chevron_left शल्य पर्व अध्याय २३
सञ्जय़ उवाच:
अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना |
४९ क
सञ्जय़ उवाच:
तद्वलौघममित्राणामभीतः प्राविशद्रणे ||
४९ ख
सञ्जय़ उवाच:
शरासनवरं घोरं शक्तिकण्टकसंवृतम् |
५० क
सञ्जय़ उवाच:
गदापरिघपन्थानं रथनागमहाद्रुमम् ||
५० ख
सञ्जय़ उवाच:
हय़पत्तिलताकीर्णं गाहमानो महाय़शाः |
५१ क
सञ्जय़ उवाच:
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना ||
५१ ख
सञ्जय़ उवाच:
ते हय़ाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे |
५२ क
सञ्जय़ उवाच:
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः ||
५२ ख
सञ्जय़ उवाच:
ततः प्राय़ाद्रथेनाजौ सव्यसाची परन्तपः |
५३ क
सञ्जय़ उवाच:
किरञ्शरशतांस्तीक्ष्णान्वारिधारा इवाम्वुदः ||
५३ ख
सञ्जय़ उवाच:
प्रादुरासीन्महाञ्शव्दः शराणां नतपर्वणाम् |
५४ क
सञ्जय़ उवाच:
इषुभिश्छाद्यमानानां समरे सव्यसाचिना ||
५४ ख
सञ्जय़ उवाच:
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि |
५५ क
सञ्जय़ उवाच:
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः ||
५५ ख
सञ्जय़ उवाच:
नरान्नागान्समाहत्य हय़ांश्चापि विशां पते |
५६ क
सञ्जय़ उवाच:
अपतन्त रणे वाणाः पतङ्गा इव घोषिणः ||
५६ ख
सञ्जय़ उवाच:
आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः |
५७ क
सञ्जय़ उवाच:
न प्राज्ञाय़न्त समरे दिशो वा प्रदिशोऽपि वा ||
५७ ख
सञ्जय़ उवाच:
सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः |
५८ क
सञ्जय़ उवाच:
रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः ||
५८ ख
सञ्जय़ उवाच:
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः |
५९ क
सञ्जय़ उवाच:
समासीदन्त कौरव्या वध्यमानाः शितैः शरैः ||
५९ ख
सञ्जय़ उवाच:
शरचापधरः पार्थः प्रज्वलन्निव भारत |
६० क
सञ्जय़ उवाच:
ददाह समरे योधान्कक्षमग्निरिव ज्वलन् ||
६० ख
सञ्जय़ उवाच:
यथा वनान्ते वनपैर्विसृष्टः; कक्षं दहेत्कृष्णगतिः सघोषः |
६१ क
सञ्जय़ उवाच:
भूरिद्रुमं शुष्कलतावितानं; भृशं समृद्धो ज्वलनः प्रतापी ||
६१ ख
सञ्जय़ उवाच:
एवं स नाराचगणप्रतापी; शरार्चिरुच्चावचतिग्मतेजाः |
६२ क
सञ्जय़ उवाच:
ददाह सर्वां तव पुत्रसेना; ममृष्यमाणस्तरसा तरस्वी ||
६२ ख
सञ्जय़ उवाच:
तस्येषवः प्राणहराः सुमुक्ता; नासज्जन्वै वर्मसु रुक्मपुङ्खाः |
६३ क
सञ्जय़ उवाच:
न च द्वितीय़ं प्रमुमोच वाणं; नरे हय़े वा परमद्विपे वा ||
६३ ख
सञ्जय़ उवाच:
अनेकरूपाकृतिभिर्हि वाणै; र्महारथानीकमनुप्रविश्य |
६४ क
सञ्जय़ उवाच:
स एव एकस्तव पुत्रसेनां; जघान दैत्यानिव वज्रपाणिः ||
६४ ख