chevron_left शान्ति पर्व अध्याय २२५
व्यास उवाच:
पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च |
१ क
व्यास उवाच:
तान्येवाग्रे प्रलीय़न्ते भूमित्वमुपय़ान्ति च ||
१ ख
व्यास उवाच:
ततः प्रलीने सर्वस्मिन्स्थावरे जङ्गमे तथा |
२ क
व्यास उवाच:
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत् ||
२ ख
व्यास उवाच:
भूमेरपि गुणं गन्धमाप आददते यदा |
३ क
व्यास उवाच:
आत्तगन्धा तदा भूमिः प्रलय़त्वाय़ कल्पते ||
३ ख
व्यास उवाच:
आपस्ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः |
४ क
व्यास उवाच:
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च ||
४ ख
व्यास उवाच:
अपामपि गुणांस्तात ज्योतिराददते यदा |
५ क
व्यास उवाच:
आपस्तदा आत्तगुणा ज्योतिष्युपरमन्ति च ||
५ ख
व्यास उवाच:
यदादित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः |
६ क
व्यास उवाच:
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नभः ||
६ ख
व्यास उवाच:
ज्योतिषोऽपि गुणं रूपं वाय़ुराददते यदा |
७ क
व्यास उवाच:
प्रशाम्यति तदा ज्योतिर्वाय़ुर्दोधूय़ते महान् ||
७ ख
व्यास उवाच:
ततस्तु मूलमासाद्य वाय़ुः सम्भवमात्मनः |
८ क
व्यास उवाच:
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश ||
८ ख
व्यास उवाच:
वाय़ोरपि गुणं स्पर्शमाकाशं ग्रसते यदा |
९ क
व्यास उवाच:
प्रशाम्यति तदा वाय़ुः खं तु तिष्ठति नानदत् ||
९ ख
व्यास उवाच:
आकाशस्य गुणं शव्दमभिव्यक्तात्मकं मनः |
१० क
व्यास उवाच:
मनसो व्यक्तमव्यक्तं व्राह्मः स प्रतिसञ्चरः ||
१० ख
व्यास उवाच:
तदात्मगुणमाविश्य मनो ग्रसति चन्द्रमाः |
११ क
व्यास उवाच:
मनस्युपरतेऽध्यात्मा चन्द्रमस्यवतिष्ठते ||
११ ख
व्यास उवाच:
तं तु कालेन महता सङ्कल्पः कुरुते वशे |
१२ क
व्यास उवाच:
चित्तं ग्रसति सङ्कल्पस्तच्च ज्ञानमनुत्तमम् ||
१२ ख
व्यास उवाच:
कालो गिरति विज्ञानं कालो वलमिति श्रुतिः |
१३ क
व्यास उवाच:
वलं कालो ग्रसति तु तं विद्वान्कुरुते वशे ||
१३ ख
व्यास उवाच:
आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि |
१४ क
व्यास उवाच:
तदव्यक्तं परं व्रह्म तच्छाश्वतमनुत्तमम् |
१४ ख
व्यास उवाच:
एवं सर्वाणि भूतानि व्रह्मैव प्रतिसञ्चरः ||
१४ ग
व्यास उवाच:
यथावत्कीर्तितं सम्यगेवमेतदसंशय़म् |
१५ क
व्यास उवाच:
वोध्यं विद्यामय़ं दृष्ट्वा योगिभिः परमात्मभिः ||
१५ ख
व्यास उवाच:
एवं विस्तारसङ्क्षेपौ व्रह्माव्यक्ते पुनः पुनः |
१६ क
व्यास उवाच:
युगसाहस्रय़ोरादावह्नो रात्र्यास्तथैव च ||
१६ ख