chevron_left आदि पर्व अध्याय २२१
वैशम्पाय़न उवाच:
ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः |
१ क
वैशम्पाय़न उवाच:
व्यथिताः परमोद्विग्ना नाधिजग्मुः पराय़णम् ||
१ ख
वैशम्पाय़न उवाच:
निशाम्य पुत्रकान्वालान्माता तेषां तपस्विनी |
२ क
वैशम्पाय़न उवाच:
जरिता दुःखसन्तप्ता विललाप नरेश्वर ||
२ ख
वैशम्पाय़न उवाच:
अय़मग्निर्दहन्कक्षमित आय़ाति भीषणः |
३ क
वैशम्पाय़न उवाच:
जगत्सन्दीपय़न्भीमो मम दुःखविवर्धनः ||
३ ख
वैशम्पाय़न उवाच:
इमे च मां कर्षय़न्ति शिशवो मन्दचेतसः |
४ क
वैशम्पाय़न उवाच:
अवर्हाश्चरणैर्हीनाः पूर्वेषां नः पराय़णम् |
४ ख
वैशम्पाय़न उवाच:
त्रासय़ंश्चाय़माय़ाति लेलिहानो महीरुहान् ||
४ ग
वैशम्पाय़न उवाच:
अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम |
५ क
वैशम्पाय़न उवाच:
आदाय़ च न शक्तास्मि पुत्रान्सरितुमन्यतः ||
५ ख
वैशम्पाय़न उवाच:
न च त्यक्तुमहं शक्ता हृदय़ं दूय़तीव मे |
६ क
वैशम्पाय़न उवाच:
कं नु जह्यामहं पुत्रं कमादाय़ व्रजाम्यहम् ||
६ ख
वैशम्पाय़न उवाच:
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् |
७ क
वैशम्पाय़न उवाच:
चिन्तय़ाना विमोक्षं वो नाधिगच्छामि किञ्चन |
७ ख
वैशम्पाय़न उवाच:
छादय़ित्वा च वो गात्रैः करिष्ये मरणं सह ||
७ ग
वैशम्पाय़न उवाच:
जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् |
८ क
वैशम्पाय़न उवाच:
सारिसृक्वः प्रजाय़ेत पितृणां कुलवर्धनः ||
८ ख
वैशम्पाय़न उवाच:
स्तम्वमित्रस्तपः कुर्याद्द्रोणो व्रह्मविदुत्तमः |
९ क
वैशम्पाय़न उवाच:
इत्येवमुक्त्वा प्रय़यौ पिता वो निर्घृणः पुरा ||
९ ख
वैशम्पाय़न उवाच:
कमुपादाय़ शक्येत गन्तुं कस्यापदुत्तमा |
१० क
वैशम्पाय़न उवाच:
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ||
१० ख
वैशम्पाय़न उवाच:
नापश्यत्स्वधिय़ा मोक्षं स्वसुतानां तदानलात् |
११ क
वैशम्पाय़न उवाच:
एवं व्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ||
११ ख
वैशम्पाय़न उवाच:
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् |
१२ क
वैशम्पाय़न उवाच:
अस्मासु हि विनष्टेषु भवितारः सुतास्तव |
१२ ख
वैशम्पाय़न उवाच:
त्वय़ि मातर्विनष्टाय़ां न नः स्यात्कुलसन्ततिः ||
१२ ग
वैशम्पाय़न उवाच:
अन्ववेक्ष्यैतदुभय़ं क्षमं स्याद्यत्कुलस्य नः |
१३ क
वैशम्पाय़न उवाच:
तद्वै कर्तुं परः कालो मातरेष भवेत्तव ||
१३ ख
वैशम्पाय़न उवाच:
मा वै कुलविनाशाय़ स्नेहं कार्षीः सुतेषु नः |
१४ क
वैशम्पाय़न उवाच:
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ||
१४ ख
जरितो उवाच:
इदमाखोर्विलं भूमौ वृक्षस्यास्य समीपतः |
१५ क
जरितो उवाच:
तदाविशध्वं त्वरिता वह्नेरत्र न वो भय़म् ||
१५ ख
जरितो उवाच:
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः |
१६ क
जरितो उवाच:
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ||
१६ ख
जरितो उवाच:
तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चय़म् |
१७ क
जरितो उवाच:
रोचतामेष वोपाय़ो विमोक्षाय़ हुताशनात् ||
१७ ख
शार्ङ्गका ऊचुः:
अवर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशय़ेत् |
१८ क
शार्ङ्गका ऊचुः:
पश्यमाना भय़मिदं न शक्ष्यामो निषेवितुम् ||
१८ ख
शार्ङ्गका ऊचुः:
कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षय़ेत् |
१९ क
शार्ङ्गका ऊचुः:
कथं न स्यात्पिता मोघः कथं माता ध्रिय़ेत नः ||
१९ ख
शार्ङ्गका ऊचुः:
विल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् |
२० क
शार्ङ्गका ऊचुः:
अन्ववेक्ष्यैतदुभय़ं श्रेय़ान्दाहो न भक्षणम् ||
२० ख
शार्ङ्गका ऊचुः:
गर्हितं मरणं नः स्यादाखुना खादता विले |
२१ क
शार्ङ्गका ऊचुः:
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ||
२१ ख