chevron_left शान्ति पर्व अध्याय २२१
युधिष्ठिर उवाच:
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः |
१ क
युधिष्ठिर उवाच:
पराभविष्यतश्चैव त्वं मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
मन एव मनुष्यस्य पूर्वरूपाणि शंसति |
२ क
भीष्म उवाच:
भविष्यतश्च भद्रं ते तथैव नभविष्यतः ||
२ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
३ क
भीष्म उवाच:
श्रिय़ा शक्रस्य संवादं तन्निवोध युधिष्ठिर ||
३ ख
भीष्म उवाच:
महतस्तपसो व्युष्ट्या पश्यँल्लोकौ परावरौ |
४ क
भीष्म उवाच:
सामान्यमृषिभिर्गत्वा व्रह्मलोकनिवासिभिः ||
४ ख
भीष्म उवाच:
व्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः |
५ क
भीष्म उवाच:
विचचार यथाकामं त्रिषु लोकेषु नारदः ||
५ ख
भीष्म उवाच:
कदाचित्प्रातरुत्थाय़ पिस्पृक्षुः सलिलं शुचि |
६ क
भीष्म उवाच:
ध्रुवद्वारभवां गङ्गां जगामावततार च ||
६ ख
भीष्म उवाच:
सहस्रनय़नश्चापि वज्री शम्वरपाकहा |
७ क
भीष्म उवाच:
तस्या देवर्षिजुष्टाय़ास्तीरमभ्याजगाम ह ||
७ ख
भीष्म उवाच:
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः |
८ क
भीष्म उवाच:
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् ||
८ ख
भीष्म उवाच:
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः |
९ क
भीष्म उवाच:
चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ |
९ ख
भीष्म उवाच:
पूर्ववृत्तव्यपेतानि कथय़न्तौ समाहितौ ||
९ ग
भीष्म उवाच:
अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् |
१० क
भीष्म उवाच:
पूर्णमण्डलमालोक्य तावुत्थाय़ोपतस्थतुः ||
१० ख
भीष्म उवाच:
अभितस्तूदय़न्तं तमर्कमर्कमिवापरम् |
११ क
भीष्म उवाच:
आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम् ||
११ ख
भीष्म उवाच:
तय़ोः समीपं सम्प्राप्तं प्रत्यदृश्यत भारत |
१२ क
भीष्म उवाच:
तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम् |
१२ ख
भीष्म उवाच:
भाभिरप्रतिमं भाति त्रैलोक्यमवभासय़त् ||
१२ ग
भीष्म उवाच:
दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम् |
१३ क
भीष्म उवाच:
वृहतीमंशुमत्प्रख्यां वृहद्भानोरिवार्चिषम् ||
१३ ख
भीष्म उवाच:
नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम् |
१४ क
भीष्म उवाच:
श्रिय़ं ददृशतुः पद्मां साक्षात्पद्मतलस्थिताम् ||
१४ ख
भीष्म उवाच:
सावरुह्य विमानाग्रादङ्गनानामनुत्तमा |
१५ क
भीष्म उवाच:
अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम् ||
१५ ख
भीष्म उवाच:
नारदानुगतः साक्षान्मघवांस्तामुपागमत् |
१६ क
भीष्म उवाच:
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना ||
१६ ख
भीष्म उवाच:
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित् |
१७ क
भीष्म उवाच:
देवराजः श्रिय़ं राजन्वाक्यं चेदमुवाच ह ||
१७ ख
भीष्म उवाच:
का त्वं केन च कार्येण सम्प्राप्ता चारुहासिनि |
१८ क
भीष्म उवाच:
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे ||
१८ ख
श्रीरु उवाच:
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः |
१९ क
श्रीरु उवाच:
ममात्मभावमिच्छन्तो यतन्ते परमात्मना ||
१९ ख
श्रीरु उवाच:
साहं वै पङ्कजे जाता सूर्यरश्मिविवोधिते |
२० क
श्रीरु उवाच:
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ||
२० ख
श्रीरु उवाच:
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं वलसूदन |
२१ क
श्रीरु उवाच:
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः ||
२१ ख
श्रीरु उवाच:
अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च |
२२ क
श्रीरु उवाच:
अहं स्वाहा स्वधा चैव संस्तुतिर्निय़तिः कृतिः ||
२२ ख
श्रीरु उवाच:
राज्ञां विजय़मानानां सेनाग्रेषु ध्वजेषु च |
२३ क
श्रीरु उवाच:
निवासे धर्मशीलानां विषय़ेषु पुरेषु च ||
२३ ख
श्रीरु उवाच:
जितकाशिनि शूरे च सङ्ग्रामेष्वनिवर्तिनि |
२४ क
श्रीरु उवाच:
निवसामि मनुष्येन्द्रे सदैव वलसूदन ||
२४ ख
श्रीरु उवाच:
धर्मनित्ये महावुद्धौ व्रह्मण्ये सत्यवादिनि |
२५ क
श्रीरु उवाच:
प्रश्रिते दानशीले च सदैव निवसाम्यहम् ||
२५ ख
श्रीरु उवाच:
असुरेष्ववसं पूर्वं सत्यधर्मनिवन्धना |
२६ क
श्रीरु उवाच:
विपरीतांस्तु तान्वुद्ध्वा त्वय़ि वासमरोचय़म् ||
२६ ख
शक्र उवाच:
कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने |
२७ क
शक्र उवाच:
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेय़दानवान् ||
२७ ख
श्रीरु उवाच:
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च |
२८ क
श्रीरु उवाच:
स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम् ||
२८ ख
श्रीरु उवाच:
दानाध्ययनय़ज्ञेज्या गुरुदैवतपूजनम् |
२९ क
श्रीरु उवाच:
विप्राणामतिथीनां च तेषां नित्यमवर्तत ||
२९ ख
श्रीरु उवाच:
सुसंमृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नय़ः |
३० क
श्रीरु उवाच:
गुरुशुश्रूषवो दान्ता व्रह्मण्याः सत्यवादिनः ||
३० ख
श्रीरु उवाच:
श्रद्दधाना जितक्रोधा दानशीलानसूय़काः |
३१ क
श्रीरु उवाच:
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः ||
३१ ख
श्रीरु उवाच:
अमर्षणा न चान्योन्यं स्पृहय़न्ति कदाचन |
३२ क
श्रीरु उवाच:
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ||
३२ ख
श्रीरु उवाच:
दातारः सङ्गृहीतार आर्याः करुणवेदिनः |
३३ क
श्रीरु उवाच:
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रिय़ाः ||
३३ ख
श्रीरु उवाच:
सन्तुष्टभृत्यसचिवाः कृतज्ञाः प्रिय़वादिनः |
३४ क
श्रीरु उवाच:
यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः ||
३४ ख
श्रीरु उवाच:
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलङ्कृताः |
३५ क
श्रीरु उवाच:
उपवासतपःशीलाः प्रतीता व्रह्मवादिनः ||
३५ ख
श्रीरु उवाच:
नैनानभ्युदिय़ात्सूर्यो न चाप्यासन्प्रगेनिशाः |
३६ क
श्रीरु उवाच:
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जय़न् ||
३६ ख
श्रीरु उवाच:
काल्यं घृतं चान्ववेक्षन्प्रय़ता व्रह्मचारिणः |
३७ क
श्रीरु उवाच:
मङ्गलानपि चापश्यन्व्राह्मणांश्चाप्यपूजय़न् ||
३७ ख
श्रीरु उवाच:
सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम् |
३८ क
श्रीरु उवाच:
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा ||
३८ ख
श्रीरु उवाच:
कृपणानाथवृद्धानां दुर्वलातुरय़ोषिताम् |
३९ क
श्रीरु उवाच:
दाय़ं च संविभागं च नित्यमेवानुमोदताम् ||
३९ ख
श्रीरु उवाच:
विषण्णं त्रस्तमुद्विग्नं भय़ार्तं व्याधिपीडितम् |
४० क
श्रीरु उवाच:
हृतस्वं व्यसनार्तं च नित्यमाश्वासय़न्ति ते ||
४० ख
श्रीरु उवाच:
धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम् |
४१ क
श्रीरु उवाच:
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः ||
४१ ख
श्रीरु उवाच:
पितृदेवातिथींश्चैव यथावत्तेऽभ्यपूजय़न् |
४२ क
श्रीरु उवाच:
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः ||
४२ ख
श्रीरु उवाच:
नैकेऽश्नन्ति सुसम्पन्नं न गच्छन्ति परस्त्रिय़म् |
४३ क
श्रीरु उवाच:
सर्वभूतेष्ववर्तन्त यथात्मनि दय़ां प्रति ||
४३ ख
श्रीरु उवाच:
नैवाकाशे न पशुषु नाय़ोनौ न च पर्वसु |
४४ क
श्रीरु उवाच:
इन्द्रिय़स्य विसर्गं तेऽरोचय़न्त कदाचन ||
४४ ख
श्रीरु उवाच:
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा |
४५ क
श्रीरु उवाच:
उत्साहश्चानहङ्कारः परमं सौहृदं क्षमा ||
४५ ख
श्रीरु उवाच:
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा |
४६ क
श्रीरु उवाच:
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो ||
४६ ख
श्रीरु उवाच:
निद्रा तन्द्रीरसम्प्रीतिरसूय़ा चानवेक्षिता |
४७ क
श्रीरु उवाच:
अरतिश्च विषादश्च न स्पृहा चाविशन्त तान् ||
४७ ख
श्रीरु उवाच:
साहमेवङ्गुणेष्वेव दानवेष्ववसं पुरा |
४८ क
श्रीरु उवाच:
प्रजासर्गमुपादाय़ नैकं युगविपर्ययम् ||
४८ ख
श्रीरु उवाच:
ततः कालविपर्यासे तेषां गुणविपर्ययात् |
४९ क
श्रीरु उवाच:
अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम् ||
४९ ख