वैशम्पाय़न उवाच:
एतदासीत्तदा राज्ञो यन्महीं पर्यपालय़त् |
४९ क
वैशम्पाय़न उवाच:
येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च ||
४९ ख
वैशम्पाय़न उवाच:
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः |
५० क
वैशम्पाय़न उवाच:
आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ||
५० ख
वैशम्पाय़न उवाच:
सर्वं राज्ञः समुदय़माय़ं च व्ययमेव च |
५१ क
वैशम्पाय़न उवाच:
एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् ||
५१ ख
वैशम्पाय़न उवाच:
मय़ि सर्वं समासज्य कुटुम्वं भरतर्षभाः |
५२ क
वैशम्पाय़न उवाच:
उपासनरताः सर्वे घटन्ते स्म शुभानने ||
५२ ख
वैशम्पाय़न उवाच:
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः |
५३ क
वैशम्पाय़न उवाच:
सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै ||
५३ ख
वैशम्पाय़न उवाच:
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् |
५४ क
वैशम्पाय़न उवाच:
एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ||
५४ ख
वैशम्पाय़न उवाच:
अनिशाय़ां निशाय़ां च सहाय़ाः क्षुत्पिपासय़ोः |
५५ क
वैशम्पाय़न उवाच:
आराधय़न्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ||
५५ ख
वैशम्पाय़न उवाच:
प्रथमं प्रतिवुध्यामि चरमं संविशामि च |
५६ क
वैशम्पाय़न उवाच:
नित्यकालमहं सत्ये एतत्संवननं मम ||
५६ ख
वैशम्पाय़न उवाच:
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् |
५७ क
वैशम्पाय़न उवाच:
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामय़े ||
५७ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णय़ा तदा |
५८ क
वैशम्पाय़न उवाच:
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् ||
५८ ख
वैशम्पाय़न उवाच:
अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे |
५९ क
वैशम्पाय़न उवाच:
कामकारः सखीनां हि सोपहासं प्रभाषितुम् ||
५९ ख