chevron_left स्त्री पर्व अध्याय २३
गान्धार्यु उवाच:
एष शल्यो हतः शेते साक्षान्नकुलमातुलः |
१ क
गान्धार्यु उवाच:
धर्मज्ञेन सता तात धर्मराजेन संय़ुगे ||
१ ख
गान्धार्यु उवाच:
यस्त्वय़ा स्पर्धते नित्यं सर्वत्र पुरुषर्षभ |
२ क
गान्धार्यु उवाच:
स एष निहतः शेते मद्रराजो महारथः ||
२ ख
गान्धार्यु उवाच:
येन सङ्गृह्णता तात रथमाधिरथेर्युधि |
३ क
गान्धार्यु उवाच:
जय़ार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः ||
३ ख
गान्धार्यु उवाच:
अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् |
४ क
गान्धार्यु उवाच:
मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम् ||
४ ख
गान्धार्यु उवाच:
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा |
५ क
गान्धार्यु उवाच:
आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ||
५ ख
गान्धार्यु उवाच:
युधिष्ठिरेण निहतं शल्यं समितिशोभनम् |
६ क
गान्धार्यु उवाच:
रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रिय़ः ||
६ ख
गान्धार्यु उवाच:
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् |
७ क
गान्धार्यु उवाच:
क्रोशन्त्यभिसमासाद्य क्षत्रिय़ाः क्षत्रिय़र्षभम् ||
७ ख
गान्धार्यु उवाच:
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः |
८ क
गान्धार्यु उवाच:
वाशिता गृष्टय़ः पङ्के परिमग्नमिवर्षभम् ||
८ ख
गान्धार्यु उवाच:
शल्यं शरणदं शूरं पश्यैनं रथसत्तमम् |
९ क
गान्धार्यु उवाच:
शय़ानं वीरशय़ने शरैर्विशकलीकृतम् ||
९ ख
गान्धार्यु उवाच:
एष शैलालय़ो राजा भगदत्तः प्रतापवान् |
१० क
गान्धार्यु उवाच:
गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः ||
१० ख
गान्धार्यु उवाच:
यस्य रुक्ममय़ी माला शिरस्येषा विराजते |
११ क
गान्धार्यु उवाच:
श्वापदैर्भक्ष्यमाणस्य शोभय़न्तीव मूर्धजान् ||
११ ख
गान्धार्यु उवाच:
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् |
१२ क
गान्धार्यु उवाच:
लोमहर्षणमत्युग्रं शक्रस्य वलिना यथा ||
१२ ख
गान्धार्यु उवाच:
योधय़ित्वा महावाहुरेष पार्थं धनञ्जय़म् |
१३ क
गान्धार्यु उवाच:
संशय़ं गमय़ित्वा च कुन्तीपुत्रेण पातितः ||
१३ ख
गान्धार्यु उवाच:
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन |
१४ क
गान्धार्यु उवाच:
स एष निहतः शेते भीष्मो भीष्मकृदाहवे ||
१४ ख
गान्धार्यु उवाच:
पश्य शान्तनवं कृष्ण शय़ानं सूर्यवर्चसम् |
१५ क
गान्धार्यु उवाच:
युगान्त इव कालेन पातितं सूर्यमम्वरात् ||
१५ ख
गान्धार्यु उवाच:
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् |
१६ क
गान्धार्यु उवाच:
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ||
१६ ख
गान्धार्यु उवाच:
शरतल्पगतं वीरं धर्मे देवापिना समम् |
१७ क
गान्धार्यु उवाच:
शय़ानं वीरशय़ने पश्य शूरनिषेविते ||
१७ ख
गान्धार्यु उवाच:
कर्णिनालीकनाराचैरास्तीर्य शय़नोत्तमम् |
१८ क
गान्धार्यु उवाच:
आविश्य शेते भगवान्स्कन्दः शरवणं यथा ||
१८ ख
गान्धार्यु उवाच:
अतूलपूर्णं गाङ्गेय़स्त्रिभिर्वाणैः समन्वितम् |
१९ क
गान्धार्यु उवाच:
उपधाय़ोपधानाग्र्यं दत्तं गाण्डीवधन्वना ||
१९ ख
गान्धार्यु उवाच:
पालय़ानः पितुः शास्त्रमूर्ध्वरेता महाय़शाः |
२० क
गान्धार्यु उवाच:
एष शान्तनवः शेते माधवाप्रतिमो युधि ||
२० ख
गान्धार्यु उवाच:
धर्मात्मा तात धर्मज्ञः पारम्पर्येण निर्णय़े |
२१ क
गान्धार्यु उवाच:
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारय़त् ||
२१ ख
गान्धार्यु उवाच:
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी |
२२ क
गान्धार्यु उवाच:
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः ||
२२ ख
गान्धार्यु उवाच:
स्वय़मेतेन शूरेण पृच्छ्यमानेन पाण्डवैः |
२३ क
गान्धार्यु उवाच:
धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना ||
२३ ख
गान्धार्यु उवाच:
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः |
२४ क
गान्धार्यु उवाच:
स गतः कुरुभिः सार्धं महावुद्धिः पराभवम् ||
२४ ख
गान्धार्यु उवाच:
धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव |
२५ क
गान्धार्यु उवाच:
गते देवव्रते स्वर्गं देवकल्पे नरर्षभे ||
२५ ख
गान्धार्यु उवाच:
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा |
२६ क
गान्धार्यु उवाच:
तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् ||
२६ ख
गान्धार्यु उवाच:
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः |
२७ क
गान्धार्यु उवाच:
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ||
२७ ख
गान्धार्यु उवाच:
यस्य प्रसादाद्वीभत्सुः पाण्डवः कर्म दुष्करम् |
२८ क
गान्धार्यु उवाच:
चकार स हतः शेते नैनमस्त्राण्यपालय़न् ||
२८ ख
गान्धार्यु उवाच:
यं पुरोधाय़ कुरव आह्वय़न्ति स्म पाण्डवान् |
२९ क
गान्धार्यु उवाच:
सोऽय़ं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः ||
२९ ख
गान्धार्यु उवाच:
यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् |
३० क
गान्धार्यु उवाच:
स भूमौ निहतः शेते शान्तार्चिरिव पावकः ||
३० ख
गान्धार्यु उवाच:
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव |
३१ क
गान्धार्यु उवाच:
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ||
३१ ख
गान्धार्यु उवाच:
वेदा यस्माच्च चत्वारः सर्वास्त्राणि च केशव |
३२ क
गान्धार्यु उवाच:
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः ||
३२ ख
गान्धार्यु उवाच:
वन्दनार्हाविमौ तस्य वन्दिभिर्वन्दितौ शुभौ |
३३ क
गान्धार्यु उवाच:
गोमाय़वो विकर्षन्ति पादौ शिष्यशतार्चितौ ||
३३ ख
गान्धार्यु उवाच:
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन |
३४ क
गान्धार्यु उवाच:
कृपी कृपणमन्वास्ते दुःखोपहतचेतना ||
३४ ख
गान्धार्यु उवाच:
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् |
३५ क
गान्धार्यु उवाच:
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ||
३५ ख
गान्धार्यु उवाच:
वाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव |
३६ क
गान्धार्यु उवाच:
उपास्ते वै मृधे द्रोणं जटिला व्रह्मचारिणी ||
३६ ख
गान्धार्यु उवाच:
प्रेतकृत्ये च यतते कृपी कृपणमातुरा |
३७ क
गान्धार्यु उवाच:
हतस्य समरे भर्तुः सुकुमारी यशस्विनी ||
३७ ख
गान्धार्यु उवाच:
अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः |
३८ क
गान्धार्यु उवाच:
द्रोणमाधाय़ गाय़न्ति त्रीणि सामानि सामगाः ||
३८ ख
गान्धार्यु उवाच:
किरन्ति च चितामेते जटिला व्रह्मचारिणः |
३९ क
गान्धार्यु उवाच:
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ||
३९ ख
गान्धार्यु उवाच:
शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् |
४० क
गान्धार्यु उवाच:
त एते द्रोणमाधाय़ शंसन्ति च रुदन्ति च ||
४० ख
गान्धार्यु उवाच:
सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे |
४१ क
गान्धार्यु उवाच:
अग्नावग्निमिवाधाय़ द्रोणं हुत्वा हुताशने ||
४१ ख
गान्धार्यु उवाच:
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातय़ः |
४२ क
गान्धार्यु उवाच:
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा ||
४२ ख