वैशम्पाय़न उवाच:
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् |
१ क
वैशम्पाय़न उवाच:
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् ||
१ ख
वैशम्पाय़न उवाच:
विप्रकीर्णधनुर्वाणं दृष्ट्वा निहतमर्जुनम् |
२ क
वैशम्पाय़न उवाच:
भीमसेनं यमौ चोभौ निर्विचेष्टान्गताय़ुषः ||
२ ख
वैशम्पाय़न उवाच:
स दीर्घमुष्णं निःश्वस्य शोकवाष्पपरिप्लुतः |
३ क
वैशम्पाय़न उवाच:
वुद्ध्या विचिन्तय़ामास वीराः केन निपातिताः ||
३ ख
वैशम्पाय़न उवाच:
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् |
४ क
वैशम्पाय़न उवाच:
भूतं महदिदं मन्ये भ्रातरो येन मे हताः |
४ ख
वैशम्पाय़न उवाच:
एकाग्रं चिन्तय़िष्यामि पीत्वा वेत्स्यामि वा जलम् ||
४ ग
वैशम्पाय़न उवाच:
स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् |
५ क
वैशम्पाय़न उवाच:
गान्धारराजरचितं सततं जिह्मवुद्धिना ||
५ ख
वैशम्पाय़न उवाच:
यस्य कार्यमकार्यं वा सममेव भवत्युत |
६ क
वैशम्पाय़न उवाच:
कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ||
६ ख
वैशम्पाय़न उवाच:
अथ वा पुरुषैर्गूढैः प्रय़ोगोऽय़ं दुरात्मनः |
७ क
वैशम्पाय़न उवाच:
भवेदिति महावाहुर्वहुधा समचिन्तय़त् ||
७ ख
वैशम्पाय़न उवाच:
तस्यासीन्न विषेणेदमुदकं दूषितं यथा |
८ क
वैशम्पाय़न उवाच:
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तय़त् ||
८ ख
वैशम्पाय़न उवाच:
एकैकशश्चौघवलानिमान्पुरुषसत्तमान् |
९ क
वैशम्पाय़न उवाच:
कोऽन्यः प्रतिसमासेत कालान्तकय़मादृते ||
९ ख
वैशम्पाय़न उवाच:
एतेनाध्यवसाय़ेन तत्तोय़मवगाढवान् |
१० क
वैशम्पाय़न उवाच:
गाहमानश्च तत्तोय़मन्तरिक्षात्स शुश्रुवे ||
१० ख
यक्ष उवाच:
अहं वकः शैवलमत्स्यभक्षो; मय़ा नीताः प्रेतवशं तवानुजाः |
११ क
यक्ष उवाच:
त्वं पञ्चमो भविता राजपुत्र; न चेत्प्रश्नान्पृच्छतो व्याकरोषि ||
११ ख
यक्ष उवाच:
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |
१२ क
यक्ष उवाच:
प्रश्नानुक्त्वा तु कौन्तेय़ ततः पिव हरस्व च ||
१२ ख
युधिष्ठिर उवाच:
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् |
१३ क
युधिष्ठिर उवाच:
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ||
१३ ख
युधिष्ठिर उवाच:
हिमवान्पारिय़ात्रश्च विन्ध्यो मलय़ एव च |
१४ क
युधिष्ठिर उवाच:
चत्वारः पर्वताः केन पातिता भुवि तेजसा ||
१४ ख
युधिष्ठिर उवाच:
अतीव ते महत्कर्म कृतं वलवतां वर |
१५ क
युधिष्ठिर उवाच:
यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः |
१५ ख
युधिष्ठिर उवाच:
विषहेरन्महाय़ुद्धे कृतं ते तन्महाद्भुतम् ||
१५ ग
युधिष्ठिर उवाच:
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् |
१६ क
युधिष्ठिर उवाच:
कौतूहलं महज्जातं साध्वसं चागतं मम ||
१६ ख
युधिष्ठिर उवाच:
येनास्म्युद्विग्नहृदय़ः समुत्पन्नशिरोज्वरः |
१७ क
युधिष्ठिर उवाच:
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ||
१७ ख
यक्ष उवाच:
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः |
१८ क
यक्ष उवाच:
मय़ैते निहताः सर्वे भ्रातरस्ते महौजसः ||
१८ ख
वैशम्पाय़न उवाच:
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् |
१९ क
वैशम्पाय़न उवाच:
यक्षस्य व्रुवतो राजन्नुपक्रम्य तदा स्थितः ||
१९ ख
वैशम्पाय़न उवाच:
विरूपाक्षं महाकाय़ं यक्षं तालसमुच्छ्रय़म् |
२० क
वैशम्पाय़न उवाच:
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ||
२० ख
वैशम्पाय़न उवाच:
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः |
२१ क
वैशम्पाय़न उवाच:
मेघगम्भीरय़ा वाचा तर्जय़न्तं महावलम् ||
२१ ख
यक्ष उवाच:
इमे ते भ्रातरो राजन्वार्यमाणा मय़ासकृत् |
२२ क
यक्ष उवाच:
वलात्तोय़ं जिहीर्षन्तस्ततो वै सूदिता मय़ा ||
२२ ख
यक्ष उवाच:
न पेय़मुदकं राजन्प्राणानिह परीप्सता |
२३ क
यक्ष उवाच:
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः |
२३ ख
यक्ष उवाच:
प्रश्नानुक्त्वा तु कौन्तेय़ ततः पिव हरस्व च ||
२३ ग
युधिष्ठिर उवाच:
नैवाहं कामय़े यक्ष तव पूर्वपरिग्रहम् |
२४ क
युधिष्ठिर उवाच:
कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ||
२४ ख
युधिष्ठिर उवाच:
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो |
२५ क
युधिष्ठिर उवाच:
यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ||
२५ ख
यक्ष उवाच:
किं स्विदादित्यमुन्नय़ति के च तस्याभितश्चराः |
२६ क
यक्ष उवाच:
कश्चैनमस्तं नय़ति कस्मिंश्च प्रतितिष्ठति ||
२६ ख
युधिष्ठिर उवाच:
व्रह्मादित्यमुन्नय़ति देवास्तस्याभितश्चराः |
२७ क
युधिष्ठिर उवाच:
धर्मश्चास्तं नय़ति च सत्ये च प्रतितिष्ठति ||
२७ ख
यक्ष उवाच:
केन स्विच्छ्रोत्रिय़ो भवति केन स्विद्विन्दते महत् |
२८ क
यक्ष उवाच:
केन द्वितीय़वान्भवति राजन्केन च वुद्धिमान् ||
२८ ख
युधिष्ठिर उवाच:
श्रुतेन श्रोत्रिय़ो भवति तपसा विन्दते महत् |
२९ क
युधिष्ठिर उवाच:
धृत्या द्वितीय़वान्भवति वुद्धिमान्वृद्धसेवय़ा ||
२९ ख
यक्ष उवाच:
किं व्राह्मणानां देवत्वं कश्च धर्मः सतामिव |
३० क
यक्ष उवाच:
कश्चैषां मानुषो भावः किमेषामसतामिव ||
३० ख
युधिष्ठिर उवाच:
स्वाध्याय़ एषां देवत्वं तप एषां सतामिव |
३१ क
युधिष्ठिर उवाच:
मरणं मानुषो भावः परिवादोऽसतामिव ||
३१ ख
यक्ष उवाच:
किं क्षत्रिय़ाणां देवत्वं कश्च धर्मः सतामिव |
३२ क
यक्ष उवाच:
कश्चैषां मानुषो भावः किमेषामसतामिव ||
३२ ख
युधिष्ठिर उवाच:
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव |
३३ क
युधिष्ठिर उवाच:
भय़ं वै मानुषो भावः परित्यागोऽसतामिव ||
३३ ख
यक्ष उवाच:
किमेकं यज्ञिय़ं साम किमेकं यज्ञिय़ं यजुः |
३४ क
यक्ष उवाच:
का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ||
३४ ख
युधिष्ठिर उवाच:
प्राणो वै यज्ञिय़ं साम मनो वै यज्ञिय़ं यजुः |
३५ क
युधिष्ठिर उवाच:
वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ||
३५ ख
यक्ष उवाच:
किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् |
३६ क
यक्ष उवाच:
किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ||
३६ ख
युधिष्ठिर उवाच:
वर्षमापततां श्रेष्ठं वीजं निपततां वरम् |
३७ क
युधिष्ठिर उवाच:
गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ||
३७ ख
यक्ष उवाच:
इन्द्रिय़ार्थाननुभवन्वुद्धिमाँल्लोकपूजितः |
३८ क
यक्ष उवाच:
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ||
३८ ख
युधिष्ठिर उवाच:
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः |
३९ क
युधिष्ठिर उवाच:
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ||
३९ ख
यक्ष उवाच:
किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् |
४० क
यक्ष उवाच:
किं स्विच्छीघ्रतरं वाय़ोः किं स्विद्वहुतरं नृणाम् ||
४० ख
युधिष्ठिर उवाच:
माता गुरुतरा भूमेः पिता उच्चतरश्च खात् |
४१ क
युधिष्ठिर उवाच:
मनः शीघ्रतरं वाय़ोश्चिन्ता वहुतरी नृणाम् ||
४१ ख
यक्ष उवाच:
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति |
४२ क
यक्ष उवाच:
कस्य स्विद्धृदय़ं नास्ति किं स्विद्वेगेन वर्धते ||
४२ ख
युधिष्ठिर उवाच:
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति |
४३ क
युधिष्ठिर उवाच:
अश्मनो हृदय़ं नास्ति नदी वेगेन वर्धते ||
४३ ख
यक्ष उवाच:
किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः |
४४ क
यक्ष उवाच:
आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ||
४४ ख
युधिष्ठिर उवाच:
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः |
४५ क
युधिष्ठिर उवाच:
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ||
४५ ख
यक्ष उवाच:
किं स्विदेको विचरति जातः को जाय़ते पुनः |
४६ क
यक्ष उवाच:
किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ||
४६ ख
युधिष्ठिर उवाच:
सूर्य एको विचरति चन्द्रमा जाय़ते पुनः |
४७ क
युधिष्ठिर उवाच:
अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ||
४७ ख
यक्ष उवाच:
किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः |
४८ क
यक्ष उवाच:
किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ||
४८ ख
युधिष्ठिर उवाच:
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः |
४९ क