chevron_left आदि पर्व अध्याय २२०
जनमेजय़ उवाच:
किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते |
१ क
जनमेजय़ उवाच:
तस्मिन्वने दह्यमाने व्रह्मन्नेतद्वदाशु मे ||
१ ख
जनमेजय़ उवाच:
अदाहे ह्यश्वसेनस्य दानवस्य मय़स्य च |
२ क
जनमेजय़ उवाच:
कारणं कीर्तितं व्रह्मञ्शार्ङ्गकानां न कीर्तितम् ||
२ ख
जनमेजय़ उवाच:
तदेतदद्भुतं व्रह्मञ्शार्ङ्गानामविनाशनम् |
३ क
जनमेजय़ उवाच:
कीर्तय़स्वाग्निसंमर्दे कथं ते न विनाशिताः ||
३ ख
वैशम्पाय़न उवाच:
यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते |
४ क
वैशम्पाय़न उवाच:
तत्ते सर्वं यथावृत्तं कथय़िष्यामि भारत ||
४ ख
वैशम्पाय़न उवाच:
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः |
५ क
वैशम्पाय़न उवाच:
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ||
५ ख
वैशम्पाय़न उवाच:
स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् |
६ क
वैशम्पाय़न उवाच:
स्वाध्याय़वान्धर्मरतस्तपस्वी विजितेन्द्रिय़ः ||
६ ख
वैशम्पाय़न उवाच:
स गत्वा तपसः पारं देहमुत्सृज्य भारत |
७ क
वैशम्पाय़न उवाच:
जगाम पितृलोकाय़ न लेभे तत्र तत्फलम् ||
७ ख
वैशम्पाय़न उवाच:
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि |
८ क
वैशम्पाय़न उवाच:
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ||
८ ख
वैशम्पाय़न उवाच:
किमर्थमावृता लोका ममैते तपसार्जिताः |
९ क
वैशम्पाय़न उवाच:
किं मय़ा न कृतं तत्र यस्येदं कर्मणः फलम् ||
९ ख
वैशम्पाय़न उवाच:
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् |
१० क
वैशम्पाय़न उवाच:
फलमेतस्य तपसः कथय़ध्वं दिवौकसः ||
१० ख
देवा ऊचुः:
ऋणिनो मानवा व्रह्मञ्जाय़न्ते येन तच्छृणु |
११ क
देवा ऊचुः:
क्रिय़ाभिर्व्रह्मचर्येण प्रजय़ा च न संशय़ः ||
११ ख
देवा ऊचुः:
तदपाक्रिय़ते सर्वं यज्ञेन तपसा सुतैः |
१२ क
देवा ऊचुः:
तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ||
१२ ख
देवा ऊचुः:
त इमे प्रसवस्यार्थे तव लोकाः समावृताः |
१३ क
देवा ऊचुः:
प्रजाय़स्व ततो लोकानुपभोक्तासि शाश्वतान् ||
१३ ख
देवा ऊचुः:
पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने |
१४ क
देवा ऊचुः:
तस्मादपत्यसन्ताने यतस्व द्विजसत्तम ||
१४ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् |
१५ क
वैशम्पाय़न उवाच:
क्व नु शीघ्रमपत्यं स्याद्वहुलं चेत्यचिन्तय़त् ||
१५ ख
वैशम्पाय़न उवाच:
स चिन्तय़न्नभ्यगच्छद्वहुलप्रसवान्खगान् |
१६ क
वैशम्पाय़न उवाच:
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेय़िवान् ||
१६ ख
वैशम्पाय़न उवाच:
तस्यां पुत्रानजनय़च्चतुरो व्रह्मवादिनः |
१७ क
वैशम्पाय़न उवाच:
तानपास्य स तत्रैव जगाम लपितां प्रति |
१७ ख
वैशम्पाय़न उवाच:
वालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ||
१७ ग
वैशम्पाय़न उवाच:
तस्मिन्गते महाभागे लपितां प्रति भारत |
१८ क
वैशम्पाय़न उवाच:
अपत्यस्नेहसंविग्ना जरिता वह्वचिन्तय़त् ||
१८ ख
वैशम्पाय़न उवाच:
तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने |
१९ क
वैशम्पाय़न उवाच:
नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप |
१९ ख
वैशम्पाय़न उवाच:
वभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा ||
१९ ग
वैशम्पाय़न उवाच:
ततोऽग्निं खाण्डवं दग्धुमाय़ान्तं दृष्टवानृषिः |
२० क
वैशम्पाय़न उवाच:
मन्दपालश्चरंस्तस्मिन्वने लपितय़ा सह ||
२० ख
वैशम्पाय़न उवाच:
तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च वालकान् |
२१ क
वैशम्पाय़न उवाच:
सोऽभितुष्टाव विप्रर्षिर्व्राह्मणो जातवेदसम् |
२१ ख
वैशम्पाय़न उवाच:
पुत्रान्परिददद्भीतो लोकपालं महौजसम् ||
२१ ग
मन्दपाल उवाच:
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् |
२२ क
मन्दपाल उवाच:
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ||
२२ ख
मन्दपाल उवाच:
त्वामेकमाहुः कवय़स्त्वामाहुस्त्रिविधं पुनः |
२३ क
मन्दपाल उवाच:
त्वामष्टधा कल्पय़ित्वा यज्ञवाहमकल्पय़न् ||
२३ ख
मन्दपाल उवाच:
त्वय़ा सृष्टमिदं विश्वं वदन्ति परमर्षय़ः |
२४ क
मन्दपाल उवाच:
त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ||
२४ ख
मन्दपाल उवाच:
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् |
२५ क
मन्दपाल उवाच:
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ||
२५ ख
मन्दपाल उवाच:
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः |
२६ क
मन्दपाल उवाच:
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हाय़नाः ||
२६ ख
मन्दपाल उवाच:
जातवेदस्तवैवेय़ं विश्वसृष्टिर्महाद्युते |
२७ क
मन्दपाल उवाच:
तवैव कर्म विहितं भूतं सर्वं चराचरम् ||
२७ ख
मन्दपाल उवाच:
त्वय़ापो विहिताः पूर्वं त्वय़ि सर्वमिदं जगत् |
२८ क
मन्दपाल उवाच:
त्वय़ि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् ||
२८ ख
मन्दपाल उवाच:
अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं वृहस्पतिः |
२९ क
मन्दपाल उवाच:
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ||
२९ ख
वैशम्पाय़न उवाच:
एवं स्तुतस्ततस्तेन मन्दपालेन पावकः |
३० क
वैशम्पाय़न उवाच:
तुतोष तस्य नृपते मुनेरमिततेजसः |
३० ख
वैशम्पाय़न उवाच:
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ||
३० ग
वैशम्पाय़न उवाच:
तमव्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् |
३१ क
वैशम्पाय़न उवाच:
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय़ ||
३१ ख
वैशम्पाय़न उवाच:
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः |
३२ क
वैशम्पाय़न उवाच:
खाण्डवे तेन कालेन प्रजज्वाल दिधक्षय़ा ||
३२ ख