श्रीरु उवाच:
सभासदां ते वृद्धानां सत्याः कथय़तां कथाः |
५० क
श्रीरु उवाच:
प्राहसन्नभ्यसूय़ंश्च सर्ववृद्धान्गुणावराः ||
५० ख
श्रीरु उवाच:
यूनः सहसमासीनान्वृद्धानभिगतान्सतः |
५१ क
श्रीरु उवाच:
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजय़न् ||
५१ ख
श्रीरु उवाच:
वर्तय़न्त्येव पितरि पुत्राः प्रभवताऽऽत्मनः |
५२ क
श्रीरु उवाच:
अमित्रभृत्यतां प्राप्य ख्यापय़न्तोऽनपत्रपाः ||
५२ ख
श्रीरु उवाच:
तथा धर्मादपेतेन कर्मणा गर्हितेन ये |
५३ क
श्रीरु उवाच:
महतः प्राप्नुवन्त्यर्थांस्तेष्वेषामभवत्स्पृहा ||
५३ ख
श्रीरु उवाच:
उच्छैश्चाप्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत् |
५४ क
श्रीरु उवाच:
पुत्राः पितॄनभ्यवदन्भार्याश्चाभ्यवदन्पतीन् ||
५४ ख
श्रीरु उवाच:
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् |
५५ क
श्रीरु उवाच:
गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालय़न् ||
५५ ख
श्रीरु उवाच:
भिक्षां वलिमदत्त्वा च स्वय़मन्नानि भुञ्जते |
५६ क
श्रीरु उवाच:
अनिष्ट्वा संविभज्याथ पितृदेवातिथीन्गुरून् ||
५६ ख
श्रीरु उवाच:
न शौचमनुरुध्यन्त तेषां सूदजनास्तथा |
५७ क
श्रीरु उवाच:
मनसा कर्मणा वाचा भक्तमासीदनावृतम् ||
५७ ख
श्रीरु उवाच:
विप्रकीर्णानि धान्यानि काकमूषकभोजनम् |
५८ क
श्रीरु उवाच:
अपावृतं पय़ोऽतिष्ठदुच्छिष्टाश्चास्पृशन्घृतम् ||
५८ ख
श्रीरु उवाच:
कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम् |
५९ क
श्रीरु उवाच:
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्विनी ||
५९ ख
श्रीरु उवाच:
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते |
६० क
श्रीरु उवाच:
नाद्रिय़न्ते पशून्वद्ध्वा यवसेनोदकेन च ||
६० ख
श्रीरु उवाच:
वालानां प्रेक्षमाणानां स्वय़ं भक्षानभक्षय़न् |
६१ क
श्रीरु उवाच:
तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः ||
६१ ख
श्रीरु उवाच:
पाय़सं कृसरं मांसमपूपानथ शष्कुलीः |
६२ क
श्रीरु उवाच:
अपाचय़न्नात्मनोऽर्थे वृथामांसान्यभक्षय़न् ||
६२ ख
श्रीरु उवाच:
उत्सूर्यशाय़िनश्चासन्सर्वे चासन्प्रगेनिशाः |
६३ क
श्रीरु उवाच:
अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे ||
६३ ख
श्रीरु उवाच:
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह |
६४ क
श्रीरु उवाच:
आश्रमस्थान्विकर्मस्थाः प्रद्विषन्ति परस्परम् |
६४ ख
श्रीरु उवाच:
सङ्कराश्चाप्यवर्तन्त न च शौचमवर्तत ||
६४ ग
श्रीरु उवाच:
ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये |
६५ क
श्रीरु उवाच:
निरन्तरविशेषास्ते वहुमानावमानय़ोः ||
६५ ख
श्रीरु उवाच:
हावमाभरणं वेषं गतिं स्थितिमवेक्षितुम् |
६६ क
श्रीरु उवाच:
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् ||
६६ ख
श्रीरु उवाच:
स्त्रिय़ः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः |
६७ क
श्रीरु उवाच:
क्रीडारतिविहारेषु परां मुदमवाप्नुवन् ||
६७ ख
श्रीरु उवाच:
प्रभवद्भिः पुरा दाय़ानर्हेभ्यः प्रतिपादितान् |
६८ क
श्रीरु उवाच:
नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः सम्भवेष्वपि ||
६८ ख
श्रीरु उवाच:
मित्रेणाभ्यर्थितं मित्रमर्थे संशय़िते क्वचित् |
६९ क
श्रीरु उवाच:
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु ||
६९ ख
श्रीरु उवाच:
परस्वादानरुचय़ो विपण्यव्यवहारिणः |
७० क
श्रीरु उवाच:
अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः ||
७० ख
श्रीरु उवाच:
अधीय़न्तेऽव्रताः केचिद्वृथाव्रतमथापरे |
७१ क
श्रीरु उवाच:
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः ||
७१ ख
श्रीरु उवाच:
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव |
७२ क
श्रीरु उवाच:
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थय़तः सुतान् ||
७२ ख
श्रीरु उवाच:
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः |
७३ क
श्रीरु उवाच:
कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत ||
७३ ख
श्रीरु उवाच:
प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रिय़ाः |
७४ क
श्रीरु उवाच:
शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह ||
७४ ख
श्रीरु उवाच:
श्वश्रूश्वशुरय़ोरग्रे वधूः प्रेष्यानशासत |
७५ क
श्रीरु उवाच:
अन्वशासच्च भर्तारं समाहूय़ाभिजल्पती ||
७५ ख
श्रीरु उवाच:
प्रय़त्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता |
७६ क
श्रीरु उवाच:
व्यभजंश्चापि संरम्भाद्दुःखवासं तथावसन् ||
७६ ख
श्रीरु उवाच:
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् |
७७ क
श्रीरु उवाच:
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्सम्भाविता ह्यपि ||
७७ ख
श्रीरु उवाच:
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः |
७८ क
श्रीरु उवाच:
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः ||
७८ ख
श्रीरु उवाच:
तेष्वेवमादीनाचारानाचरत्सु विपर्यये |
७९ क
श्रीरु उवाच:
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः ||
७९ ख
श्रीरु उवाच:
तां मां स्वय़मनुप्राप्तामभिनन्द शचीपते |
८० क
श्रीरु उवाच:
त्वय़ार्चितां मां देवेश पुरोधास्यन्ति देवताः ||
८० ख
श्रीरु उवाच:
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः |
८१ क
श्रीरु उवाच:
सप्त देव्यो मय़ाष्टम्यो वासं चेष्यन्ति मेऽष्टधा ||
८१ ख
श्रीरु उवाच:
आशा श्रद्धा धृतिः कान्तिर्विजितिः सन्नतिः क्षमा |
८२ क
श्रीरु उवाच:
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन ||
८२ ख
श्रीरु उवाच:
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषय़मागता |
८३ क
श्रीरु उवाच:
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु ||
८३ ख
भीष्म उवाच:
इत्युक्तवचनां देवीमत्यर्थं तौ ननन्दतुः |
८४ क
भीष्म उवाच:
नारदश्च त्रिलोकर्षिर्वृत्रहन्ता च वासवः ||
८४ ख
भीष्म उवाच:
ततोऽनलसखो वाय़ुः प्रववौ देववेश्मसु |
८५ क
भीष्म उवाच:
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रिय़सुखावहः ||
८५ ख
भीष्म उवाच:
शुचौ चाभ्यर्चिते देशे त्रिदशाः प्राय़शः स्थिताः |
८६ क
भीष्म उवाच:
लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः ||
८६ ख
भीष्म उवाच:
ततो दिवं प्राप्य सहस्रलोचनः; श्रिय़ोपपन्नः सुहृदा सुरर्षिणा |
८७ क
भीष्म उवाच:
रथेन हर्यश्वय़ुजा सुरर्षभः; सदः सुराणामभिसत्कृतो यय़ौ ||
८७ ख
भीष्म उवाच:
अथेङ्गितं वज्रधरस्य नारदः; श्रिय़ाश्च देव्या मनसा विचारय़न् |
८८ क
भीष्म उवाच:
श्रिय़ै शशंसामरदृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत् ||
८८ ख
भीष्म उवाच:
ततोऽमृतं द्यौः प्रववर्ष भास्वती; पितामहस्याय़तने स्वय़म्भुवः |
८९ क
भीष्म उवाच:
अनाहता दुन्दुभय़श्च नेदिरे; तथा प्रसन्नाश्च दिशश्चकाशिरे ||
८९ ख
भीष्म उवाच:
यथर्तु सस्येषु ववर्ष वासवो; न धर्ममार्गाद्विचचाल कश्चन |
९० क
भीष्म उवाच:
अनेकरत्नाकरभूषणा च भूः; सुघोषघोषा भुवनौकसां जय़े ||
९० ख
भीष्म उवाच:
क्रिय़ाभिरामा मनुजा यशस्विनो; वभुः शुभे पुण्यकृतां पथि स्थिताः |
९१ क
भीष्म उवाच:
नरामराः किंनरय़क्षराक्षसाः; समृद्धिमन्तः सुखिनो यशस्विनः ||
९१ ख
भीष्म उवाच:
न जात्वकाले कुसुमं कुतः फलं; पपात वृक्षात्पवनेरितादपि |
९२ क
भीष्म उवाच:
रसप्रदाः कामदुघाश्च धेनवो; न दारुणा वाग्विचचार कस्यचित् ||
९२ ख
भीष्म उवाच:
इमां सपर्यां सह सर्वकामदैः; श्रिय़ाश्च शक्रप्रमुखैश्च दैवतैः |
९३ क
भीष्म उवाच:
पठन्ति ये विप्रसदः समागमे; समृद्धकामाः श्रिय़माप्नुवन्ति ते ||
९३ ख
भीष्म उवाच:
त्वय़ा कुरूणां वर यत्प्रचोदितं; भवाभवस्येह परं निदर्शनम् |
९४ क
भीष्म उवाच:
तदद्य सर्वं परिकीर्तितं मय़ा; परीक्ष्य तत्त्वं परिगन्तुमर्हसि ||
९४ ख