chevron_left आदि पर्व अध्याय २२५
मन्दपाल उवाच:
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मय़ा |
१ क
मन्दपाल उवाच:
अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ||
१ ख
मन्दपाल उवाच:
अग्नेर्वचनमाज्ञाय़ मातुर्धर्मज्ञतां च वः |
२ क
मन्दपाल उवाच:
युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ||
२ ख
मन्दपाल उवाच:
न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति |
३ क
मन्दपाल उवाच:
ऋषीन्वेद हुताशोऽपि व्रह्म तद्विदितं च वः ||
३ ख
वैशम्पाय़न उवाच:
एवमाश्वास्य पुत्रान्स भार्यां चादाय़ भारत |
४ क
वैशम्पाय़न उवाच:
मन्दपालस्ततो देशादन्यं देशं जगाम ह ||
४ ख
वैशम्पाय़न उवाच:
भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् |
५ क
वैशम्पाय़न उवाच:
ददाह सह कृष्णाभ्यां जनय़ञ्जगतोऽभय़म् ||
५ ख
वैशम्पाय़न उवाच:
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः |
६ क
वैशम्पाय़न उवाच:
अगच्छत्परमां तृप्तिं दर्शय़ामास चार्जुनम् ||
६ ख
वैशम्पाय़न उवाच:
ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः |
७ क
वैशम्पाय़न उवाच:
मरुद्गणवृतः पार्थं माधवं चाव्रवीदिदम् ||
७ ख
वैशम्पाय़न उवाच:
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् |
८ क
वैशम्पाय़न उवाच:
वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ||
८ ख
वैशम्पाय़न उवाच:
पार्थस्तु वरय़ामास शक्रादस्त्राणि सर्वशः |
९ क
वैशम्पाय़न उवाच:
ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ||
९ ख
वैशम्पाय़न उवाच:
यदा प्रसन्नो भगवान्महादेवो भविष्यति |
१० क
वैशम्पाय़न उवाच:
तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ||
१० ख
वैशम्पाय़न उवाच:
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन |
११ क
वैशम्पाय़न उवाच:
तपसा महता चापि दास्यामि तव तान्यहम् ||
११ ख
वैशम्पाय़न उवाच:
आग्नेय़ानि च सर्वाणि वाय़व्यानि तथैव च |
१२ क
वैशम्पाय़न उवाच:
मदीय़ानि च सर्वाणि ग्रहीष्यसि धनञ्जय़ ||
१२ ख
वैशम्पाय़न उवाच:
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् |
१३ क
वैशम्पाय़न उवाच:
ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ||
१३ ख
वैशम्पाय़न उवाच:
दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः |
१४ क
वैशम्पाय़न उवाच:
हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ||
१४ ख
वैशम्पाय़न उवाच:
पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् |
१५ क
वैशम्पाय़न उवाच:
अहानि पञ्च चैकं च विरराम सुतर्पितः ||
१५ ख
वैशम्पाय़न उवाच:
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च |
१६ क
वैशम्पाय़न उवाच:
युक्तः परमय़ा प्रीत्या तावुवाच विशां पते ||
१६ ख
वैशम्पाय़न उवाच:
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् |
१७ क
वैशम्पाय़न उवाच:
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ||
१७ ख
वैशम्पाय़न उवाच:
एवं तौ समनुज्ञातौ पावकेन महात्मना |
१८ क
वैशम्पाय़न उवाच:
अर्जुनो वासुदेवश्च दानवश्च मय़स्तथा ||
१८ ख
वैशम्पाय़न उवाच:
परिक्रम्य ततः सर्वे त्रय़ोऽपि भरतर्षभ |
१९ क
वैशम्पाय़न उवाच:
रमणीय़े नदीकूले सहिताः समुपाविशन् ||
१९ ख