chevron_left आदि पर्व अध्याय २२२
जरितो उवाच:
अस्माद्विलान्निष्पतितं श्येन आखुं जहार तम् |
१ क
जरितो उवाच:
क्षुद्रं गृहीत्वा पादाभ्यां भय़ं न भविता ततः ||
१ ख
शार्ङ्गका ऊचुः:
न हृतं तं वय़ं विद्मः श्येनेनाखुं कथञ्चन |
२ क
शार्ङ्गका ऊचुः:
अन्येऽपि भवितारोऽत्र तेभ्योऽपि भय़मेव नः ||
२ ख
शार्ङ्गका ऊचुः:
संशय़ो ह्यग्निरागच्छेद्दृष्टं वाय़ोर्निवर्तनम् |
३ क
शार्ङ्गका ऊचुः:
मृत्युर्नो विलवासिभ्यो भवेन्मातरसंशय़म् ||
३ ख
शार्ङ्गका ऊचुः:
निःसंशय़ात्संशय़ितो मृत्युर्मातर्विशिष्यते |
४ क
शार्ङ्गका ऊचुः:
चर खे त्वं यथान्याय़ं पुत्रान्वेत्स्यसि शोभनान् ||
४ ख
जरितो उवाच:
अहं वै श्येनमाय़ान्तमद्राक्षं विलमन्तिकात् |
५ क
जरितो उवाच:
सञ्चरन्तं समादाय़ जहाराखुं विलाद्वली ||
५ ख
जरितो उवाच:
तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् |
६ क
जरितो उवाच:
आशिषोऽस्य प्रय़ुञ्जाना हरतो मूषकं विलात् ||
६ ख
जरितो उवाच:
यो नो द्वेष्टारमादाय़ श्येनराज प्रधावसि |
७ क
जरितो उवाच:
भव त्वं दिवमास्थाय़ निरमित्रो हिरण्मय़ः ||
७ ख
जरितो उवाच:
यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा |
८ क
जरितो उवाच:
तदाहं तमनुज्ञाप्य प्रत्युपाय़ां गृहान्प्रति ||
८ ख
जरितो उवाच:
प्रविशध्वं विलं पुत्रा विश्रव्धा नास्ति वो भय़म् |
९ क
जरितो उवाच:
श्येनेन मम पश्यन्त्या हृत आखुर्न संशय़ः ||
९ ख
शार्ङ्गका ऊचुः:
न विद्म वै वय़ं मातर्हृतमाखुमितः पुरा |
१० क
शार्ङ्गका ऊचुः:
अविज्ञाय़ न शक्ष्यामो विलमाविशतुं वय़म् ||
१० ख
जरितो उवाच:
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् |
११ क
जरितो उवाच:
अत एव भय़ं नास्ति क्रिय़तां वचनं मम ||
११ ख
शार्ङ्गका ऊचुः:
न त्वं मिथ्योपचारेण मोक्षय़ेथा भय़ं महत् |
१२ क
शार्ङ्गका ऊचुः:
समाकुलेषु ज्ञानेषु न वुद्धिकृतमेव तत् ||
१२ ख
शार्ङ्गका ऊचुः:
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वय़म् |
१३ क
शार्ङ्गका ऊचुः:
पीड्यमाना भरस्यस्मान्का सती के वय़ं तव ||
१३ ख
शार्ङ्गका ऊचुः:
तरुणी दर्शनीय़ासि समर्था भर्तुरेषणे |
१४ क
शार्ङ्गका ऊचुः:
अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ||
१४ ख
शार्ङ्गका ऊचुः:
वय़मप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् |
१५ क
शार्ङ्गका ऊचुः:
अथास्मान्न दहेदग्निराय़ास्त्वं पुनरेव नः ||
१५ ख
वैशम्पाय़न उवाच:
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे |
१६ क
वैशम्पाय़न उवाच:
जगाम त्वरिता देशं क्षेममग्नेरनाश्रय़म् ||
१६ ख
वैशम्पाय़न उवाच:
ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः |
१७ क
वैशम्पाय़न उवाच:
यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः ||
१७ ख
वैशम्पाय़न उवाच:
ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा |
१८ क
वैशम्पाय़न उवाच:
जरितारिस्ततो वाचं श्रावय़ामास पावकम् ||
१८ ख