chevron_left वन पर्व अध्याय २२८
वैशम्पाय़न उवाच:
धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय़ |
१ क
वैशम्पाय़न उवाच:
पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत ||
१ ख
वैशम्पाय़न उवाच:
ततस्तैर्विहितः पूर्वं समङ्गो नाम वल्लवः |
२ क
वैशम्पाय़न उवाच:
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदय़त् ||
२ ख
वैशम्पाय़न उवाच:
अनन्तरं च राधेय़ः शकुनिश्च विशां पते |
३ क
वैशम्पाय़न उवाच:
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ||
३ ख
वैशम्पाय़न उवाच:
रमणीय़ेषु देशेषु घोषाः सम्प्रति कौरव |
४ क
वैशम्पाय़न उवाच:
स्मारणासमय़ः प्राप्तो वत्सानामपि चाङ्कनम् ||
४ ख
वैशम्पाय़न उवाच:
मृगय़ा चोचिता राजन्नस्मिन्काले सुतस्य ते |
५ क
वैशम्पाय़न उवाच:
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ||
५ ख
धृतराष्ट्र उवाच:
मृगय़ा शोभना तात गवां च समवेक्षणम् |
६ क
धृतराष्ट्र उवाच:
विश्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे ||
६ ख
धृतराष्ट्र उवाच:
ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् |
७ क
धृतराष्ट्र उवाच:
अतो नाभ्यनुजानामि गमनं तत्र वः स्वय़म् ||
७ ख
धृतराष्ट्र उवाच:
छद्मना निर्जितास्ते हि कर्शिताश्च महावने |
८ क
धृतराष्ट्र उवाच:
तपोनित्याश्च राधेय़ समर्थाश्च महारथाः ||
८ ख
धृतराष्ट्र उवाच:
धर्मराजो न सङ्क्रुध्येद्भीमसेनस्त्वमर्षणः |
९ क
धृतराष्ट्र उवाच:
यज्ञसेनस्य दुहिता तेज एव तु केवलम् ||
९ ख
धृतराष्ट्र उवाच:
यूय़ं चाप्यपराध्येय़ुर्दर्पमोहसमन्विताः |
१० क
धृतराष्ट्र उवाच:
ततो विनिर्दहेय़ुस्ते तपसा हि समन्विताः ||
१० ख
धृतराष्ट्र उवाच:
अथ वा साय़ुधा वीरा मन्युनाभिपरिप्लुताः |
११ क
धृतराष्ट्र उवाच:
सहिता वद्धनिस्त्रिंशा दहेय़ुः शस्त्रतेजसा ||
११ ख
धृतराष्ट्र उवाच:
अथ यूय़ं वहुत्वात्तानारभध्वं कथञ्चन |
१२ क
धृतराष्ट्र उवाच:
अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् ||
१२ ख
धृतराष्ट्र उवाच:
उषितो हि महावाहुरिन्द्रलोके धनञ्जय़ः |
१३ क
धृतराष्ट्र उवाच:
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् ||
१३ ख
धृतराष्ट्र उवाच:
अकृतास्त्रेण पृथिवी जिता वीभत्सुना पुरा |
१४ क
धृतराष्ट्र उवाच:
किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः ||
१४ ख
धृतराष्ट्र उवाच:
अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ |
१५ क
धृतराष्ट्र उवाच:
उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति ||
१५ ख
धृतराष्ट्र उवाच:
अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे |
१६ क
धृतराष्ट्र उवाच:
तदवुद्धिकृतं कर्म दोषमुत्पादय़ेच्च वः ||
१६ ख
धृतराष्ट्र उवाच:
तस्माद्गच्छन्तु पुरुषाः स्मारणाय़ाप्तकारिणः |
१७ क
धृतराष्ट्र उवाच:
न स्वय़ं तत्र गमनं रोचय़े तव भारत ||
१७ ख
शकुनिरु उवाच:
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि |
१८ क
शकुनिरु उवाच:
तेन द्वादश वर्षाणि वस्तव्यानीति भारत ||
१८ ख
शकुनिरु उवाच:
अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः |
१९ क
शकुनिरु उवाच:
युधिष्ठिरश्च कौन्तेय़ो न नः कोपं करिष्यति ||
१९ ख
शकुनिरु उवाच:
मृगय़ां चैव नो गन्तुमिच्छा संवर्धते भृशम् |
२० क
शकुनिरु उवाच:
स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् ||
२० ख
शकुनिरु उवाच:
न चानार्यसमाचारः कश्चित्तत्र भविष्यति |
२१ क
शकुनिरु उवाच:
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रय़ः ||
२१ ख
वैशम्पाय़न उवाच:
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः |
२२ क
वैशम्पाय़न उवाच:
दुर्योधनं सहामात्यमनुजज्ञे न कामतः ||
२२ ख
वैशम्पाय़न उवाच:
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा |
२३ क
वैशम्पाय़न उवाच:
निर्ययौ भरतश्रेष्ठो वलेन महता वृतः ||
२३ ख
वैशम्पाय़न उवाच:
दुःशासनेन च तथा सौवलेन च देविना |
२४ क
वैशम्पाय़न उवाच:
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ||
२४ ख
वैशम्पाय़न उवाच:
तं निर्यान्तं महावाहुं द्रष्टुं द्वैतवनं सरः |
२५ क
वैशम्पाय़न उवाच:
पौराश्चानुय़युः सर्वे सहदारा वनं च तत् ||
२५ ख
वैशम्पाय़न उवाच:
अष्टौ रथसहस्राणि त्रीणि नागाय़ुतानि च |
२६ क
वैशम्पाय़न उवाच:
पत्तय़ो वहुसाहस्रा हय़ाश्च नवतिः शताः ||
२६ ख
वैशम्पाय़न उवाच:
शकटापणवेश्याश्च वणिजो वन्दिनस्तथा |
२७ क
वैशम्पाय़न उवाच:
नराश्च मृगय़ाशीलाः शतशोऽथ सहस्रशः ||
२७ ख
वैशम्पाय़न उवाच:
ततः प्रय़ाणे नृपतेः सुमहानभवत्स्वनः |
२८ क
वैशम्पाय़न उवाच:
प्रावृषीव महावाय़ोरुद्धतस्य विशां पते ||
२८ ख
वैशम्पाय़न उवाच:
गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा |
२९ क
वैशम्पाय़न उवाच:
प्रय़ातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ||
२९ ख