युधिष्ठिर उवाच:
प्रिय़ः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता |
१ क
युधिष्ठिर उवाच:
गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः ||
१ ख
भीष्म उवाच:
अत्र ते वर्तय़िष्यामि पृच्छतो भरतर्षभ |
२ क
भीष्म उवाच:
उग्रसेनस्य संवादं नारदे केशवस्य च ||
२ ख
उग्रसेन उवाच:
पश्य सङ्कल्पते लोको नारदस्य प्रकीर्तने |
३ क
उग्रसेन उवाच:
मन्ये स गुणसम्पन्नो व्रूहि तन्मम पृच्छतः ||
३ ख
वासुदेव उवाच:
कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः |
४ क
वासुदेव उवाच:
नारदस्य गुणान्साधून्सङ्क्षेपेण नराधिप ||
४ ख
वासुदेव उवाच:
न चारित्रनिमित्तोऽस्याहङ्कारो देहपातनः |
५ क
वासुदेव उवाच:
अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः ||
५ ख
वासुदेव उवाच:
तपस्वी नारदो वाढं वाचि नास्य व्यतिक्रमः |
६ क
वासुदेव उवाच:
कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः ||
६ ख
वासुदेव उवाच:
अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रिय़ः |
७ क
वासुदेव उवाच:
ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः ||
७ ख
वासुदेव उवाच:
तेजसा यशसा वुद्ध्या नय़ेन विनय़ेन च |
८ क
वासुदेव उवाच:
जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः ||
८ ख
वासुदेव उवाच:
सुखशीलः सुसम्भोगः सुभोज्यः स्वादरः शुचिः |
९ क
वासुदेव उवाच:
सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः ||
९ ख
वासुदेव उवाच:
कल्यानं कुरुते वाढं पापमस्मिन्न विद्यते |
१० क
वासुदेव उवाच:
न प्रीय़ते परानर्थैस्तस्मात्सर्वत्र पूजितः ||
१० ख
वासुदेव उवाच:
वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते |
११ क
वासुदेव उवाच:
तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः ||
११ ख
वासुदेव उवाच:
समत्वाद्धि प्रिय़ो नास्ति नाप्रिय़श्च कथञ्चन |
१२ क
वासुदेव उवाच:
मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः ||
१२ ख
वासुदेव उवाच:
वहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः |
१३ क
वासुदेव उवाच:
अदीनोऽक्रोधनोऽलुव्धस्तस्मात्सर्वत्र पूजितः ||
१३ ख
वासुदेव उवाच:
नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः |
१४ क
वासुदेव उवाच:
दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः ||
१४ ख
वासुदेव उवाच:
दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान् |
१५ क
वासुदेव उवाच:
वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः ||
१५ ख
वासुदेव उवाच:
असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते |
१६ क
वासुदेव उवाच:
अदीर्घसंशय़ो वाग्मी तस्मात्सर्वत्र पूजितः ||
१६ ख
वासुदेव उवाच:
समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित् |
१७ क
वासुदेव उवाच:
अनीर्ष्युर्दृढसम्भाषस्तस्मात्सर्वत्र पूजितः ||
१७ ख
वासुदेव उवाच:
लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सय़न् |
१८ क
वासुदेव उवाच:
संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः ||
१८ ख
वासुदेव उवाच:
नासूय़त्यागमं कञ्चित्स्वं तपो नोपजीवति |
१९ क
वासुदेव उवाच:
अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः ||
१९ ख
वासुदेव उवाच:
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः |
२० क
वासुदेव उवाच:
निय़मस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः ||
२० ख
वासुदेव उवाच:
सापत्रपश्च युक्तश्च सुनेय़ः श्रेय़से परैः |
२१ क
वासुदेव उवाच:
अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः ||
२१ ख
वासुदेव उवाच:
न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि |
२२ क
वासुदेव उवाच:
स्थिरवुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः ||
२२ ख
वासुदेव उवाच:
तं सर्वगुणसम्पन्नं दक्षं शुचिमकातरम् |
२३ क
वासुदेव उवाच:
कालज्ञं च नय़ज्ञं च कः प्रिय़ं न करिष्यति ||
२३ ख