chevron_left अनुशासन पर्व अध्याय २३
युधिष्ठिर उवाच:
किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् |
१ क
युधिष्ठिर उवाच:
व्राह्मणं लिङ्गिनं चैव व्राह्मणं वाप्यलिङ्गिनम् ||
१ ख
भीष्म उवाच:
स्ववृत्तिमभिपन्नाय़ लिङ्गिने वेतराय़ वा |
२ क
भीष्म उवाच:
देय़माहुर्महाराज उभावेतौ तपस्विनौ ||
२ ख
युधिष्ठिर उवाच:
श्रद्धय़ा परय़ा पूतो यः प्रय़च्छेद्द्विजातय़े |
३ क
युधिष्ठिर उवाच:
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ||
३ ख
भीष्म उवाच:
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशय़ः |
४ क
भीष्म उवाच:
पूतो भवति सर्वत्र किं पुनस्त्वं महीपते ||
४ ख
युधिष्ठिर उवाच:
न व्राह्मणं परीक्षेत दैवेषु सततं नरः |
५ क
युधिष्ठिर उवाच:
कव्यप्रदाने तु वुधाः परीक्ष्यं व्राह्मणं विदुः ||
५ ख
भीष्म उवाच:
न व्राह्मणः साधय़ते हव्यं दैवात्प्रसिध्यति |
६ क
भीष्म उवाच:
देवप्रसादादिज्यन्ते यजमाना न संशय़ः ||
६ ख
भीष्म उवाच:
व्राह्मणा भरतश्रेष्ठ सततं व्रह्मवादिनः |
७ क
भीष्म उवाच:
मार्कण्डेय़ः पुरा प्राह इह लोकेषु वुद्धिमान् ||
७ ख
युधिष्ठिर उवाच:
अपूर्वोऽप्यथ वा विद्वान्सम्वन्धी वाथ यो भवेत् |
८ क
युधिष्ठिर उवाच:
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ||
८ ख
भीष्म उवाच:
कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् |
९ क
भीष्म उवाच:
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रय़ः ||
९ ख
भीष्म उवाच:
तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् |
१० क
भीष्म उवाच:
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेय़स्य चैव हि ||
१० ख
पृथिव्यु उवाच:
यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति |
११ क
पृथिव्यु उवाच:
तथा दुश्चरितं सर्वं त्रय़्यावृत्त्या विनश्यति ||
११ ख
काश्यप उवाच:
सर्वे च वेदाः सह षड्भिरङ्गैः; साङ्ख्यं पुराणं च कुले च जन्म |
१२ क
काश्यप उवाच:
नैतानि सर्वाणि गतिर्भवन्ति; शीलव्यपेतस्य नरस्य राजन् ||
१२ ख
अग्निरु उवाच:
अधीय़ानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् |
१३ क
अग्निरु उवाच:
व्रह्मन्स तेनाचरते व्रह्महत्यां; लोकास्तस्य ह्यन्तवन्तो भवन्ति ||
१३ ख
मार्कण्डेय़ उवाच:
अश्वमेधसहस्रं च सत्यं च तुलय़ा धृतम् |
१४ क
मार्कण्डेय़ उवाच:
नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुय़ात् ||
१४ ख
भीष्म उवाच:
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः |
१५ क
भीष्म उवाच:
पृथिवी काश्यपोऽग्निश्च प्रकृष्टाय़ुश्च भार्गवः ||
१५ ख
युधिष्ठिर उवाच:
यदिदं व्राह्मणा लोके व्रतिनो भुञ्जते हविः |
१६ क
युधिष्ठिर उवाच:
भुक्तं व्राह्मणकामाय़ कथं तत्सुकृतं भवेत् ||
१६ ख
भीष्म उवाच:
आदिष्टिनो ये राजेन्द्र व्राह्मणा वेदपारगाः |
१७ क
भीष्म उवाच:
भुञ्जते व्रह्मकामाय़ व्रतलुप्ता भवन्ति ते ||
१७ ख
युधिष्ठिर उवाच:
अनेकान्तं वहुद्वारं धर्ममाहुर्मनीषिणः |
१८ क
युधिष्ठिर उवाच:
किं निश्चितं भवेत्तत्र तन्मे व्रूहि पितामह ||
१८ ख
भीष्म उवाच:
अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा |
१९ क
भीष्म उवाच:
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ||
१९ ख
भीष्म उवाच:
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् |
२० क
भीष्म उवाच:
अनाचरन्तस्तद्धर्मं सङ्करे निरताः प्रभो ||
२० ख
भीष्म उवाच:
तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः |
२१ क
भीष्म उवाच:
दश वर्षाणि विष्ठां स भुङ्क्ते निरय़माश्रितः ||
२१ ख
भीष्म उवाच:
मेदानां पुल्कसानां च तथैवान्तावसाय़िनाम् |
२२ क
भीष्म उवाच:
कृतं कर्माकृतं चापि रागमोहेन जल्पताम् ||
२२ ख
भीष्म उवाच:
वैश्वदेवं च ये मूढा विप्राय़ व्रह्मचारिणे |
२३ क
भीष्म उवाच:
ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ||
२३ ख
युधिष्ठिर उवाच:
किं परं व्रह्मचर्यस्य किं परं धर्मलक्षणम् |
२४ क
युधिष्ठिर उवाच:
किं च श्रेष्ठतमं शौचं तन्मे व्रूहि पितामह ||
२४ ख
भीष्म उवाच:
व्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् |
२५ क
भीष्म उवाच:
मर्यादाय़ां स्थितो धर्मः शमः शौचस्य लक्षणम् ||
२५ ख
युधिष्ठिर उवाच:
कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत् |
२६ क
युधिष्ठिर उवाच:
कस्मिन्काले सुखी च स्यात्तन्मे व्रूहि पितामह ||
२६ ख
भीष्म उवाच:
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् |
२७ क
भीष्म उवाच:
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ||
२७ ख
भीष्म उवाच:
व्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजय़ेत् |
२८ क
भीष्म उवाच:
सर्वभूतानुलोमश्च मृदुशीलः प्रिय़ंवदः ||
२८ ख
भीष्म उवाच:
अधिकारे यदनृतं राजगामि च पैशुनम् |
२९ क
भीष्म उवाच:
गुरोश्चालीककरणं समं तद्व्रह्महत्यया ||
२९ ख
भीष्म उवाच:
प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च |
३० क
भीष्म उवाच:
भ्रूणहत्यासमं चैतदुभय़ं यो निषेवते ||
३० ख
भीष्म उवाच:
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् |
३१ क
भीष्म उवाच:
न च व्राह्मणमाक्रोशेत्समं तद्व्रह्महत्यया ||
३१ ख
युधिष्ठिर उवाच:
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् |
३२ क
युधिष्ठिर उवाच:
कीदृशानां च भोक्तव्यं तन्मे व्रूहि पितामह ||
३२ ख
भीष्म उवाच:
अक्रोधना धर्मपराः सत्यनित्या दमे रताः |
३३ क
भीष्म उवाच:
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ||
३३ ख
भीष्म उवाच:
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रिय़ाः |
३४ क
भीष्म उवाच:
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ||
३४ ख
भीष्म उवाच:
अलुव्धाः शुचय़ो वैद्या ह्रीमन्तः सत्यवादिनः |
३५ क
भीष्म उवाच:
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ||
३५ ख
भीष्म उवाच:
साङ्गांश्च चतुरो वेदान्योऽधीय़ीत द्विजर्षभः |
३६ क
भीष्म उवाच:
षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषय़ो विदुः ||
३६ ख
भीष्म उवाच:
ये त्वेवङ्गुणजातीय़ास्तेभ्यो दत्तं महाफलम् |
३७ क
भीष्म उवाच:
सहस्रगुणमाप्नोति गुणार्हाय़ प्रदाय़कः ||
३७ ख
भीष्म उवाच:
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः |
३८ क
भीष्म उवाच:
तारय़ेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः ||
३८ ख
भीष्म उवाच:
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादय़ेत् |
३९ क
भीष्म उवाच:
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ||
३९ ख
भीष्म उवाच:
तारय़ेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः |
४० क
भीष्म उवाच:
किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत् ||
४० ख
भीष्म उवाच:
निशम्य च गुणोपेतं व्राह्मणं साधुसंमतम् |
४१ क
भीष्म उवाच:
दूरादानाय़येत्कृत्ये सर्वतश्चाभिपूजय़ेत् ||
४१ ख