व्यास उवाच:
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः |
१ क
व्यास उवाच:
उन्मज्जंश्च निमज्जंश्च ज्ञानमेवाभिसंश्रय़ेत् ||
१ ख
शुक उवाच:
किं तज्ज्ञानमथो विद्या यय़ा निस्तरति द्वय़म् |
२ क
शुक उवाच:
प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि ||
२ ख
व्यास उवाच:
यस्तु पश्येत्स्वभावेन विना भावमचेतनः |
३ क
व्यास उवाच:
पुष्यते च पुनः सर्वान्प्रज्ञय़ा मुक्तहेतुकः ||
३ ख
व्यास उवाच:
येषां चैकान्तभावेन स्वभावः कारणं मतम् |
४ क
व्यास उवाच:
पूत्वा तृणवुसीकां वै ते लभन्ते न किञ्चन ||
४ ख
व्यास उवाच:
ये चैनं पक्षमाश्रित्य वर्तय़न्त्यल्पचेतसः |
५ क
व्यास उवाच:
स्वभावं कारणं ज्ञात्वा न श्रेय़ः प्राप्नुवन्ति ते ||
५ ख
व्यास उवाच:
स्वभावो हि विनाशाय़ मोहकर्ममनोभवः |
६ क
व्यास उवाच:
निरुक्तमेतय़ोरेतत्स्वभावपरभावय़ोः ||
६ ख
व्यास उवाच:
कृष्यादीनि हि कर्माणि सस्यसंहरणानि च |
७ क
व्यास उवाच:
प्रज्ञावद्भिः प्रकॢप्तानि यानासनगृहाणि च ||
७ ख
व्यास उवाच:
आक्रीडानां गृहाणां च गदानामगदस्य च |
८ क
व्यास उवाच:
प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः ||
८ ख
व्यास उवाच:
प्रज्ञा संय़ोजय़त्यर्थैः प्रज्ञा श्रेय़ोऽधिगच्छति |
९ क
व्यास उवाच:
राजानो भुञ्जते राज्यं प्रज्ञय़ा तुल्यलक्षणाः ||
९ ख
व्यास उवाच:
पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते |
१० क
व्यास उवाच:
विद्यया तात सृष्टानां विद्यैव परमा गतिः ||
१० ख
व्यास उवाच:
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् |
११ क
व्यास उवाच:
जराय़्वण्डमथोद्भेदं स्वेदं चाप्युपलक्षय़ेत् ||
११ ख
व्यास उवाच:
स्थावरेभ्यो विशिष्टानि जङ्गमान्युपलक्षय़ेत् |
१२ क
व्यास उवाच:
उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्ययोः ||
१२ ख
व्यास उवाच:
आहुर्द्विवहुपादानि जङ्गमानि द्वय़ानि च |
१३ क
व्यास उवाच:
वहुपाद्भ्यो विशिष्टानि द्विपादानि वहून्यपि ||
१३ ख
व्यास उवाच:
द्विपदानि द्वय़ान्याहुः पार्थिवानीतराणि च |
१४ क
व्यास उवाच:
पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते ||
१४ ख
व्यास उवाच:
पार्थिवानि द्वय़ान्याहुर्मध्यमान्युत्तमानि च |
१५ क
व्यास उवाच:
मध्यमानि विशिष्टानि जातिधर्मोपधारणात् ||
१५ ख
व्यास उवाच:
मध्यमानि द्वय़ान्याहुर्धर्मज्ञानीतराणि च |
१६ क
व्यास उवाच:
धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् ||
१६ ख
व्यास उवाच:
धर्मज्ञानि द्वय़ान्याहुर्वेदज्ञानीतराणि च |
१७ क
व्यास उवाच:
वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः ||
१७ ख
व्यास उवाच:
वेदज्ञानि द्वय़ान्याहुः प्रवक्तॄणीतराणि च |
१८ क
व्यास उवाच:
प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् ||
१८ ख
व्यास उवाच:
विज्ञाय़न्ते हि यैर्वेदाः सर्वधर्मक्रिय़ाफलाः |
१९ क
व्यास उवाच:
सय़ज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः ||
१९ ख
व्यास उवाच:
प्रवक्तॄणि द्वय़ान्याहुरात्मज्ञानीतराणि च |
२० क
व्यास उवाच:
आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् ||
२० ख
व्यास उवाच:
धर्मद्वय़ं हि यो वेद स सर्वः सर्वधर्मविद् |
२१ क
व्यास उवाच:
स त्यागी सत्यसङ्कल्पः स तु क्षान्तः स ईश्वरः ||
२१ ख
व्यास उवाच:
धर्मज्ञानप्रतिष्ठं हि तं देवा व्राह्मणं विदुः |
२२ क
व्यास उवाच:
शव्दव्रह्मणि निष्णातं परे च कृतनिश्चय़म् ||
२२ ख
व्यास उवाच:
अन्तःस्थं च वहिष्ठं च येऽऽधिय़ज्ञाधिदैवतम् |
२३ क
व्यास उवाच:
जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः ||
२३ ख
व्यास उवाच:
तेषु विश्वमिदं भूतं साग्रं च जगदाहितम् |
२४ क
व्यास उवाच:
तेषां माहात्म्यभावस्य सदृशं नास्ति किञ्चन ||
२४ ख
व्यास उवाच:
आदिं ते निधनं चैव कर्म चातीत्य सर्वशः |
२५ क
व्यास उवाच:
चतुर्विधस्य भूतस्य सर्वस्येशाः स्वय़म्भुवः ||
२५ ख