chevron_left वन पर्व अध्याय २२
वासुदेव उवाच:
एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः |
१ क
वासुदेव उवाच:
युध्यमानो मय़ा सङ्ख्ये विय़दभ्यागमत्पुनः ||
१ ख
वासुदेव उवाच:
ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्च |
२ क
वासुदेव उवाच:
चिक्षेप रोषान्मय़ि मन्दवुद्धिः; शाल्वो महाराज जय़ाभिकाङ्क्षी ||
२ ख
वासुदेव उवाच:
तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एव |
३ क
वासुदेव उवाच:
द्विधा त्रिधा चाच्छिनमाशु मुक्तै; स्ततोऽन्तरिक्षे निनदो वभूव ||
३ ख
वासुदेव उवाच:
ततः शतसहस्रेण शराणां नतपर्वणाम् |
४ क
वासुदेव उवाच:
दारुकं वाजिनश्चैव रथं च समवाकिरत् ||
४ ख
वासुदेव उवाच:
ततो मामव्रवीद्वीर दारुको विह्वलन्निव |
५ क
वासुदेव उवाच:
स्थातव्यमिति तिष्ठामि शाल्ववाणप्रपीडितः ||
५ ख
वासुदेव उवाच:
इति तस्य निशम्याहं सारथेः करुणं वचः |
६ क
वासुदेव उवाच:
अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ||
६ ख
वासुदेव उवाच:
न तस्योरसि नो मूर्ध्नि न काय़े न भुजद्वय़े |
७ क
वासुदेव उवाच:
अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः ||
७ ख
वासुदेव उवाच:
स तु वाणवरोत्पीडाद्विस्रवत्यसृगुल्वणम् |
८ क
वासुदेव उवाच:
अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ||
८ ख
वासुदेव उवाच:
अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे |
९ क
वासुदेव उवाच:
अस्तम्भय़ं महावाहो शाल्ववाणप्रपीडितम् ||
९ ख
वासुदेव उवाच:
अथ मां पुरुषः कश्चिद्द्वारकानिलय़ोऽव्रवीत् |
१० क
वासुदेव उवाच:
त्वरितो रथमभ्येत्य सौहृदादिव भारत ||
१० ख
वासुदेव उवाच:
आहुकस्य वचो वीर तस्यैव परिचारकः |
११ क
वासुदेव उवाच:
विषण्णः सन्नकण्ठो वै तन्निवोध युधिष्ठिर ||
११ ख
वासुदेव उवाच:
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः |
१२ क
वासुदेव उवाच:
केशवेह विजानीष्व यत्त्वां पितृसखोऽव्रवीत् ||
१२ ख
वासुदेव उवाच:
उपय़ात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन |
१३ क
वासुदेव उवाच:
विषक्ते त्वय़ि दुर्धर्ष हतः शूरसुतो वलात् ||
१३ ख
वासुदेव उवाच:
तदलं साधु युद्धेन निवर्तस्व जनार्दन |
१४ क
वासुदेव उवाच:
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ||
१४ ख
वासुदेव उवाच:
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः |
१५ क
वासुदेव उवाच:
निश्चय़ं नाधिगच्छामि कर्तव्यस्येतरस्य वा ||
१५ ख
वासुदेव उवाच:
सात्यकिं वलदेवं च प्रद्युम्नं च महारथम् |
१६ क
वासुदेव उवाच:
जगर्हे मनसा वीर तच्छ्रुत्वा विप्रिय़ं वचः ||
१६ ख
वासुदेव उवाच:
अहं हि द्वारकाय़ाश्च पितुश्च कुरुनन्दन |
१७ क
वासुदेव उवाच:
तेषु रक्षां समाधाय़ प्रय़ातः सौभपातने ||
१७ ख
वासुदेव उवाच:
वलदेवो महावाहुः कच्चिज्जीवति शत्रुहा |
१८ क
वासुदेव उवाच:
सात्यकी रौक्मिणेय़श्च चारुदेष्णश्च वीर्यवान् |
१८ ख
वासुदेव उवाच:
साम्वप्रभृतय़श्चैवेत्यहमासं सुदुर्मनाः ||
१८ ग
वासुदेव उवाच:
एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन |
१९ क
वासुदेव उवाच:
शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वय़म् ||
१९ ख
वासुदेव उवाच:
हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः |
२० क
वासुदेव उवाच:
वलदेवमुखाः सर्वे इति मे निश्चिता मतिः ||
२० ख
वासुदेव उवाच:
सोऽहं सर्वविनाशं तं चिन्तय़ानो मुहुर्मुहुः |
२१ क
वासुदेव उवाच:
सुविह्वलो महाराज पुनः शाल्वमय़ोधय़म् ||
२१ ख
वासुदेव उवाच:
ततोऽपश्यं महाराज प्रपतन्तमहं तदा |
२२ क
वासुदेव उवाच:
सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ||
२२ ख
वासुदेव उवाच:
तस्य रूपं प्रपततः पितुर्मम नराधिप |
२३ क
वासुदेव उवाच:
यय़ातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ||
२३ ख
वासुदेव उवाच:
विशीर्णगलितोष्णीषः प्रकीर्णाम्वरमूर्धजः |
२४ क
वासुदेव उवाच:
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ||
२४ ख
वासुदेव उवाच:
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम |
२५ क
वासुदेव उवाच:
मोहात्सन्नश्च कौन्तेय़ रथोपस्थ उपाविशम् ||
२५ ख
वासुदेव उवाच:
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् |
२६ क
वासुदेव उवाच:
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ||
२६ ख
वासुदेव उवाच:
प्रसार्य वाहू पततः प्रसार्य चरणावपि |
२७ क
वासुदेव उवाच:
रूपं पितुरपश्यं तच्छकुनेः पततो यथा ||
२७ ख
वासुदेव उवाच:
तं पतन्तं महावाहो शूलपट्टिशपाणय़ः |
२८ क
वासुदेव उवाच:
अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पय़न् ||
२८ ख
वासुदेव उवाच:
ततो मुहूर्तात्प्रतिलभ्य सञ्ज्ञा; महं तदा वीर महाविमर्दे |
२९ क
वासुदेव उवाच:
न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि ||
२९ ख
वासुदेव उवाच:
ततो ममासीन्मनसि माय़ेय़मिति निश्चितम् |
३० क
वासुदेव उवाच:
प्रवुद्धोऽस्मि ततो भूय़ः शतशो विकिरञ्शरान् ||
३० ख