धौ भीमसेनं च पाण्डवम् |
२६ क
सञ्जय़ उवाच:
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ||
२६ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् |
२७ क
सञ्जय़ उवाच:
यदेनं सहिताः पार्था नाभ्यवर्तन्त संय़ुगे ||
२७ ख
सञ्जय़ उवाच:
अथान्यं रथमास्थाय़ सात्यकिः सत्यविक्रमः |
२८ क
सञ्जय़ उवाच:
पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् |
२८ ख
सञ्जय़ उवाच:
अभिदुद्राव वेगेन मद्राणामधिपं वली ||
२८ ग
सञ्जय़ उवाच:
आपतन्तं रथं तस्य शल्यः समितिशोभनः |
२९ क
सञ्जय़ उवाच:
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ||
२९ ख
सञ्जय़ उवाच:
स संनिपातस्तुमुलो वभूवाद्भुतदर्शनः |
३० क
सञ्जय़ उवाच:
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च |
३० ख
सञ्जय़ उवाच:
यादृशो वै पुरा वृत्तः शम्वरामरराजय़ोः ||
३० ग
सञ्जय़ उवाच:
सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम् |
३१ क
सञ्जय़ उवाच:
विव्याध दशभिर्वाणैस्तिष्ठ तिष्ठेति चाव्रवीत् ||
३१ ख
सञ्जय़ उवाच:
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना |
३२ क
सञ्जय़ उवाच:
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ||
३२ ख
सञ्जय़ उवाच:
ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम् |
३३ क
सञ्जय़ उवाच:
अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया ||
३३ ख
सञ्जय़ उवाच:
तत आसीत्परामर्दस्तुमुलः शोणितोदकः |
३४ क
सञ्जय़ उवाच:
शूराणां युध्यमानानां सिंहानामिव नर्दताम् ||
३४ ख
सञ्जय़ उवाच:
तेषामासीन्महाराज व्यतिक्षेपः परस्परम् |
३५ क
सञ्जय़ उवाच:
सिंहानामामिषेप्सूनां कूजतामिव संय़ुगे ||
३५ ख
सञ्जय़ उवाच:
तेषां वाणसहस्रौघैराकीर्णा वसुधाभवत् |
३६ क
सञ्जय़ उवाच:
अन्तरिक्षं च सहसा वाणभूतमभूत्तदा ||
३६ ख
सञ्जय़ उवाच:
शरान्धकारं वहुधा कृतं तत्र समन्ततः |
३७ क
सञ्जय़ उवाच:
अभ्रच्छाय़ेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः ||
३७ ख
सञ्जय़ उवाच:
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः |
३८ क
सञ्जय़ उवाच:
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा ||
३८ ख
सञ्जय़ उवाच:
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिवर्हणः |
३९ क
सञ्जय़ उवाच:
यदेकः समरे शूरो योधय़ामास वै वहून् ||
३९ ख
सञ्जय़ उवाच:
मद्रराजभुजोत्सृष्टैः कङ्कवर्हिणवाजितैः |
४० क
सञ्जय़ उवाच:
सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ||
४० ख
सञ्जय़ उवाच:
तत्र शल्यरथं राजन्विचरन्तं महाहवे |
४१ क
सञ्जय़ उवाच:
अपश्याम यथा पूर्वं शक्रस्यासुरसङ्क्षय़े ||
४१ ख