व्यास उवाच:
अथ चेद्रोचय़ेदेतद्द्रुह्येत मनसा तथा |
१ क
व्यास उवाच:
उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत् ||
१ ख
व्यास उवाच:
प्रज्ञय़ा निर्मितैर्धीरास्तारय़न्त्यवुधान्प्लवैः |
२ क
व्यास उवाच:
नावुधास्तारय़न्त्यन्यानात्मानं वा कथञ्चन ||
२ ख
व्यास उवाच:
छिन्नदोषो मुनिर्योगान्युक्तो युञ्जीत द्वादश |
३ क
व्यास उवाच:
दशकर्मसुखानर्थानुपाय़ापाय़निर्भय़ः ||
३ ख
व्यास उवाच:
चक्षुराचारवित्प्राज्ञो मनसा दर्शनेन च |
४ क
व्यास उवाच:
यच्छेद्वाङ्मनसी वुद्ध्या य इच्छेज्ज्ञानमुत्तमम् |
४ ख
व्यास उवाच:
ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः ||
४ ग
व्यास उवाच:
एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः |
५ क
व्यास उवाच:
यदि वा सर्ववेदज्ञो यदि वाप्यनृचोऽजपः ||
५ ख
व्यास उवाच:
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः |
६ क
व्यास उवाच:
यदि वा पुरुषव्याघ्रो यदि वा क्लैव्यधारिता ||
६ ख
व्यास उवाच:
तरत्येव महादुर्गं जरामरणसागरम् |
७ क
व्यास उवाच:
एवं ह्येतेन योगेन युञ्जानोऽप्येकमन्ततः |
७ ख
व्यास उवाच:
अपि जिज्ञासमानो हि शव्दव्रह्मातिवर्तते ||
७ ग
व्यास उवाच:
धर्मोपस्थो ह्रीवरूथ उपाय़ापाय़कूवरः |
८ क
व्यास उवाच:
अपानाक्षः प्राणय़ुगः प्रज्ञाय़ुर्जीववन्धनः ||
८ ख
व्यास उवाच:
चेतनावन्धुरश्चारुराचारग्रहनेमिवान् |
९ क
व्यास उवाच:
दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः ||
९ ख
व्यास उवाच:
प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः |
१० क
व्यास उवाच:
क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः ||
१० ख
व्यास उवाच:
त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः |
११ क
व्यास उवाच:
जीवय़ुक्तो रथो दिव्यो व्रह्मलोके विराजते ||
११ ख
व्यास उवाच:
अथ सन्त्वरमाणस्य रथमेतं युय़ुक्षतः |
१२ क
व्यास उवाच:
अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् ||
१२ ख
व्यास उवाच:
सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते |
१३ क
व्यास उवाच:
पृष्ठतः पार्श्वतश्चान्या यावत्यस्ताः प्रधारणाः ||
१३ ख
व्यास उवाच:
क्रमशः पार्थिवं यच्च वाय़व्यं खं तथा पय़ः |
१४ क
व्यास उवाच:
ज्योतिषो यत्तदैश्वर्यमहङ्कारस्य वुद्धितः ||
१४ ख
व्यास उवाच:
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते |
१५ क
व्यास उवाच:
विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः ||
१५ ख
व्यास उवाच:
अथास्य योगय़ुक्तस्य सिद्धिमात्मनि पश्यतः |
१६ क
व्यास उवाच:
निर्मथ्यमानः सूक्ष्मत्वाद्रूपाणीमानि दर्शय़ेत् ||
१६ ख
व्यास उवाच:
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रय़ते नभः |
१७ क
व्यास उवाच:
तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत ||
१७ ख
व्यास उवाच:
अथ धूमस्य विरमे द्वितीय़ं रूपदर्शनम् |
१८ क
व्यास उवाच:
जलरूपमिवाकाशे तत्रैवात्मनि पश्यति ||
१८ ख
व्यास उवाच:
अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते |
१९ क
व्यास उवाच:
तस्मिन्नुपरते चास्य पीतवस्त्रवदिष्यते |
१९ ख
व्यास उवाच:
ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते ||
१९ ग
व्यास उवाच:
अथ श्वेतां गतिं गत्वा वाय़व्यं सूक्ष्ममप्यजः |
२० क
व्यास उवाच:
अशुक्लं चेतसः सौक्ष्म्यमव्यक्तं व्रह्मणोऽस्य वै ||
२० ख
व्यास उवाच:
एतेष्वपि हि जातेषु फलजातानि मे शृणु |
२१ क
व्यास उवाच:
जातस्य पार्थिवैश्वर्ये सृष्टिरिष्टा विधीय़ते ||
२१ ख
व्यास उवाच:
प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः |
२२ क
व्यास उवाच:
अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा ||
२२ ख
व्यास उवाच:
पृथिवीं कम्पय़त्येको गुणो वाय़ोरिति स्मृतः |
२३ क
व्यास उवाच:
आकाशभूतश्चाकाशे सवर्णत्वात्प्रणश्यति ||
२३ ख
व्यास उवाच:
वर्णतो गृह्यते चापि कामात्पिवति चाशय़ान् |
२४ क
व्यास उवाच:
न चास्य तेजसा रूपं दृश्यते शाम्यते तथा ||
२४ ख
व्यास उवाच:
अहङ्कारस्य विजितेः पञ्चैते स्युर्वशानुगाः |
२५ क
व्यास उवाच:
षण्णामात्मनि वुद्धौ च जिताय़ां प्रभवत्यथ ||
२५ ख
व्यास उवाच:
निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते |
२६ क
व्यास उवाच:
तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते ||
२६ ख
व्यास उवाच:
यतो निःसरते लोको भवति व्यक्तसञ्ज्ञकः |
२७ क
व्यास उवाच:
तत्राव्यक्तमय़ीं व्याख्यां शृणु त्वं विस्तरेण मे |
२७ ख
व्यास उवाच:
तथा व्यक्तमय़ीं चैव सङ्ख्यां पूर्वं निवोध मे ||
२७ ग
व्यास उवाच:
पञ्चविंशतितत्त्वानि तुल्यान्युभय़तः समम् |
२८ क
व्यास उवाच:
योगे साङ्ख्येऽपि च तथा विशेषांस्तत्र मे शृणु ||
२८ ख
व्यास उवाच:
प्रोक्तं तद्व्यक्तमित्येव जाय़ते वर्धते च यत् |
२९ क
व्यास उवाच:
जीर्यते म्रिय़ते चैव चतुर्भिर्लक्षणैर्युतम् ||
२९ ख
व्यास उवाच:
विपरीतमतो यत्तु तदव्यक्तमुदाहृतम् |
३० क
व्यास उवाच:
द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ ||
३० ख
व्यास उवाच:
चतुर्लक्षणजं त्वन्यं चतुर्वर्गं प्रचक्षते |
३१ क
व्यास उवाच:
व्यक्तमव्यक्तजं चैव तथा वुद्धमथेतरत् |
३१ ख
व्यास उवाच:
सत्त्वं क्षेत्रज्ञ इत्येतद्द्वय़मप्यनुदर्शितम् ||
३१ ग
व्यास उवाच:
द्वावात्मानौ च वेदेषु विषय़ेषु च रज्यतः |
३२ क
व्यास उवाच:
विषय़ात्प्रतिसंहारः साङ्ख्यानां सिद्धिलक्षणम् ||
३२ ख
व्यास उवाच:
निर्ममश्चानहङ्कारो निर्द्वन्द्वश्छिन्नसंशय़ः |
३३ क
व्यास उवाच:
नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः ||
३३ ख
व्यास उवाच:
आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम् |
३४ क
व्यास उवाच:
वाग्दण्डकर्ममनसां त्रय़ाणां च निवर्तकः ||
३४ ख
व्यास उवाच:
समः सर्वेषु भूतेषु व्रह्माणमभिवर्तते |
३५ क
व्यास उवाच:
नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः ||
३५ ख
व्यास उवाच:
अलोलुपोऽव्यथो दान्तो न कृती न निराकृतिः |
३६ क
व्यास उवाच:
नास्येन्द्रिय़मनेकाग्रं नातिक्षिप्तमनोरथः |
३६ ख
व्यास उवाच:
अहिंस्रः सर्वभूतानामीदृक्साङ्ख्यो विमुच्यते ||
३६ ग
व्यास उवाच:
अथ योगाद्विमुच्यन्ते कारणैर्यैर्निवोध मे |
३७ क
व्यास उवाच:
योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते ||
३७ ख
व्यास उवाच:
इत्येषा भावजा वुद्धिः कथिता ते न संशय़ः |
३८ क
व्यास उवाच:
एवं भवति निर्द्वन्द्वो व्रह्माणं चाधिगच्छति ||
३८ ख