वासुदेव उवाच:
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः |
१ क
वासुदेव उवाच:
शरैरपातय़ं सौभाच्छिरांसि विवुधद्विषाम् ||
१ ख
वासुदेव उवाच:
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः |
२ क
वासुदेव उवाच:
अप्रैषं शाल्वराजाय़ शार्ङ्गमुक्तान्सुवाससः ||
२ ख
वासुदेव उवाच:
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह |
३ क
वासुदेव उवाच:
अन्तर्हितं माय़याभूत्ततोऽहं विस्मितोऽभवम् ||
३ ख
वासुदेव उवाच:
अथ दानवसङ्घास्ते विकृताननमूर्धजाः |
४ क
वासुदेव उवाच:
उदक्रोशन्महाराज विष्ठिते मय़ि भारत ||
४ ख
वासुदेव उवाच:
ततोऽस्त्रं शव्दसाहं वै त्वरमाणो महाहवे |
५ क
वासुदेव उवाच:
अय़ोजय़ं तद्वधाय़ ततः शव्द उपारमत् ||
५ ख
वासुदेव उवाच:
हतास्ते दानवाः सर्वे यैः स शव्द उदीरितः |
६ क
वासुदेव उवाच:
शरैरादित्यसङ्काशैर्ज्वलितैः शव्दसाधनैः ||
६ ख
वासुदेव उवाच:
तस्मिन्नुपरते शव्दे पुनरेवान्यतोऽभवत् |
७ क
वासुदेव उवाच:
शव्दोऽपरो महाराज तत्रापि प्राहरं शरान् ||
७ ख
वासुदेव उवाच:
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत |
८ क
वासुदेव उवाच:
नादय़ामासुरसुरास्ते चापि निहता मय़ा ||
८ ख
वासुदेव उवाच:
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत |
९ क
वासुदेव उवाच:
सौभं कामगमं वीर मोहय़न्मम चक्षुषी ||
९ ख
वासुदेव उवाच:
ततो लोकान्तकरणो दानवो वानराकृतिः |
१० क
वासुदेव उवाच:
शिलावर्षेण सहसा महता मां समावृणोत् ||
१० ख
वासुदेव उवाच:
सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः |
११ क
वासुदेव उवाच:
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ||
११ ख
वासुदेव उवाच:
ततोऽहं पर्वतचितः सहय़ः सहसारथिः |
१२ क
वासुदेव उवाच:
अप्रख्यातिमिय़ां राजन्सध्वजः पर्वतैश्चितः ||
१२ ख
वासुदेव उवाच:
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा |
१३ क
वासुदेव उवाच:
ते भय़ार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः ||
१३ ख
वासुदेव उवाच:
ततो हाहाकृतं सर्वमभूत्किल विशां पते |
१४ क
वासुदेव उवाच:
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मय़ि ||
१४ ख
वासुदेव उवाच:
ततो विषण्णमनसो मम राजन्सुहृज्जनाः |
१५ क
वासुदेव उवाच:
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ||
१५ ख
वासुदेव उवाच:
द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि |
१६ क
वासुदेव उवाच:
एवं विजितवान्वीर पश्चादश्रौषमच्युत ||
१६ ख
वासुदेव उवाच:
ततोऽहमस्त्रं दय़ितं सर्वपाषाणभेदनम् |
१७ क
वासुदेव उवाच:
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातय़म् ||
१७ ख
वासुदेव उवाच:
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः |
१८ क
वासुदेव उवाच:
हय़ा मम महाराज वेपमाना इवाभवन् ||
१८ ख
वासुदेव उवाच:
मेघजालमिवाकाशे विदार्याभ्युदितं रविम् |
१९ क
वासुदेव उवाच:
दृष्ट्वा मां वान्धवाः सर्वे हर्षमाहारय़न्पुनः ||
१९ ख
वासुदेव उवाच:
ततो मामव्रवीत्सूतः प्राञ्जलिः प्रणतो नृप |
२० क
वासुदेव उवाच:
साधु सम्पश्य वार्ष्णेय़ शाल्वं सौभपतिं स्थितम् ||
२० ख
वासुदेव उवाच:
अलं कृष्णावमन्यैनं साधु यत्नं समाचर |
२१ क
वासुदेव उवाच:
मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ||
२१ ख
वासुदेव उवाच:
जहि शाल्वं महावाहो मैनं जीवय़ केशव |
२२ क
वासुदेव उवाच:
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ||
२२ ख
वासुदेव उवाच:
न शत्रुरवमन्तव्यो दुर्वलोऽपि वलीय़सा |
२३ क
वासुदेव उवाच:
योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ||
२३ ख
वासुदेव उवाच:
स त्वं पुरुषशार्दूल सर्वय़त्नैरिमं प्रभो |
२४ क
वासुदेव उवाच:
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ||
२४ ख
वासुदेव उवाच:
नैष मार्दवसाध्यो वै मतो नापि सखा तव |
२५ क
वासुदेव उवाच:
येन त्वं योधितो वीर द्वारका चावमर्दिता ||
२५ ख
वासुदेव उवाच:
एवमादि तु कौन्तेय़ श्रुत्वाहं सारथेर्वचः |
२६ क
वासुदेव उवाच:
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारय़म् ||
२६ ख
वासुदेव उवाच:
वधाय़ शाल्वराजस्य सौभस्य च निपातने |
२७ क
वासुदेव उवाच:
दारुकं चाव्रुवं वीर मुहूर्तं स्थीय़तामिति ||
२७ ख
वासुदेव उवाच:
ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् |
२८ क
वासुदेव उवाच:
आग्नेय़मस्त्रं दय़ितं सर्वसाहं महाप्रभम् ||
२८ ख
वासुदेव उवाच:
यक्षाणां राक्षसानां च दानवानां च संय़ुगे |
२९ क
वासुदेव उवाच:
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ||
२९ ख
वासुदेव उवाच:
क्षुरान्तममलं चक्रं कालान्तकय़मोपमम् |
३० क
वासुदेव उवाच:
अभिमन्त्र्याहमतुलं द्विषतां च निवर्हणम् ||
३० ख
वासुदेव उवाच:
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम |
३१ क
वासुदेव उवाच:
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ||
३१ ख
वासुदेव उवाच:
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा |
३२ क
वासुदेव उवाच:
द्वितीय़स्येव सूर्यस्य युगान्ते परिविष्यतः ||
३२ ख
वासुदेव उवाच:
तत्समासाद्य नगरं सौभं व्यपगतत्विषम् |
३३ क
वासुदेव उवाच:
मध्येन पाटय़ामास क्रकचो दार्विवोच्छ्रितम् ||
३३ ख
वासुदेव उवाच:
द्विधा कृतं ततः सौभं सुदर्शनवलाद्धतम् |
३४ क
वासुदेव उवाच:
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ||
३४ ख
वासुदेव उवाच:
तस्मिन्निपतिते सौभे चक्रमागात्करं मम |
३५ क
वासुदेव उवाच:
पुनश्चोद्धूय़ वेगेन शाल्वाय़ेत्यहमव्रुवम् ||
३५ ख
वासुदेव उवाच:
ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे |
३६ क
वासुदेव उवाच:
द्विधा चकार सहसा प्रजज्वाल च तेजसा ||
३६ ख
वासुदेव उवाच:
तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः |
३७ क
वासुदेव उवाच:
हाहाभूता दिशो जग्मुरर्दिता मम साय़कैः ||
३७ ख
वासुदेव उवाच:
ततोऽहं समवस्थाप्य रथं सौभसमीपतः |
३८ क
वासुदेव उवाच:
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षय़म् ||
३८ ख
वासुदेव उवाच:
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् |
३९ क
वासुदेव उवाच:
दह्यमानमभिप्रेक्ष्य स्त्रिय़स्ताः सम्प्रदुद्रुवुः ||
३९ ख
वासुदेव उवाच:
एवं निहत्य समरे शाल्वं सौभं निपात्य च |
४० क
वासुदेव उवाच:
आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् ||
४० ख
वासुदेव उवाच:
एतस्मात्कारणाद्राजन्नागमं नागसाह्वय़म् |
४१ क
वासुदेव उवाच:
यद्यगां परवीरघ्न न हि जीवेत्सुय़ोधनः ||
४१ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा महावाहुः कौरवं पुरुषोत्तमः |
४२ क
वैशम्पाय़न उवाच:
आमन्त्र्य प्रय़यौ धीमान्पाण्डवान्मधुसूदनः ||
४२ ख
वैशम्पाय़न उवाच:
अभिवाद्य महावाहुर्धर्मराजं युधिष्ठिरम् |
४३ क
वैशम्पाय़न उवाच:
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ||
४३ ख
वैशम्पाय़न उवाच:
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् |
४४ क
वैशम्पाय़न उवाच:
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ||
४४ ख
वैशम्पाय़न उवाच:
सैन्यसुग्रीवय़ुक्तेन रथेनादित्यवर्चसा |
४५ क
वैशम्पाय़न उवाच:
द्वारकां प्रय़यौ कृष्णः समाश्वास्य युधिष्ठिरम् ||
४५ ख
वैशम्पाय़न उवाच:
ततः प्रय़ाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः |
४६ क
वैशम्पाय़न उवाच:
द्रौपदेय़ानुपादाय़ प्रय़यौ स्वपुरं तदा ||
४६ ख
वैशम्पाय़न उवाच:
धृष्टकेतुः स्वसारं च समादाय़ाथ चेदिराट् |
४७ क
वैशम्पाय़न उवाच:
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ||
४७ ख
वैशम्पाय़न उवाच:
केकय़ाश्चाप्यनुज्ञाताः कौन्तेय़ेनामितौजसा |
४८ क
वैशम्पाय़न उवाच:
आमन्त्र्य पाण्डवान्सर्वान्प्रय़युस्तेऽपि भारत ||
४८ ख
वैशम्पाय़न उवाच:
व्राह्मणाश्च विशश्चैव तथा विषय़वासिनः |
४९ क
वैशम्पाय़न उवाच:
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ||
४९ ख
वैशम्पाय़न उवाच:
समवाय़ः स राजेन्द्र सुमहाद्भुतदर्शनः |
५० क
वैशम्पाय़न उवाच:
आसीन्महात्मनां तेषां काम्यके भरतर्षभ ||
५० ख