chevron_left आश्वमेधिक पर्व अध्याय २२
व्राह्मण उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
व्राह्मण उवाच:
सुभगे सप्तहोतॄणां विधानमिह यादृशम् ||
१ ख
व्राह्मण उवाच:
घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम् |
२ क
व्राह्मण उवाच:
मनो वुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ||
२ ख
व्राह्मण उवाच:
सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् |
३ क
व्राह्मण उवाच:
एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने ||
३ ख
व्राह्मण्यु उवाच:
सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः |
४ क
व्राह्मण्यु उवाच:
कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो ||
४ ख
व्राह्मण उवाच:
गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता |
५ क
व्राह्मण उवाच:
परस्परगुणानेते न विजानन्ति कर्हिचित् ||
५ ख
व्राह्मण उवाच:
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो वुद्धिरेव च |
६ क
व्राह्मण उवाच:
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ||
६ ख
व्राह्मण उवाच:
घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो वुद्धिरेव च |
७ क
व्राह्मण उवाच:
न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ||
७ ख
व्राह्मण उवाच:
घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो वुद्धिरेव च |
८ क
व्राह्मण उवाच:
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ||
८ ख
व्राह्मण उवाच:
घ्राणं जिह्वा च चक्षुश्च श्रोत्रं वुद्धिर्मनस्तथा |
९ क
व्राह्मण उवाच:
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ||
९ ख
व्राह्मण उवाच:
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो वुद्धिरेव च |
१० क
व्राह्मण उवाच:
न शव्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ||
१० ख
व्राह्मण उवाच:
घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं वुद्धिरेव च |
११ क
व्राह्मण उवाच:
संशय़ान्नाधिगच्छन्ति मनस्तानधिगच्छति ||
११ ख
व्राह्मण उवाच:
घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च |
१२ क
व्राह्मण उवाच:
न निष्ठामधिगच्छन्ति वुद्धिस्तामधिगच्छति ||
१२ ख
व्राह्मण उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१३ क
व्राह्मण उवाच:
इन्द्रिय़ाणां च संवादं मनसश्चैव भामिनि ||
१३ ख
मन उवाच:
न घ्राति मामृते घ्राणं रसं जिह्वा न वुध्यते |
१४ क
मन उवाच:
रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नाववुध्यते ||
१४ ख
मन उवाच:
न श्रोत्रं वुध्यते शव्दं मय़ा हीनं कथञ्चन |
१५ क
मन उवाच:
प्रवरं सर्वभूतानामहमस्मि सनातनम् ||
१५ ख
मन उवाच:
अगाराणीव शून्यानि शान्तार्चिष इवाग्नय़ः |
१६ क
मन उवाच:
इन्द्रिय़ाणि न भासन्ते मय़ा हीनानि नित्यशः ||
१६ ख
मन उवाच:
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रिय़ैः |
१७ क
मन उवाच:
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ||
१७ ख
इन्द्रिय़ाण्यू ऊचुः:
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् |
१८ क
इन्द्रिय़ाण्यू ऊचुः:
ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ||
१८ ख
इन्द्रिय़ाण्यू ऊचुः:
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् |
१९ क
इन्द्रिय़ाण्यू ऊचुः:
भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा ||
१९ ख
इन्द्रिय़ाण्यू ऊचुः:
अथ वास्मासु लीनेषु तिष्ठत्सु विषय़ेषु च |
२० क
इन्द्रिय़ाण्यू ऊचुः:
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ||
२० ख
इन्द्रिय़ाण्यू ऊचुः:
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा |
२१ क
इन्द्रिय़ाण्यू ऊचुः:
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ||
२१ ख
इन्द्रिय़ाण्यू ऊचुः:
श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वय़ा |
२२ क
इन्द्रिय़ाण्यू ऊचुः:
त्वचा च शव्दमादत्स्व वुद्ध्या स्पर्शमथापि च ||
२२ ख
इन्द्रिय़ाण्यू ऊचुः:
वलवन्तो ह्यनिय़मा निय़मा दुर्वलीय़साम् |
२३ क
इन्द्रिय़ाण्यू ऊचुः:
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ||
२३ ख
इन्द्रिय़ाण्यू ऊचुः:
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति |
२४ क
इन्द्रिय़ाण्यू ऊचुः:
ततः श्रुतमुपादाय़ श्रुतार्थमुपतिष्ठति ||
२४ ख
इन्द्रिय़ाण्यू ऊचुः:
विषय़ानेवमस्माभिर्दर्शितानभिमन्यसे |
२५ क
इन्द्रिय़ाण्यू ऊचुः:
अनागतानतीतांश्च स्वप्ने जागरणे तथा ||
२५ ख
इन्द्रिय़ाण्यू ऊचुः:
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् |
२६ क
इन्द्रिय़ाण्यू ऊचुः:
अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ||
२६ ख
इन्द्रिय़ाण्यू ऊचुः:
वहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च |
२७ क
इन्द्रिय़ाण्यू ऊचुः:
वुभुक्षय़ा पीड्यमानो विषय़ानेव धावसि ||
२७ ख
इन्द्रिय़ाण्यू ऊचुः:
अगारमद्वारमिव प्रविश्य; सङ्कल्पभोगो विषय़ानविन्दन् |
२८ क
इन्द्रिय़ाण्यू ऊचुः:
प्राणक्षय़े शान्तिमुपैति नित्यं; दारुक्षय़ेऽग्निर्ज्वलितो यथैव ||
२८ ख
इन्द्रिय़ाण्यू ऊचुः:
कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलव्धिः |
२९ क
इन्द्रिय़ाण्यू ऊचुः:
अस्मानृते नास्ति तवोपलव्धि; स्त्वामप्यृतेऽस्मान्न भजेत हर्षः ||
२९ ख