chevron_left भीष्म पर्व अध्याय २२
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा स्वां सेनां समचोदय़त् |
१ क
सञ्जय़ उवाच:
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ||
१ ख
सञ्जय़ उवाच:
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः |
२ क
सञ्जय़ उवाच:
स्वर्गं परमभीप्सन्तः सुय़ुद्धेन कुरूद्वहाः ||
२ ख
सञ्जय़ उवाच:
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना |
३ क
सञ्जय़ उवाच:
धृष्टद्युम्नस्य च स्वय़ं भीमेन परिपालितम् ||
३ ख
सञ्जय़ उवाच:
अनीकं दक्षिणं राजन्युय़ुधानेन पालितम् |
४ क
सञ्जय़ उवाच:
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ||
४ ख
सञ्जय़ उवाच:
महेन्द्रय़ानप्रतिमं रथं तु; सोपस्करं हाटकरत्नचित्रम् |
५ क
सञ्जय़ उवाच:
युधिष्ठिरः काञ्चनभाण्डय़ोक्त्रं; समास्थितो नागकुलस्य मध्ये ||
५ ख
सञ्जय़ उवाच:
समुच्छ्रितं दान्तशलाकमस्य; सुपाण्डुरं छत्रमतीव भाति |
६ क
सञ्जय़ उवाच:
प्रदक्षिणं चैनमुपाचरन्ति; महर्षय़ः संस्तुतिभिर्नरेन्द्रम् ||
६ ख
सञ्जय़ उवाच:
पुरोहिताः शत्रुवधं वदन्तो; महर्षिवृद्धाः श्रुतवन्त एव |
७ क
सञ्जय़ उवाच:
जप्यैश्च मन्त्रैश्च तथौषधीभिः; समन्ततः स्वस्त्ययनं प्रचक्रुः ||
७ ख
सञ्जय़ उवाच:
ततः स वस्त्राणि तथैव गाश्च; फलानि पुष्पाणि तथैव निष्कान् |
८ क
सञ्जय़ उवाच:
कुरूत्तमो व्राह्मणसान्महात्मा; कुर्वन्ययौ शक्र इवामरेभ्यः ||
८ ख
सञ्जय़ उवाच:
सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्यजाम्वूनदहेमचित्रः |
९ क
सञ्जय़ उवाच:
रथोऽर्जुनस्याग्निरिवार्चिमाली; विभ्राजते श्वेतहय़ः सुचक्रः ||
९ ख
सञ्जय़ उवाच:
तमास्थितः केशवसङ्गृहीतं; कपिध्वजं गाण्डिववाणहस्तः |
१० क
सञ्जय़ उवाच:
धनुर्धरो यस्य समः पृथिव्यां; न विद्यते नो भविता वा कदाचित् ||
१० ख
सञ्जय़ उवाच:
उद्वर्तय़िष्यंस्तव पुत्रसेना; मतीव रौद्रं स विभर्ति रूपम् |
११ क
सञ्जय़ उवाच:
अनाय़ुधो यः सुभुजो भुजाभ्यां; नराश्वनागान्युधि भस्म कुर्यात् ||
११ ख
सञ्जय़ उवाच:
स भीमसेनः सहितो यमाभ्यां; वृकोदरो वीररथस्य गोप्ता |
१२ क
सञ्जय़ उवाच:
तं प्रेक्ष्य मत्तर्षभसिंहखेलं; लोके महेन्द्रप्रतिमानकल्पम् ||
१२ ख
सञ्जय़ उवाच:
समीक्ष्य सेनाग्रगतं दुरासदं; प्रविव्यथुः पङ्कगता इवोष्ट्राः |
१३ क
सञ्जय़ उवाच:
वृकोदरं वारणराजदर्पं; योधास्त्वदीय़ा भय़विग्नसत्त्वाः ||
१३ ख
सञ्जय़ उवाच:
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् |
१४ क
सञ्जय़ उवाच:
अव्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ||
१४ ख
वासुदेव उवाच:
य एष गोप्ता प्रतपन्वलस्थो; यो नः सेनां सिंह इवेक्षते च |
१५ क
वासुदेव उवाच:
स एष भीष्मः कुरुवंशकेतु; र्येनाहृतास्त्रिंशतो वाजिमेधाः ||
१५ ख
वासुदेव उवाच:
एतान्यनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम् |
१६ क
वासुदेव उवाच:
एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण ||
१६ ख
धृतराष्ट्र उवाच:
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय़ |
१७ क
धृतराष्ट्र उवाच:
उदग्रमनसः केऽत्र के वा दीना विचेतसः ||
१७ ख
धृतराष्ट्र उवाच:
के पूर्वं प्राहरंस्तत्र युद्धे हृदय़कम्पने |
१८ क
धृतराष्ट्र उवाच:
मामकाः पाण्डवानां वा तन्ममाचक्ष्व सञ्जय़ ||
१८ ख
धृतराष्ट्र उवाच:
कस्य सेनासमुदय़े गन्धमाल्यसमुद्भवः |
१९ क
धृतराष्ट्र उवाच:
वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् ||
१९ ख
सञ्जय़ उवाच:
उभय़ोः सेनय़ोस्तत्र योधा जहृषिरे मुदा |
२० क
सञ्जय़ उवाच:
स्रग्धूपपानगन्धानामुभय़त्र समुद्भवः ||
२० ख
सञ्जय़ उवाच:
संहतानामनीकानां व्यूढानां भरतर्षभ |
२१ क
सञ्जय़ उवाच:
संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् ||
२१ ख
सञ्जय़ उवाच:
वादित्रशव्दस्तुमुलः शङ्खभेरीविमिश्रितः |
२२ क
सञ्जय़ उवाच:
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ||
२२ ख