जरितारिरु उवाच:
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः |
१ क
जरितारिरु उवाच:
स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ||
१ ख
जरितारिरु उवाच:
यस्तु कृच्छ्रमसम्प्राप्तं विचेता नाववुध्यते |
२ क
जरितारिरु उवाच:
स कृच्छ्रकाले व्यथितो न प्रजानाति किञ्चन ||
२ ख
सारिसृक्व उवाच:
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः |
३ क
सारिसृक्व उवाच:
शूरः प्राज्ञो वहूनां हि भवत्येको न संशय़ः ||
३ ख
स्तम्वमित्र उवाच:
ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः |
४ क
स्तम्वमित्र उवाच:
ज्येष्ठश्चेन्न प्रजानाति कनीय़ान्किं करिष्यति ||
४ ख
द्रोण उवाच:
हिरण्यरेतास्त्वरितो ज्वलन्नाय़ाति नः क्षय़म् |
५ क
द्रोण उवाच:
सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ||
५ ख
वैशम्पाय़न उवाच:
एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् |
६ क
वैशम्पाय़न उवाच:
तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ||
६ ख
जरितारिरु उवाच:
आत्मासि वाय़ोः पवनः शरीरमुत वीरुधाम् |
७ क
जरितारिरु उवाच:
योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ||
७ ख
जरितारिरु उवाच:
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः |
८ क
जरितारिरु उवाच:
अर्चिषस्ते महावीर्य रश्मय़ः सवितुर्यथा ||
८ ख
सारिसृक्व उवाच:
माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताव्जकेतो |
९ क
सारिसृक्व उवाच:
न नस्त्राता विद्यतेऽग्ने त्वदन्य; स्तस्माद्धि नः परिरक्षैकवीर ||
९ ख
सारिसृक्व उवाच:
यदग्ने ते शिवं रूपं ये च ते सप्त हेतय़ः |
१० क
सारिसृक्व उवाच:
तेन नः परिरक्षाद्य ईडितः शरणैषिणः ||
१० ख
सारिसृक्व उवाच:
त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव |
११ क
सारिसृक्व उवाच:
ऋषीनस्मान्वालकान्पालय़स्व; परेणास्मान्प्रैहि वै हव्यवाह ||
११ ख
स्तम्वमित्र उवाच:
सर्वमग्ने त्वमेवैकस्त्वय़ि सर्वमिदं जगत् |
१२ क
स्तम्वमित्र उवाच:
त्वं धारय़सि भूतानि भुवनं त्वं विभर्षि च ||
१२ ख
स्तम्वमित्र उवाच:
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः |
१३ क
स्तम्वमित्र उवाच:
मनीषिणस्त्वां यजन्ते वहुधा चैकधैव च ||
१३ ख
स्तम्वमित्र उवाच:
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः |
१४ क
स्तम्वमित्र उवाच:
सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ||
१४ ख
स्तम्वमित्र उवाच:
त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते |
१५ क
स्तम्वमित्र उवाच:
नित्यं प्रवृद्धः पचसि त्वय़ि सर्वं प्रतिष्ठितम् ||
१५ ख
द्रोण उवाच:
सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च |
१६ क
द्रोण उवाच:
विश्वानादाय़ पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावय़सीह शुक्र ||
१६ ख
द्रोण उवाच:
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः |
१७ क
द्रोण उवाच:
जाय़न्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ||
१७ ख
द्रोण उवाच:
इदं वै सद्म तिग्मांशो वरुणस्य पराय़णम् |
१८ क
द्रोण उवाच:
शिवस्त्राता भवास्माकं मास्मानद्य विनाशय़ ||
१८ ख
द्रोण उवाच:
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन |
१९ क
द्रोण उवाच:
परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ||
१९ ख
वैशम्पाय़न उवाच:
एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा |
२० क
वैशम्पाय़न उवाच:
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञय़ा ||
२० ख
वैशम्पाय़न उवाच:
ऋषिर्द्रोणस्त्वमसि वै व्रह्मैतद्व्याहृतं त्वय़ा |
२१ क
वैशम्पाय़न उवाच:
ईप्सितं ते करिष्यामि न च ते विद्यते भय़म् ||
२१ ख
वैशम्पाय़न उवाच:
मन्दपालेन यूय़ं हि मम पूर्वं निवेदिताः |
२२ क
वैशम्पाय़न उवाच:
वर्जय़ेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ||
२२ ख
वैशम्पाय़न उवाच:
यच्च तद्वचनं तस्य त्वय़ा यच्चेह भाषितम् |
२३ क
वैशम्पाय़न उवाच:
उभय़ं मे गरीय़स्तद्व्रूहि किं करवाणि ते |
२३ ख
वैशम्पाय़न उवाच:
भृशं प्रीतोऽस्मि भद्रं ते व्रह्मन्स्तोत्रेण ते विभो ||
२३ ग
द्रोण उवाच:
इमे मार्जारकाः शुक्र नित्यमुद्वेजय़न्ति नः |
२४ क
द्रोण उवाच:
एतान्कुरुष्व दंष्ट्रासु हव्यवाह सवान्धवान् ||
२४ ख
वैशम्पाय़न उवाच:
तथा तत्कृतवान्वह्निरभ्यनुज्ञाय़ शार्ङ्गकान् |
२५ क
वैशम्पाय़न उवाच:
ददाह खाण्डवं चैव समिद्धो जनमेजय़ ||
२५ ख