वैशम्पाय़न उवाच:
तस्मिन्काले समागम्य सर्वे तत्रास्य वान्धवाः |
१ क
वैशम्पाय़न उवाच:
रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ||
१ ख
वैशम्पाय़न उवाच:
सर्वे संहृष्टरोमाणः सन्त्रस्ताः प्रेक्ष्य कीचकम् |
२ क
वैशम्पाय़न उवाच:
तथा सर्वाङ्गसम्भुग्नं कूर्मं स्थल इवोद्धृतम् ||
२ ख
वैशम्पाय़न उवाच:
पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् |
३ क
वैशम्पाय़न उवाच:
संस्कारय़ितुमिच्छन्तो वहिर्नेतुं प्रचक्रमुः ||
३ ख
वैशम्पाय़न उवाच:
ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः |
४ क
वैशम्पाय़न उवाच:
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ||
४ ख
वैशम्पाय़न उवाच:
समवेतेषु सूतेषु तानुवाचोपकीचकः |
५ क
वैशम्पाय़न उवाच:
हन्यतां शीघ्रमसती यत्कृते कीचको हतः ||
५ ख
वैशम्पाय़न उवाच:
अथ वा नेह हन्तव्या दह्यतां कामिना सह |
६ क
वैशम्पाय़न उवाच:
मृतस्यापि प्रिय़ं कार्यं सूतपुत्रस्य सर्वथा ||
६ ख
वैशम्पाय़न उवाच:
ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः |
७ क
वैशम्पाय़न उवाच:
सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ||
७ ख
वैशम्पाय़न उवाच:
पराक्रमं तु सूतानां मत्वा राजान्वमोदत |
८ क
वैशम्पाय़न उवाच:
सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ||
८ ख
वैशम्पाय़न उवाच:
तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् |
९ क
वैशम्पाय़न उवाच:
मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ||
९ ख
वैशम्पाय़न उवाच:
ततस्तु तां समारोप्य निवध्य च सुमध्यमाम् |
१० क
वैशम्पाय़न उवाच:
जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ||
१० ख
वैशम्पाय़न उवाच:
ह्रिय़माणा तु सा राजन्सूतपुत्रैरनिन्दिता |
११ क
वैशम्पाय़न उवाच:
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ||
११ ख
द्रौपद्यु उवाच:
जय़ो जय़न्तो विजय़ो जय़त्सेनो जय़द्वलः |
१२ क
द्रौपद्यु उवाच:
ते मे वाचं विजानन्तु सूतपुत्रा नय़न्ति माम् ||
१२ ख
द्रौपद्यु उवाच:
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः |
१३ क
द्रौपद्यु उवाच:
व्यश्रूय़त महाय़ुद्धे भीमघोषस्तरस्विनाम् ||
१३ ख
द्रौपद्यु उवाच:
रथघोषश्च वलवान्गन्धर्वाणां यशस्विनाम् |
१४ क
द्रौपद्यु उवाच:
ते मे वाचं विजानन्तु सूतपुत्रा नय़न्ति माम् ||
१४ ख
वैशम्पाय़न उवाच:
तस्यास्ताः कृपणा वाचः कृष्णाय़ाः परिदेविताः |
१५ क
वैशम्पाय़न उवाच:
श्रुत्वैवाभ्यपतद्भीमः शय़नादविचारय़न् ||
१५ ख
भीमसेन उवाच:
अहं शृणोमि ते वाचं त्वय़ा सैरन्ध्रि भाषिताम् |
१६ क
भीमसेन उवाच:
तस्मात्ते सूतपुत्रेभ्यो न भय़ं भीरु विद्यते ||
१६ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा स महावाहुर्विजजृम्भे जिघांसय़ा |
१७ क
वैशम्पाय़न उवाच:
ततः स व्याय़तं कृत्वा वेषं विपरिवर्त्य च |
१७ ख
वैशम्पाय़न उवाच:
अद्वारेणाभ्यवस्कन्द्य निर्जगाम वहिस्तदा ||
१७ ग
वैशम्पाय़न उवाच:
स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् |
१८ क
वैशम्पाय़न उवाच:
श्मशानाभिमुखः प्राय़ाद्यत्र ते कीचका गताः ||
१८ ख
वैशम्पाय़न उवाच:
स तं वृक्षं दशव्यामं सस्कन्धविटपं वली |
१९ क
वैशम्पाय़न उवाच:
प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः ||
१९ ख
वैशम्पाय़न उवाच:
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः |
२० क
वैशम्पाय़न उवाच:
भूमौ निपतिता वृक्षाः सङ्घशस्तत्र शेरते ||
२० ख
वैशम्पाय़न उवाच:
तं सिंहमिव सङ्क्रुद्धं दृष्ट्वा गन्धर्वमागतम् |
२१ क
वैशम्पाय़न उवाच:
वित्रेसुः सर्वतः सूता विषादभय़कम्पिताः ||
२१ ख
वैशम्पाय़न उवाच:
तमन्तकमिवाय़ान्तं गन्धर्वं प्रेक्ष्य ते तदा |
२२ क
वैशम्पाय़न उवाच:
दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः |
२२ ख
वैशम्पाय़न उवाच:
परस्परमथोचुस्ते विषादभय़कम्पिताः ||
२२ ग
वैशम्पाय़न उवाच:
गन्धर्वो वलवानेति क्रुद्ध उद्यम्य पादपम् |
२३ क
वैशम्पाय़न उवाच:
सैरन्ध्री मुच्यतां शीघ्रं महन्नो भय़मागतम् ||
२३ ख
वैशम्पाय़न उवाच:
ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् |
२४ क
वैशम्पाय़न उवाच:
विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ||
२४ ख
वैशम्पाय़न उवाच:
द्रवतस्तांस्तु सम्प्रेक्ष्य स वज्री दानवानिव |
२५ क
वैशम्पाय़न उवाच:
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ||
२५ ख
वैशम्पाय़न उवाच:
तत आश्वासय़त्कृष्णां प्रविमुच्य विशां पते |
२६ क
वैशम्पाय़न उवाच:
उवाच च महावाहुः पाञ्चालीं तत्र द्रौपदीम् |
२६ ख
वैशम्पाय़न उवाच:
अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ||
२६ ग
वैशम्पाय़न उवाच:
एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् |
२७ क
वैशम्पाय़न उवाच:
प्रैहि त्वं नगरं कृष्णे न भय़ं विद्यते तव |
२७ ख
वैशम्पाय़न उवाच:
अन्येनाहं गमिष्यामि विराटस्य महानसम् ||
२७ ग
वैशम्पाय़न उवाच:
पञ्चाधिकं शतं तच्च निहतं तत्र भारत |
२८ क
वैशम्पाय़न उवाच:
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ||
२८ ख
वैशम्पाय़न उवाच:
एवं ते निहता राजञ्शतं पञ्च च कीचकाः |
२९ क
वैशम्पाय़न उवाच:
स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ||
२९ ख
वैशम्पाय़न उवाच:
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च सङ्गताः |
३० क
वैशम्पाय़न उवाच:
विस्मय़ं परमं गत्वा नोचुः किञ्चन भारत ||
३० ख