वैशम्पाय़न उवाच:
एवमुक्तस्तु कौन्तेय़ो गुडाकेशेन भारत |
१ क
वैशम्पाय़न उवाच:
नोवाच किञ्चित्कौरव्यस्ततो द्वैपाय़नोऽव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
वीभत्सोर्वचनं सम्यक्सत्यमेतद्युधिष्ठिर |
२ क
वैशम्पाय़न उवाच:
शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः ||
२ ख
वैशम्पाय़न उवाच:
स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि |
३ क
वैशम्पाय़न उवाच:
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीय़ते ||
३ ख
वैशम्पाय़न उवाच:
गृहस्थं हि सदा देवाः पितर ऋषय़स्तथा |
४ क
वैशम्पाय़न उवाच:
भृत्याश्चैवोपजीवन्ति तान्भजस्व महीपते ||
४ ख
वैशम्पाय़न उवाच:
वय़ांसि पशवश्चैव भूतानि च महीपते |
५ क
वैशम्पाय़न उवाच:
गृहस्थैरेव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही ||
५ ख
वैशम्पाय़न उवाच:
सोऽय़ं चतुर्णामेतेषामाश्रमाणां दुराचरः |
६ क
वैशम्पाय़न उवाच:
तं चराविमनाः पार्थ दुश्चरं दुर्वलेन्द्रिय़ैः ||
६ ख
वैशम्पाय़न उवाच:
वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत् |
७ क
वैशम्पाय़न उवाच:
पितृपैतामहे राज्ये धुरमुद्वोढुमर्हसि ||
७ ख
वैशम्पाय़न उवाच:
तपो यज्ञस्तथा विद्या भैक्षमिन्द्रिय़निग्रहः |
८ क
वैशम्पाय़न उवाच:
ध्यानमेकान्तशीलत्वं तुष्टिर्दानं च शक्तितः ||
८ ख
वैशम्पाय़न उवाच:
व्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः |
९ क
वैशम्पाय़न उवाच:
क्षत्रिय़ाणां च वक्ष्यामि तवापि विदितं पुनः ||
९ ख
वैशम्पाय़न उवाच:
यज्ञो विद्या समुत्थानमसन्तोषः श्रिय़ं प्रति |
१० क
वैशम्पाय़न उवाच:
दण्डधारणमत्युग्रं प्रजानां परिपालनम् ||
१० ख
वैशम्पाय़न उवाच:
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा |
११ क
वैशम्पाय़न उवाच:
द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम् ||
११ ख
वैशम्पाय़न उवाच:
एतानि राज्ञां कर्माणि सुकृतानि विशां पते |
१२ क
वैशम्पाय़न उवाच:
इमं लोकममुं लोकं साधय़न्तीति नः श्रुतम् ||
१२ ख
वैशम्पाय़न उवाच:
तेषां ज्याय़स्तु कौन्तेय़ दण्डधारणमुच्यते |
१३ क
वैशम्पाय़न उवाच:
वलं हि क्षत्रिय़े नित्यं वले दण्डः समाहितः ||
१३ ख
वैशम्पाय़न उवाच:
एताश्चेष्टाः क्षत्रिय़ाणां राजन्संसिद्धिकारिकाः |
१४ क
वैशम्पाय़न उवाच:
अपि गाथामिमां चापि वृहस्पतिरभाषत ||
१४ ख
वैशम्पाय़न उवाच:
भूमिरेतौ निगिरति सर्पो विलशय़ानिव |
१५ क
वैशम्पाय़न उवाच:
राजानं चाविरोद्धारं व्राह्मणं चाप्रवासिनम् ||
१५ ख
वैशम्पाय़न उवाच:
सुद्युम्नश्चापि राजर्षिः श्रूय़ते दण्डधारणात् |
१६ क
वैशम्पाय़न उवाच:
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ||
१६ ख