युधिष्ठिर उवाच:
किंशीलः किंसमाचारः किंविद्यः किम्पराय़णः |
१ क
युधिष्ठिर उवाच:
प्राप्नोति व्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ||
१ ख
भीष्म उवाच:
मोक्षधर्मेषु निय़तो लघ्वाहारो जितेन्द्रिय़ः |
२ क
भीष्म उवाच:
प्राप्नोति व्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ||
२ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
३ क
भीष्म उवाच:
जैगीषव्यस्य संवादमसितस्य च भारत ||
३ ख
भीष्म उवाच:
जैगीषव्यं महाप्राज्ञं धर्माणामागतागमम् |
४ क
भीष्म उवाच:
अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽव्रवीत् ||
४ ख
भीष्म उवाच:
न प्रीय़से वन्द्यमानो निन्द्यमानो न कुप्यसि |
५ क
भीष्म उवाच:
का ते प्रज्ञा कुतश्चैषा किं चैतस्याः पराय़णम् ||
५ ख
भीष्म उवाच:
इति तेनानुय़ुक्तः स तमुवाच महातपाः |
६ क
भीष्म उवाच:
महद्वाक्यमसन्दिग्धं पुष्कलार्थपदं शुचि ||
६ ख
भीष्म उवाच:
या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम् |
७ क
भीष्म उवाच:
तां तेऽहं सम्प्रवक्ष्यामि यन्मां पृच्छसि वै द्विज ||
७ ख
भीष्म उवाच:
निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल |
८ क
भीष्म उवाच:
निह्नुवन्ति च ये तेषां समय़ं सुकृतं च ये ||
८ ख
भीष्म उवाच:
उक्ताश्च न विवक्षन्ति वक्तारमहिते रतम् |
९ क
भीष्म उवाच:
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः ||
९ ख
भीष्म उवाच:
नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते |
१० क
भीष्म उवाच:
न चातीतानि शोचन्ति न चैनान्प्रतिजानते ||
१० ख
भीष्म उवाच:
सम्प्राप्तानां च पूज्यानां कामादर्थेषु देवल |
११ क
भीष्म उवाच:
यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः ||
११ ख
भीष्म उवाच:
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रिय़ाः |
१२ क
भीष्म उवाच:
मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् ||
१२ ख
भीष्म उवाच:
अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन |
१३ क
भीष्म उवाच:
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ||
१३ ख
भीष्म उवाच:
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये |
१४ क
भीष्म उवाच:
न च निन्दाप्रशंसाभ्यां विक्रिय़न्ते कदाचन ||
१४ ख
भीष्म उवाच:
सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः |
१५ क
भीष्म उवाच:
न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित् |
१५ ख
भीष्म उवाच:
विमुच्य हृदय़ग्रन्थींश्चङ्कम्यन्ते यथासुखम् ||
१५ ग
भीष्म उवाच:
न येषां वान्धवाः सन्ति ये चान्येषां न वान्धवाः |
१६ क
भीष्म उवाच:
अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् ||
१६ ख
भीष्म उवाच:
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा |
१७ क
भीष्म उवाच:
धर्ममेवानुवर्तन्ते धर्मज्ञा द्विजसत्तम |
१७ ख
भीष्म उवाच:
ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च ||
१७ ग
भीष्म उवाच:
आस्थितस्तमहं मार्गमसूय़िष्यामि कं कथम् |
१८ क
भीष्म उवाच:
निन्द्यमानः प्रशस्तो वा हृष्येय़ं केन हेतुना ||
१८ ख
भीष्म उवाच:
यद्यदिच्छन्ति तन्मार्गमभिगच्छन्ति मानवाः |
१९ क
भीष्म उवाच:
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः ||
१९ ख
भीष्म उवाच:
अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् |
२० क
भीष्म उवाच:
विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः ||
२० ख
भीष्म उवाच:
अवज्ञातः सुखं शेते इह चामुत्र चोभय़ोः |
२१ क
भीष्म उवाच:
विमुक्तः सर्वपापेभ्यो योऽवमन्ता स वध्यते ||
२१ ख
भीष्म उवाच:
परां गतिं च ये केचित्प्रार्थय़न्ति मनीषिणः |
२२ क
भीष्म उवाच:
एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः ||
२२ ख
भीष्म उवाच:
सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रिय़ः |
२३ क
भीष्म उवाच:
प्राप्नोति व्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ||
२३ ख
भीष्म उवाच:
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः |
२४ क
भीष्म उवाच:
पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम् ||
२४ ख