chevron_left द्रोण पर्व अध्याय १३८
सञ्जय़ उवाच:
वर्तमाने तथा युद्धे घोररूपे भय़ावहे |
१ क
सञ्जय़ उवाच:
तमसा संवृते लोके रजसा च महीपते |
१ ख
सञ्जय़ उवाच:
नापश्यन्त रणे योधाः परस्परमवस्थिताः ||
१ ग
सञ्जय़ उवाच:
अनुमानेन सञ्ज्ञाभिर्युद्धं तद्ववृते महत् |
२ क
सञ्जय़ उवाच:
नरनागाश्वमथनं परमं लोमहर्षणम् ||
२ ख
सञ्जय़ उवाच:
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः |
३ क
सञ्जय़ उवाच:
अन्योन्यं क्षोभय़ामासुः सैन्यानि नृपसत्तम ||
३ ख
सञ्जय़ उवाच:
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः |
४ क
सञ्जय़ उवाच:
तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः ||
४ ख
सञ्जय़ उवाच:
ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः |
५ क
सञ्जय़ उवाच:
अहन्यन्त महाराज धावमानाश्च संय़ुगे ||
५ ख
सञ्जय़ उवाच:
महारथसहस्राणि जघ्नुरन्योन्यमाहवे |
६ क
सञ्जय़ उवाच:
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते ||
६ ख
सञ्जय़ उवाच:
ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत |
७ क
सञ्जय़ उवाच:
व्यमुह्यन्त रणे तत्र तमसा संवृते सति ||
७ ख
धृतराष्ट्र उवाच:
तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् |
८ क
धृतराष्ट्र उवाच:
अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा ||
८ ख
धृतराष्ट्र उवाच:
कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः |
९ क
धृतराष्ट्र उवाच:
वभूव लोके तमसा तथा सञ्जय़ संवृते ||
९ ख
सञ्जय़ उवाच:
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै |
१० क
सञ्जय़ उवाच:
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पय़त् ||
१० ख
सञ्जय़ उवाच:
द्रोणः पुरस्ताज्जघने तु शल्य; स्तथा द्रौणिः पार्श्वतः सौवलश्च |
११ क
सञ्जय़ उवाच:
स्वय़ं तु सर्वाणि वलानि राज; न्राजाभ्ययाद्गोपय़न्वै निशाय़ाम् ||
११ ख
सञ्जय़ उवाच:
उवाच सर्वांश्च पदातिसङ्घा; न्दुर्योधनः पार्थिव सान्त्वपूर्वम् |
१२ क
सञ्जय़ उवाच:
उत्सृज्य सर्वे परमाय़ुधानि; गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ||
१२ ख
सञ्जय़ उवाच:
ते चोदिताः पार्थिवसत्तमेन; ततः प्रहृष्टा जगृहुः प्रदीपान् |
१३ क
सञ्जय़ उवाच:
सा भूय़ एव ध्वजिनी विभक्ता; व्यरोचताग्निप्रभय़ा निशाय़ाम् ||
१३ ख
सञ्जय़ उवाच:
महाधनैराभरणैश्च दिव्यैः; शस्त्रैः प्रदीप्तैरभिसम्पतद्भिः |
१४ क
सञ्जय़ उवाच:
क्षणेन सर्वे विहिताः प्रदीपा; व्यदीपय़ंश्च ध्वजिनीं तदाशु ||
१४ ख
सञ्जय़ उवाच:
सर्वास्तु सेना व्यतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः |
१५ क
सञ्जय़ उवाच:
प्रकाश्यमाना ददृशुर्निशाय़ां; यथान्तरिक्षे जलदास्तडिद्भिः ||
१५ ख
सञ्जय़ उवाच:
प्रकाशिताय़ां तु तथा ध्वजिन्यां; द्रोणोऽग्निकल्पः प्रतपन्समन्तात् |
१६ क
सञ्जय़ उवाच:
रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली ||
१६ ख
सञ्जय़ उवाच:
जाम्वूनदेष्वाभरणेषु चैव; निष्केषु शुद्धेषु शरावरेषु |
१७ क
सञ्जय़ उवाच:
पीतेषु शस्त्रेषु च पावकस्य; प्रतिप्रभास्तत्र ततो वभूवुः ||
१७ ख
सञ्जय़ उवाच:
गदाश्च शैक्याः परिघाश्च शुभ्रा; रथेषु शक्त्यश्च विवर्तमानाः |
१८ क
सञ्जय़ उवाच:
प्रतिप्रभा रश्मिभिराजमीढ; पुनः पुनः सञ्जनय़न्ति दीप्ताः ||
१८ ख
सञ्जय़ उवाच:
छत्राणि वालव्यजनानुषङ्गा; दीप्ता महोल्काश्च तथैव राजन् |
१९ क
सञ्जय़ उवाच:
व्याघूर्णमानाश्च सुवर्णमाला; व्याय़च्छतां तत्र तदा विरेजुः ||
१९ ख
सञ्जय़ उवाच:
शस्त्रप्रभाभिश्च विराजमानं; दीपप्रभाभिश्च तदा वलं तत् |
२० क
सञ्जय़ उवाच:
प्रकाशितं चाभरणप्रभाभि; र्भृशं प्रकाशं नृपते वभूव ||
२० ख
सञ्जय़ उवाच:
पीतानि शस्त्राण्यसृगुक्षितानि; वीरावधूतानि तनुद्रुहाणि |
२१ क
सञ्जय़ उवाच:
दीप्तां प्रभां प्राजनय़न्त तत्र; तपात्यये विद्युदिवान्तरिक्षे ||
२१ ख
सञ्जय़ उवाच:
प्रकम्पितानामभिघातवेगै; रभिघ्नतां चापततां जवेन |
२२ क
सञ्जय़ उवाच:
वक्त्राण्यशोभन्त तदा नराणां; वाय़्वीरितानीव महाम्वुजानि ||
२२ ख
सञ्जय़ उवाच:
महावने दाव इव प्रदीप्ते; यथा प्रभा भास्करस्यापि नश्येत् |
२३ क
सञ्जय़ उवाच:
तथा तवासीद्ध्वजिनी प्रदीप्ता; महाभय़े भारत भीमरूपा ||
२३ ख
सञ्जय़ उवाच:
तत्सम्प्रदीप्तं वलमस्मदीय़ं; निशाम्य पार्थास्त्वरितास्तथैव |
२४ क
सञ्जय़ उवाच:
सर्वेषु सैन्येषु पदातिसङ्घा; नचोदय़ंस्तेऽथ चक्रुः प्रदीपान् ||
२४ ख
सञ्जय़ उवाच:
गजे गजे सप्त कृताः प्रदीपा; रथे रथे चैव दश प्रदीपाः |
२५ क
सञ्जय़ उवाच:
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये; ध्वजेषु चान्ये जघनेषु चान्ये ||
२५ ख
सञ्जय़ उवाच:
सेनासु सर्वासु च पार्श्वतोऽन्ये; पश्चात्पुरस्ताच्च समन्ततश्च |
२६ क
सञ्जय़ उवाच:
मध्ये तथान्ये ज्वलिताग्निहस्ताः; सेनाद्वय़ेऽपि स्म नरा विचेरुः ||
२६ ख
सञ्जय़ उवाच:
सर्वेषु सैन्येषु पदातिसङ्घा; व्यामिश्रिता हस्तिरथाश्ववृन्दैः |
२७ क
सञ्जय़ उवाच:
मध्ये तथान्ये ज्वलिताग्निहस्ता; व्यदीपय़न्पाण्डुसुतस्य सेनाम् ||
२७ ख
सञ्जय़ उवाच:
तेन प्रदीप्तेन तथा प्रदीप्तं; वलं तदासीद्वलवद्वलेन |
२८ क
सञ्जय़ उवाच:
भाः कुर्वता भानुमता ग्रहेण; दिवाकरेणाग्निरिवाभितप्तः ||
२८ ख
सञ्जय़ उवाच:
तय़ोः प्रभाः पृथिवीमन्तरिक्षं; सर्वा व्यतिक्रम्य दिशश्च वृद्धाः |
२९ क
सञ्जय़ उवाच:
तेन प्रकाशेन भृशं प्रकाशं; वभूव तेषां तव चैव सैन्यम् ||
२९ ख
सञ्जय़ उवाच:
तेन प्रकाशेन दिवङ्गमेन; सम्वोधिता देवगणाश्च राजन् |
३० क
सञ्जय़ उवाच:
गन्धर्वय़क्षासुरसिद्धसङ्घाः; समागमन्नप्सरसश्च सर्वाः ||
३० ख
सञ्जय़ उवाच:
तद्देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश्च |
३१ क
सञ्जय़ उवाच:
हतैश्च वीरैर्दिवमारुहद्भि; राय़ोधनं दिव्यकल्पं वभूव ||
३१ ख
सञ्जय़ उवाच:
रथाश्वनागाकुलदीपदीप्तं; संरव्धय़ोधाहतविद्रुताश्वम् |
३२ क
सञ्जय़ उवाच:
महद्वलं व्यूढरथाश्वनागं; सुरासुरव्यूहसमं वभूव ||
३२ ख
सञ्जय़ उवाच:
तच्छक्तिसङ्घाकुलचण्डवातं; महारथाभ्रं रथवाजिघोषम् |
३३ क
सञ्जय़ उवाच:
शस्त्रौघवर्षं रुधिराम्वुधारं; निशि प्रवृत्तं नरदेवय़ुद्धम् ||
३३ ख
सञ्जय़ उवाच:
तस्मिन्महाग्निप्रतिमो महात्मा; सन्तापय़न्पाण्डवान्विप्रमुख्यः |
३४ क
सञ्जय़ उवाच:
गभस्तिभिर्मध्यगतो यथार्को; वर्षात्यये तद्वदभून्नरेन्द्र ||
३४ ख